________________
निषेधासंभवसमर्थनम्] द्वादशारनयचक्रम्
१०४३ शब्दस्यासहायार्थत्वात् , अप्रविभागतस्तावदेकत्वं भावस्य विशेषस्योभयस्य वा नास्ति, द्वितीयरहितस्योपाख्यानाशक्यत्वेन त्वयैव प्रतिषिद्धत्वात् , प्रविभागतोऽपि नास्ति, सहासहभवनस्य द्विष्ठत्वादित्यादिना निषिद्धत्वादेव, तथा विशेषस्योभयस्य चैकत्वं नास्तीत्युक्तम् , सिद्धे चैकत्वे तद्बलेनान्यत्वं व्यावत्यैत–सम्भाव्यते चैकत्वं परिगृह्य तहारेण तदुपायेनान्यत्वस्य व्यावर्त्तनम् , तत्तु नास्त्येकत्वं तदभावादन्यत्वप्रतिषेधाभावः ।
स्यान्मतमन्यत्वं सिद्धं तद्वलेनैकत्वोभयत्वादि प्रतिषिध्यत इति तच्च
न चान्यत्वं सिद्धम् , त्वयैव तस्यापि निषिद्धत्वात् , यद्बलेनोभयत्वं व्यावतैकत्वं वा तथानुभयत्वमपि नास्ति, एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तम् , यद्बलेनैकत्वान्यत्वोभयत्वानि व्यावत्यैरन् , यस्य वाच्यतामवाच्यतां वा गृहीत्वाऽवाच्यं वाच्यं वा व्यावर्त्तत, व्यवस्थापूर्वत्वादितरव्यावर्तनस्य ।
(न चेति ) नान्यत्वं सिद्ध-तथैव[7] प्रविभागतो वान्यत्वं नास्ति घटपटयोरिव जीवशरीरयोरिव 10 वा संभाव्यमानं, त्वयैव तस्यापि निषिद्धत्वात् , यद्बलेन-अन्यत्वद्वारेणोभयत्वं व्यावत्यैतैकत्वं वा, तथानुभयत्वमपि नास्ति, एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तं यद्बलेनैकत्वान्यत्वोभयत्वानि व्यावत्यैरन् , यस्य वाच्यतां गृहीत्वेति, इंदं वाच्यमेकत्वमन्यत्वमुभयत्वं वा दृष्टम् , इदन्तु तद्वन्न भवति, अवाच्यम् , तथेदं[न]वाच्यमनुभयं तद्वत्तानि न वाच्यानीयवाच्यबलाद् वाच्यं वा व्यावत्येंत, व्यवस्थापूर्वत्वादितरव्यावर्तनस्य ।
अन्वयव्यतिरेकाभ्यामधिगमाच्च, कथम् ? एकशब्दो ह्यन्यनिरपेक्षसंख्यार्थः, तस्मा
15
किमर्थं वाऽऽशीविष एककश्चरति ? न तु वृन्दरूपतया तेषां सञ्चरणं जगति कदापि दृष्टम् तत्रोत्तरं-ते धीरा यतोऽत एवैकाकिनश्चरन्ति तेजस्विनां हि सहायेन न किमपि प्रयोजनमस्तीति तदर्थः, अत्र वृन्दस्य सद्भावेऽपि तेन सह संपर्काभावोऽसहायपरेणैकशब्देन सूचित इति भावः । तदेवं प्रविभागाप्रविभागतो द्वैविध्य प्रदर्याथाप्रविभागेन भावादेरेकत्वेऽभ्युपगते स्वरूपाभावेनोपाख्यातुमशक्यत्वस्य त्वयैव प्राकू प्रतिषिद्धत्वेनासत्त्वापत्तिः स्यादित्याह-अप्रविभागतस्तावदिति । प्रविभागतोऽपीति, भावस्य 20 विशेषेण सहकत्वरूपं प्रविभागत एकत्वं तच्च निषिद्धमेकत्वे इदं सह इदञ्च न सहेति विशेषासम्भवादिति भावः । एवमेव च । विशेषस्योभयस्य चैकत्वप्रतिषेधः सिद्ध इत्याह-तथा विशेषस्येति, एवमेकत्वासिद्धत्वादन्यत्वं कथं व्यावर्त्तयितुं शक्यते, सिद्धेकत्वपरिग्रहादेवान्यत्वव्यावर्त्तनसम्भवात्, नास्ति चेदेकत्वं तदाऽन्यत्वप्रतिषेधोऽपि न सम्भवत्येवेति भावः । अथाऽन्यत्वं सिद्धवत्कृत्य तद्वारेणैकत्वोभयत्वादिकं निषिध्यत इत्यत्राह-न चान्यत्वमिति । घटपटयोरिव प्रविभागतो जीवशरीरयोरिवाप्रविभागतो वा नान्यत्वं सिद्धमेकत्वेनानुपष्टब्धत्वात् , एकत्वं हि अन्वयः, अन्यत्वञ्च विशेषः, न ह्यन्वयरहितो विशेषो निःस्वरूपोऽस्ति, उपाख्यातुमशक्यत्वादित्यादिनाऽन्यत्वस्य त्वयैव प्रतिषिद्धत्वान्न तद्वारेणैकत्वोभयत्वादिव्यावृत्तिसभ्भव इत्याशयेन व्याकरोति-नान्यत्वं सिद्धमिति। एवमनुभयत्वमप्यसिद्धम् , एकत्वस्यासहायत्वलक्षणत्वात् , अन्यत्वस्य च ससहायलक्षणत्वादिति भिन्नभिन्नलक्षणात् तयोर्व्यवस्थितत्वादित्याह-तथाऽनुभयत्वमपीति । एवञ्च यद्येन व्यावत्यैत तयोरुभयोर्व्यवस्थितयोरेव व्यावृत्तिः सम्भवति, यथा-इदं एकत्वमन्यत्वमुभयत्वं वा वाच्यं दृष्टम् , इदन्त्वनुभयत्वं वाच्यं न भवतीति वाच्यताव्यावृत्त्याऽवाच्यत्वं स्यात् , एवमनुभयत्वमवाच्यं दृष्टम् , इदन्त्वेकत्वमन्यत्वमुभयत्वं वा नावाच्यमित्यवाच्यताव्यावृत्त्या वाच्यत्वं स्यादित्याह-30 यस्य वाच्यतामिति । हेत्वन्तरमाह-अन्वयेति । सर्वत्रार्थनिश्चयोऽन्वयव्यतिरेकाभ्यां भवति-यथाऽयं घट एवेत्यन्वयान
सि. क्ष. छा. डे. °रहितस्वरूपा०। २ सि.क्ष. छा. डे. एदं। ३ सि. क्ष. छा. डे. °बलादवाच्यं वाच्यावतेतरव्यवस्थापूर्वस्थादिता।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org