________________
प्रतिषेधानामप्रत्ययता] द्वादशारनयचक्रम्
१०४१ एतच्चान्यत्वमेव समर्थयत्यतोऽप्रत्ययम् ।
(एतच्चेति) एतच्च-अन्यत्वप्रतिषेधार्थं वचनमन्यत्वमेव समर्थयत्यतोऽप्रत्ययम् , यद्यन्यत्वं समर्थितमेव परिगृह्येत स्य[]त्सप्रत्ययम् , न तु तत् परिगृहीतम् , तस्मादन्यत्वप्रतिषेधोऽप्रत्ययः, तत्समर्थनादेव दृष्टान्तवर्णने[5]न्यत्वप्रतिषेधोऽप्रत्ययः ।
किश्चान्यत्
उपसंहारेऽपि यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयमित्यादि, एतदपि त्वयैवापोदितम् , ननु भवद्विशेषा एव समुदिता एकमित्युच्यन्ते भ्रान्तः, एकैक एव विशेषः प्रणिधानवद्भिरवगम्यते, रूपरसादिघटैकत्वविशेषवत् । पृथगेकत्वविलक्षणं प्रतिपादयितुं विशेषस्य भावपृथग्भूतं रूपमाख्येयमित्यादिना पृथगेकत्वमन्यत्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं समर्थितमतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधो दाष्टान्ति- 10 कोपसंहारेऽपीति।
उपसंहारेऽपीत्यादि, भावविशेषयोरेकत्वं प्रतिषिध्यान्यत्वं व्यवस्थाप्य तत्प्रतिषेधे दार्टान्तिकोपसंहारे यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयमित्यादि-तमेव ग्रन्थं तदुक्तं दर्शयति, एतदपि त्वयैवापोदितं-अन्यत्वप्रतिषेधवचनम् , कथमिति तदर्शयति-ननु भवद्विशेषा इत्यादि, ननु विशेषा एव भवन्ति[न]सामान्य नाम किश्चिदस्ति, ते च विशेषा एव भवन्तः समुदिता एकमित्युच्यन्ते, नैकं किश्चिदनेकात्मकं वस्तु, 15 किं तर्हि ? एकैक एव-एको विशेषोऽन्योऽन्यो भवतीति परमार्थः, प्रणिधानवद्भिरभ्रान्तैरवगम्यते, भ्रान्तास्तु विशेषा एव भवन्तः समुदिता ऐकमित्युपासते, किमिव ? रूपरसादिघटैकत्वविशेषवत्, यथा रूपरसगन्धस्पर्शसंख्या इत्यादीतरेतरभूतेषु] विशेषगुणः अन्योन्यो भवतीति समुदायकृतादेकत्वात् भ्रान्तिहेतुकात् [?] छादि तस्याग्ने रूपमित्युक्तम्भवतीति भावः । इदच्च वचनमप्रत्ययमेवेत्याह-पतञ्चेति । अग्निसंसर्गाहारुकाष्ठादिकमिध्यते दीप्यते तस्मादमेस्तद्र्पमित्यन्यत्वप्रतिषेधार्थ वचनममिदावादीनामन्यत्वमेव समर्थयति, प्राग्दावोदि नेन्धनं-न दीप्तिस्वभावम्, पश्चादन्य-10 स्याग्नेः सम्बन्धात्तद्दीप्तिस्वभावमिन्धनं जातमिति स्पष्टाग्निदाोरन्यताप्रतीतिरित्याशयेन व्याकरोति-यद्यन्यत्वमिति, तत्समर्थनादेव-अन्यत्वसमर्थनादेव । दार्टान्तिके विशेषस्य भावादन्यत्वे विशेषस्वरूपताया भावस्यासम्भवेनान्यच्चरूपं विशेषस्य वाच्यमित्यादि यदुक्तं तदपि त्वयैवापोदितमित्याख्याति-उपसंहारेऽपीति । भावविशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमर्थतः प्राप्यते, अन्यत्वाभिप्रायेणैवैकत्वस्य प्रतिषेधात् , एवमन्यत्वं विधाय पुनस्तदपि प्रतिषिध्यते दान्तिकोपसंहार इत्याह भावविशेषयोरिति । पूर्वोदितमेवान्यत्वप्रतिषेधग्रन्थमुपदर्शयति-यदुक्तमिति । पुनरप्यन्यत्वप्रतिषेधवचनमपीदं त्वयैवापोदितमिति प्रतिषेधग्रन्थमाह-25 ननु भवद्विशेषा इत्यादीति, विशेषा एव भवन्ति ते चैकैकाः, न त्वनेकात्मकमेकं वस्तु वर्त्तते, किन्त्वेकैकाः विशेषा एव समुदिता अनेकेऽपि एकमित्युच्यन्ते न तु सामान्य नामैक किञ्चिदस्ति, तत्र समुदितेषु विशेषेष्वेकत्वमतिर्धान्तानाम् , अन्योऽन्यो विशेष इति तु मतिः प्रणिधानवतामभ्रान्तानामिति भावः । भ्रान्त्या समुदितेषु विशेषेष्वेकत्वमतिरित्यत्र दृष्टान्तमाह-रूपरसादीति, रूपरसगन्धस्पर्शादय एव विशेषाः परस्पर भिन्नाः, तेषु समुदायस्यैकत्वात् भ्रान्त्या एकघटबुद्धिरुत्पद्यत इति भावः । इतरेतरेति, इतरेतरभूतेषु-पृथक् पृथग्भूतेषु, यतो विशेषगुणोऽन्योऽन्यो भवतीति, अस्मादेव हेतोः भ्रान्तिहेतुभूतसमुदाय- 30
सि. क्ष. छा डे न्यत्र प्र० । २ सि. क्ष. छा. डे. शेषेत्यादि । ३ क्ष. छा. एशक एकमिः । ४ सर्वासु प्रतिषु 'इत्यादीतरेतराभूते विशेषगुणअन्योन्यो न भवतीति समुदायकृतादेकरवाड्रान्तिहेतुत्वात् पृथगेकत्वविलक्षणं' इत्येवं पाठ उपलभ्यते, अन्न कश्चिदंशस्त्रुटित इति प्रतिभाति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org