________________
दशमो नियमविधिनयारः
विध्यादिसकलभङ्गात्मकसम्यग्दर्शनाधिकारे वर्तमाने विकलनयस्वरूपज्ञानमूलत्वात् सम्यग्दर्शनस्य विध्युभयविकल्पचतुष्टयात्मको मार्गों व्याख्याय नियमविकल्पचतुष्टयात्मके तृतीये मार्गे वर्तमाने तत्र नियमभङ्गं प्रथममुक्त्वाऽभिजल्पशब्दार्थमा भिमुख्येन दिक्प्रत्यासत्त्या, न साक्षात् , वस्तुतः सामान्यविशेषयोः कल्पितयोरेकत्वान्यत्वाद्यनेकदुरुपधारावस्थत्वादवक्तव्यतेत्यनन्तरनियमनयोऽभ्यधात् , अत्राप्य- 5 परितुष्यन् नियमविधिभङ्गारस्त्वाह
नैवंविधो नियमो युज्यते, स्ववचनविरोधादिदोषात् , अनेकावस्थापत्तावनियतत्वाच्च, इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तम् , तद्यथा-इदं तत् तदेवोद्यते तदेवापोद्यते त्वया ततश्चासत्तत् , स्वयं विहितनिवर्त्तित्वात् , सर्वोक्तानृतपक्षवत् ।
(नैवविध इति) नैवंविधो नियमो युज्यते स्ववचनविरोधादिदोषात्, अनेकावस्थापत्ताव- 10 नियतत्वाच्च, इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तम् , तद्यथा-इदं तत् तदेवोद्यते तदेवापोद्यते त्वया,-तदेव वैदस्यपवदसि चेत्यर्थः, ततः किं ? ततश्चासत्तत्-अशोभनं नास्ति चेत्यर्थः, कस्मात् ? स्वयं विहितनिवर्तित्वात्-आत्मना विहितमेव निवर्त्तयितुं शीलमस्येति स्वयं विहितनिवर्ति त्वद्वचनम् , तद्भावात् स्वयं विहितनिवर्त्तित्वात् , किमिव ? सर्वोक्तानृतपक्षवत्-यथा सर्वमुक्तमनृतमिति वदतो यदेवोदितं सर्वमुक्तमनृतमिति विधिना तदेवानृतत्वेन व्याप्तत्वात् प्रतिषिध्यमानमपोद्यते तथेदमपि त्वदीयं सर्वमवक्तव्यमिति । 15
अथ नियमविधिभङ्गमारिप्सुरवसरसङ्गतिलब्धतृतीयमार्गनिरूपणघटकनियमभङ्गवक्तव्यत्वमुपनिबध्नन् नियमविधिनिरूपणकारणं पूर्वनयेऽपरितोष एवेति दर्शयति-विध्यादीति । द्वादशभङ्गविषयसम्यग्ज्ञानं प्राधान्येन निरूपणीयम् , तच्चावयवज्ञानमन्तरेण न समुदायात्मकसकलभङ्गज्ञानमिति प्रत्येकमवयवे निरूपणीय विधिविकल्पचतुष्टयं विधिनियमोभयविकल्पचतुष्टयञ्च निरूप्यावसरप्राप्ते नियमविकल्पचतुष्टयात्मके तृतीये मार्गे प्राधान्यादादौ नियमभङ्ग व्युत्पाद्याभिजल्पस्य शब्दार्थत्वमपि दिङ्मात्रेणोपपादितम् , वस्तुतः सामान्यविशेषयोरेकत्वान्यत्वादिरूपतोऽवधारयितुमशक्यत्वेनावाच्यत्वादिति, तदेवमवक्तव्यत्वमेव वस्तुनः 30 खरूपमिति निरूपितेऽयं नियमविधिनयस्तत्र परितोषाभावात्तन्मतं निराकर्तुमाह-नैवविध इति । सामान्यविशेषयोरवक्तव्यत्वे निश्चितनियताधिकभावेन यतस्ववृत्तित्वमित्येवंविधो नियमो न युज्यते खवचनविरोधादिदोषप्रसङ्गात्, तथैकावस्थाया वस्तुनोऽभावादनेकावस्थापत्ती नियतताविरहात् , न हि सामान्यविशेषकान्यत्वाद्यनेकात्मकं वस्तु नियतस्वरूपं भवति, अनियतस्वरूपत्वे त्वसदेव स्यात्, खपुष्पवदित्याशयेन व्याकरोति-नैवंविधो नियम इति । स्ववचनविरोधमद्धावयति- इदं हीति. इदं वस्त तदेव-एकत्वादिरूपमेवेति प्रथममभिधाय पुनस्तदेवैकत्वं निराक्रियते त्वयेत्यर्थः। एतेन किं भवेदित्यत्राह-ततश्चेति, अभ्युपगम्य 25 निराकरणाद्वचनमसदेव भवेदिति भावः । कथमित्यत्राह-स्वयमिति, वचनेन विहितस्यैव वस्तुनो निराकरणशीलत्वाद्वचनस्येत्यर्थः । दृष्टान्तमाह-सर्वोक्तेति, निजनिखिलवचनानामसत्यार्थताप्रकाशनाय सर्वमहमनृतं ब्रवीमीत्युक्ते तद्वाक्यं निखिलवचनासत्यत्वं विदधत् सत् खेतरवचनानीव तद्वाक्यमप्यसत्यमिति प्राप्तमसत्यत्वमपोद्यत इति विहितनिवर्ति वचनं तत्तथा सर्वमवक्तव्यमिति वचनमपि निखिलस्यावक्तव्यतां विदधत् सत्तदितरेषामिव तस्य वाक्यस्याप्यवक्तव्यत्वादवक्तव्यत्वस्यैव प्रतिषेधि
१ सि.क्ष. छा. डे. नियमनयोऽभिधात् । २ छा. अनेकधाऽवस्था० । ३ सि. क्ष. छा. डे. संवृत्तः । ४ सि.क्ष. छा.डे. तदेववश्यऽयवदमिवेत्यर्थः।
द्वा० न०६ (१३१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org