________________
१०४०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य चापोद्यते, तद्यथा प्रागेव तावत् सामान्यविशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितं विधाय दृष्टान्तेऽग्नेरिन्धनपृथग्भूतं रूपमाख्येयमित्यादिना पुनः प्रतिषिद्धः, सोऽपि चाप्रत्ययः यथोक्तमग्नेरिन्धनमित्यादि यावदसदापद्ये
तेत्यादि, तदेतत् पुनस्तयोः स्वयमेवापोदितम् , ननु ज्वाला देश इति निरूपणादन्यत्वं स्फुटी. 5 भूतमपि तद्वा कुतोऽनिन्धनमित्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहितमेवेति ब्रुवता ।
(एतस्येति) एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य च परस्परतः पुनश्चापोद्यते, तद्यथा-प्रागेव तावत् सामान्यविशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितमर्थात्तद्बलेन प्रतिषेधात् , तदन्यत्वं विधाय पुनः प्रतिषिद्धम् , कथं प्रतिषिद्धमिति चेदुच्यते तद्यथा-दृष्टान्ते यदुक्तमग्नेरिन्धनपृथग्भूतं रूपमाख्येयमित्यादिना च प्रतिषिद्धम् , सोऽपि च प्रतिषेधोऽप्रत्ययः, तं प्रतिषेधान्थं दर्शयति अ] प्रत्ययत्वेन-यथोक्त10 मग्नेरिन्धनमित्यादि यावदसदापद्येतेत्यादि, आदिग्रहणात् सयुक्तिकं सर्वग्रन्थं सन्दिशति, तदेतत् पुनस्तयोः
स्वयमेवापोदितं-निराकृतम् , कथमिति चेदुच्यते-ननु ज्वाला देशे-यत्तदिन्धनपृथग्भूतं रूपमः पृच्छयते तज्ज्वालाऽऽकाशदेशे गृहाणेति निरूपणादन्यत्वं स्फुटीभूतमपि पुनस्तद्वा कुतोऽनिन्धनमित्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहितमेवेति ब्रुवता, तथा चेदमुक्तं भवत्यदीप्यमानं प्रागनिन्धनमकाष्ठश्च सारुकाष्ठादि पश्चाद्दीप्तिस्वभावमिन्धनं काष्ठं भवतीति, यस्य संस्पर्शादिध्यते दीप्यते च दारुकाष्ठादि तस्याग्नेः 15 रूपमिति ।
mmmmmmm
भवतीति भावः । दृष्टान्तं घटयति-यथा सर्वमिति, वचनेनानेनोदितमात्रस्यानृतत्वव्याप्यत्वं प्रतीयत इत्यन्यवचसामुदितत्वादनृतत्ववदस्यापि वचनस्योदितत्वादनृतत्वं सिद्ध्यतीति वचनेनानेन विहितमनृतत्वमपोद्यते, वाक्यस्यास्यानृतत्वादिति भावः । विहितनिवर्तित्वं तदीयोक्तिनिदर्शनपूर्वकं व्यवस्थापयति-एतस्य प्रतिपादनार्थमिति, अवक्तव्यत्वस्य व्यवस्थापनार्थमित्यर्थः ।
व्याकरोति-एतस्येति, अवक्तव्यत्वं प्रतिपादयितुमेकत्वान्यत्वोभयत्वानुभयत्वान्यतरप्रधानोपसर्जनत्वेषु परस्परमेकतमप्रतिषे20 धायान्यतमं व्यवस्थाप्य पुनस्तस्याप्यपवादः कृत इति भावः। सदृष्टान्तं परस्परतो व्यवस्थानप्रतिषेधौ दर्शयति-तद्यथेति. एकत्वान्यत्वयोः परस्पर प्रतिषेधव्याप्यत्वादेकत्वप्रतिषेधेऽन्यत्वमवश्यमुपस्थितं भवतीति भावः । इतरथा के पक्षमवलम्ब्य प्रतिषेधः एकत्वस्य भवेदत आह-तबलेनेति, अन्यत्वस्य बलेनैकत्वस्य निराकरणादित्यर्थः । एकत्वनिराकरणायान्यत्वं विधाय पुनस्तदेवान्यत्वममेरिन्धनपृथग्भूतं रूपमाख्येयमित्यादिग्रन्थेन प्रतिषिध्यत इत्याह-तदन्यत्वं विधायेति । अयं प्रतिषेधोऽपि न ते प्राह्य
स्तस्याप्यग्नेरिन्धनात् पृथग्भूतरूपस्याख्यानाशक्यत्वेन प्रतिषेधादिति दर्शयति-सोऽपि चेति । पुनश्चाग्नेरिन्धनात् पृथग्भूतं 25 रूपमाकाशदेशे ज्वालाख्यमस्तीति निरूपणेनान्यत्वं स्फुटमपि तत्रापि सेन्धनत्वं त्रुवता निराकृतमित्याह-तदेतत् पुनरिति,
अग्नीन्धनयोरन्यत्वं पुनरित्यर्थः । पूर्वग्रन्थं सूचयति-ननु ज्वाला देश इति, आकाशदेशे या ज्वाला तदग्नेरिन्धनपृथग्भूतं रूपमित्यर्थः, एतेनेन्धनादन्यत्वमग्नः स्फुटीकृतमिति भावः । तद्वा कुतोऽनिन्धनमिति ग्रन्थेन तदप्यन्यत्वं निराकृतमित्याह-पुनस्तद्वेति, आकाशदेशे ज्वालारूपमित्यर्थः । एवञ्चाग्नेर्दारुकाष्ठादीन्धनमेव रूपमित्युक्तं भवतीति दर्शयति-तथा चेदमुक्तं भवतीति, दारुकाष्ठादिकं यत्संसर्गात् प्रागदीप्यमानमनिन्धनमकाष्ठचासीत् पश्चात्तत्संसर्गात् दीप्यमानमिन्धनं काष्ठञ्च भवति तदेव दारुका.
१ सि.क्ष. छा. हे. यावत्सन्नाप० । २ सि.क्ष. छा. डे. निरूपणानाम्यन्त्वस्फु० । ३ सि. क्ष. डे. छा. प्रागनिबन्धन०। ४ सि. क्ष. छा. डे. सहारुदकादि । ५ सि.क्ष. छा. डे. तच्च सं० । ६ सि. क्ष. छा. डे. दारुदकादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org