________________
उभयत्वावक्तव्यता] द्वादशारनयचक्रम्
१०२१ नग्नित्वादित्यत एकत्वेऽग्निरेवेन्धनमन्यत्वेऽनग्निः, तथेन्धन[]निन्धनत्वव्यावृत्तेरित्यपि भवति हेतुः, तत्पर्यायार्थत्वात् , खपुष्पवत्-यथा खपुष्पं नाग्नि नग्निः, तदेकत्वानेकत्वव्यावृत्तेरसच्च तथाऽग्नीन्धने स्याताम्-उभयमपि नेत्यर्थः, अत्र वयं ब्रूमः, ननु भिन्नत्यादि, एतदप्यनुभयत्वं न वचनीयम् , कस्मात् ? भिन्नव्यवस्थानलक्षणत्वात् , भिन्न-विविक्तमसङ्कीर्ण व्यवस्थानं-काष्ठमेवेदं दाह्यशैत्यादिलक्षणमग्निरेवायमौष्ण्यदाहकादिलक्षण इति तदेव व्यवस्थानं चिह्न लक्षणमस्योभयस्य तद्भावाद्भिन्नव्यवस्थानलक्षणत्वात्, संवृत्तिसन् घटपटवन्नानु- 5 भयत्वम् , तस्माल्लक्षणसद्भावान्नास्तीत्यप्यवचनीयमेव, स्यान्मतं दाह्यदहनलक्षणत्वासिद्धिस्तल्लक्ष्यधर्म्यसिद्धेरित्येतच्च न, यस्मात् सिद्धं सत्त्वं धर्मधर्मिणोरिति, तत्प्र[सा]धनार्थमाह-यदि[दाह्यदाहकत्वेत्यादि, यदि काष्ठं दारु दाह्यमेव दाहकोऽग्निरेवेति लक्षणनियमो न स्यात्तयोर्व्यवस्थितः ततोऽग्निरपि दह्येत काष्ठवत्, पच्येतौदनवत् पाचकत्वलक्षणाव्यवस्थानात् पाक्यत्वात् , ततो भुज्येत चौदनवदेवें, पृथगनिष्टश्चैतत् , तस्माद्व्यवस्थितं पाचकदाहकत्वादिलक्षणमग्नेः, तथेन्धनमपि दाह्यपाक्यादिव्यवस्थितभिन्नलक्षणं यदि न स्यात् पृथगेव दहेत् 10 विनाप्यग्निना काष्ठतृणादिसंहतं पचेच्चौदनादिकमग्निवदग्नित्वादित्यतो दहनमन्तरेणैव पाकः स्यात्, न तु भवति, तदुपसंहरति-इत्यनुभयताप्यवक्तव्यैवेति ।
अनुभयञ्चेन्नास्ति उभयमस्ति तर्हि तच्चोभयं भिन्नव्यवस्थानवृत्तमपि, एवं नाभ्युपगम्यते ततो सर्वात्मकैकनित्यकालाद्यन्यतमद्भावतत्त्वमसन्निरुपाख्यं चेत्येतदुभयं स्यात् , तच्च न भवति निष्ठितत्वादेषां पक्षाणाम् , अनुभयत्वप्रतिषेधादुभयत्वमिति चेन्न, अन्यत्वावक्तव्यत्वात् , 15
प्राप्तम् , अन्यत्वे इन्धनमनग्निरेव स्यात्, अन्यत्वादित्यग्निव्यावृत्तानग्नित्वं तथा च प्रवृत्त्यभावादसत्त्वं प्राप्तमिति भावः । एवं व्यावृत्तेन्धनानिन्धनत्वादित्यपि हेतुः शक्यो वक्तुम् , अग्नीन्धनयोः पर्यायत्वात् , हेत्वोरपि पर्यायार्थत्वादित्याह-तथेन्धनेति, व्यावृत्तेन्धनानिन्धनत्वादित्यर्थः, एकत्वे इन्धनमेवाग्निरन्यत्वेऽनिन्धनमिति भावः। दृष्टान्तमाह-खपुष्पवदिति । घटयति-यथेति, यथा खपुष्पं नैकमतो नाग्निः, नानेकमतश्च नानग्निरेवञ्चासत् तथाऽनीन्धनयोरेकत्वव्यावृत्त्याऽग्नित्वव्यावृत्तिरनेकत्वव्यावृत्त्याऽनग्नित्वव्यावृत्तिस्तस्मादुभयमपि नेति भावः । अग्नीन्धनयोरनुभयत्वमप्यवचनीयमेव, उभयत्वव्यवस्थापकलक्षणसद्भावादित्याशयेनाह- 20 ननु भिन्नेत्यादीति । हेतुं व्याचष्टे-भिन्नं विविक्तमिति । दाह्यमनुष्णस्वभावं काष्ठं भवतीति काष्ठलक्षणम् , दाहक उष्णखभावोऽमिरित्यमिलक्षणं लक्षणप्रमाणाभ्याञ्च वस्तुसिद्धिः, भिन्नभिन्नलक्षणत्वाच्च काष्ठमग्निश्चेत्युभयं सिद्ध्यति, न तु कल्पनया सद्भावमापनयोघटपटयोरिवेत्याह-काष्ठमेवेदमिति, एवञ्च लक्षणस्य व्यवस्थापकस्य सद्भावेनोभयोरस्तित्वे कथं नास्तीति वक्तव्यं स्यादिति भावः । ननु वस्तुसिद्धौ हि असङ्कीर्णव्यवहाराय लक्षणमपेक्षणीयम् , यतो हि लक्षणं धर्मविशेषः,आश्रयसिद्धौ चायमस्यासाधारणो धर्म इति वक्तुं शक्यते, यदा चैकत्वनानात्वव्यावृत्त्या वस्तुन एवाभावस्तदा कस्येदं लक्षणं स्यादित्याशङ्कते-स्यान्मत- 25 मिति । धर्मधर्मिणोन सत्त्वमसिद्धम् ; दाह्यत्वदाहकत्वयोर्लक्षणयोर्व्यवस्थितत्वादिदमेव दाह्यं न दाहकम् , इदमेव च दाहकं न दायमिति हि व्यवस्थितिः, काष्ठस्य दाह्यत्वमेव न दाहकत्वमग्नेर्दाहकत्वमेव न दाह्यत्वम् , यदि धर्मावेतौ क्वचियवस्थितौ न स्यातां तर्हि दाह्यमग्निरपि स्यात् काष्ठमिव, पाचकोऽप्यग्निः पच्येत, पाक्यपाचकत्वलक्षणयोरप्यनवस्थितत्वात् , ओदनवदेव भुज्येत च, न चैवमतो दाह्यत्वदाहकत्वादिधर्माणां व्यवस्थितर्मिवृत्तित्वाद्धर्मधर्मिणोः सत्त्वं सिद्धमित्याह-यदि काष्ठमिति । यद्यग्निः पाचक एव दाहक एवैवं काष्ठं पाक्यमेव दाह्यमेवेति व्यवस्थितलक्षणं न स्यात्तर्हि विनाप्यग्निमोदनादिकमग्निरिव पचेत् , दहनेन विनापि पाको 30 भवेत् , न चैवमतः पाक्यदाह्यादिलक्षणेन काष्ठं व्यवस्थितमित्याह-तथेन्धनमपीति । एवञ्च लक्षणसद्भावादग्नीन्धनयोरनुभयताप्यवक्तव्यैवेत्युपसंहरति-इत्यनुभयतापीति। उभयत्वपक्षमाशङ्कते-अनुभयञ्चेदिति । अनुभयत्वपक्षप्रतिषेधे हि तत्प्रतिपक्षभूत
१ सि. क्ष. छा. डे. शैलादि० । २ सि. क्ष. छा. दे. पाक्यत्वात् । ३ सि.क्ष. छा. डे. °देकपृथ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org