________________
१०४२
न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमविधिनयारे
पृथकत्व विलक्षणं- विविक्तं विशेषविषयं प्रतिपादयितुं - विशेषस्य भावपृथग्भूतं रूपमाख्येयमित्यादिना पृथगेकत्वमन्यत्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं समर्थितम्, अतोऽन्यत्वप्रतिषेधेऽतिस्फुटएव स्ववचनविरोधो दाष्टन्तिकोपसंहारेऽपीति ।
ब्रूयास्त्वम्—
5
"
नूभयतोSपि प्रतिषेधाददोष, इति, अत्रेदमसि त्वं प्रष्टव्यः - किंविषया तर्ह्यवक्तव्यता ? तत्र न तावद्भावस्य विशेषस्योभयस्य वा, भावस्यैकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः, अप्रविभागतस्तावदेकत्वं नास्ति, द्वितीय रहितस्योपाख्यानाशक्यत्वेन त्वयैव प्रतिषिद्धत्वात् प्रविभागतोऽपि नास्ति सहासहभवनस्य द्विष्ठत्वादित्यादिना निषिद्धत्वादेव, तथा विशेषस्योभयस्य च सिद्धे चैकत्वेतद्बलेनान्यत्वं व्यावर्येत, तत्तु नास्ति । 10 ( नन्विति ) ननूभयतोऽपि प्रतिषेधाददोषः - एकत्वं प्रतिषिध्य पुनरन्यत्वमपि प्रतिषिद्धमेव, तथोभयत्वमनुभयत्वञ्च प्रतिषिध्यावक्तव्यतैव समर्थितेति, अत्रेदमसि त्वं प्रष्टव्यः - किंविषया तर्ह्यवक्तव्यता यद्युभयप्रतिषेध एव कतमद्वस्तु यदवक्तव्यम्, किं तद्भावो विशेष उभयं वेति निर्धार्यम्, वस्तुत्वे सति विकल्पत्रयानतिवृत्तेः, तत्र न तावद्भावस्य न विशेषस्य नोभयस्य वा, नकारानुवर्त्तनात्, भावस्यैकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः, अप्रविभागेनैकत्वं यथा पुरुष एवेदं सर्वमित्यादि, 15 प्रविभागेन सति द्वितीये तेन सहासम्पर्कादेकं स्यात्, यथा- 'न सिंहवृन्दं भुवि भूतपूर्वमाशीविषाणामपि नास्ति वृन्दम् । एकाकिनस्ते विचरन्ति धीरास्तेजस्विनां नास्ति सहायकृत्यम् ॥' ( ) इत्येक
wwwwwww
कृतैकत्वात् तेष्वेको घट इति बुद्धिरुदेतीति भावः प्रतिभाति । अन्यत्वं व्यवस्थाप्य प्रतिषिद्धमिति यदुक्तं तद्दर्शयति- पृथगेकत्वविलक्षणमिति, भिन्नं यदेकत्वं - सामान्यं ततो विलक्षणमित्यर्थः, भावाद्विशेषस्यान्यत्वे सामान्यात् विलक्षणं रूपं विशेषस्य प्रतिपादयितुमिति भावः । विशेषस्य भावपृथग्भूतमिति, एकात्मकाद्भावात् पृथग्भूतं रूपं - स्वत एवैकैकत्वं न तु भावैकत्वा20 द्विशेषाणामेकैकत्वम्, भावतोऽन्यत्वञ्च स्वरूपत एव वक्तव्यमिति वचनादन्यत्वं समर्थितमिति भावः । अतोऽन्यत्वेति, अस्माग्रन्थान्ननु भवद्विशेषा इत्यस्मादन्यत्वप्रतिषेधे सति स्ववचनविरोधोऽत्यन्तं स्फुट एव दान्तिकेऽपीति भावः । एकत्वस्या - न्यत्वस्य च प्रतिषेधात्तथोभयत्वस्यानुभयत्वस्य च निराकरणादवक्तव्यत्वं समर्थितमतो न स्ववचनविरोध इत्याह- ननूभयतोऽपीति । व्याचष्टे - एकत्वं प्रतिषिध्येति । एकत्वादीनां प्रतिषेधेऽवक्तव्यत्वं कस्येति प्रष्टव्योऽसीत्याह - अत्रेदमसीति । प्रश्नं व्याचष्टे-यद्युभयेति । एकत्वान्यत्वयोः प्रतिषेधेऽवक्तव्यत्वाश्रयं वस्तु किमित्यर्थः । तच्च भावो वा स्यात् विशेषो वोभयं वा, 25 वस्तुनः सामान्यविशेषरूपतया विकल्पत्रयस्यैव सम्भवादित्याह किं तद् भाव इति । त्रयमप्यवक्तव्यत्वस्य विषयो न सम्भवतीत्याह तत्र न तावदिति । भावशब्देन समभिव्याहृतस्य नञः विशेषेणोभयेन च सम्बन्धात् त्रयस्यापि निषेध इत्याशयेनाह - नारेति । तत्र यदि भावो विषयस्तर्हि किं निरपेक्षैकत्वान्यत्वादि मन्यते, उत सापेक्षैकत्वादि वेति विकल्पयति-भावस्यैकत्वेति । यदि भावनिरपेक्षैकत्वं तदा पुरुष एवेदं सर्वमित्यादिवत् स्यात्, यदि च सापेक्षैकत्वं तर्हि एकत्वमसहायः ससहायश्च द्वित्वादीति सहायविरहतद्योगरूपतयैकत्वादेः सति सहाये प्रसिद्धे तेन सहासम्बन्धादसहायरूपैकत्वं भवेदित्युभयं पक्षं दर्शयति30 अप्रविभागेनेति । असहायरूपैकत्वं सहाये सतीत्यत्र निदर्शनमाह-न सिंहवृन्दमिति, किमर्थं सिंहोऽटव्या मेकाकी चरति ?
I
१ सि, क्ष. डे. 'स्विनामस्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org