________________
•.....
१०२०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे सम्बन्ध्यन्तरापेक्षविशिष्टपितृत्वादिव्यपदेशात्मकदेवदत्तवच्चैकः, अन्यथा तद्भेदाभावात् भेदास्त एवान्य इति वक्तुमशक्याः , देवदत्तात्मकत्वात् घटाद्यात्मकत्वाच्च..................
..............................रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति ।
सहासहेत्यादि, सहभवनं [असहभवन]मित्येतद्वयमपि द्विष्टमतो यद्येकं काष्ठं, [अमिना] अग्निर्वा 5 काष्ठेन, अथ नाना सर्वथाऽप्यनयोरन्योऽन्याविनाभाविनोर्भवत्येतत्तु, तत्तु द्वयमेकं[इति]अन्यदिति वा न शक्यते
वक्तुम् , तस्मान्न तदन्यत् , अथापि कथञ्चिदित्यादि, पूर्ववदभ्युपेत्य त्वन्मत्याऽन्यत् , अन्यदेवेति न वक्तव्यमन्यत्वात् , हस्ताद्यन्यानन्यदेवदत्तवत् , हस्ताङ्गुलिपर्वत्वक्स्कंधपरमाणुरूपरसक्षणिकत्वाद्यन्यत्वेऽपि [यथा] देवदत्त एवैकस्तथाऽ[य]मर्थो गृह्यते, चक्षुरादिव्यपदेशविशिष्टरूपाद्यात्मकघटवत्, सम्बन्ध्यन्तरापेक्षविशिष्टपितृत्वादिव्यपदेशात्मकदेवदत्तवच्च स एवैकः, अन्यथा-तदेकत्वाभावे तद्भेदाभावात् भेदास्त एवान्य इति वक्तुम10 शक्यः, देवदत्तात्मकत्वात् घटाद्यात्मकत्वाच्च, तत्प्रतिपादनोपायप्रदर्शनो ग्रन्थो यावत् रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति भावनोदाहरणं भावितार्थमेवमन्यत्रापि घटादौ भावयितव्यमिति ।
अत्राह
अभावस्तर्हि, अग्यनग्नित्वव्यावृत्तेः, खपुष्पवत् , यथा खपुष्पं नाग्नि नग्निः, तदेकत्वानेकत्वव्यावृत्तेरसच्च, तथाऽग्नीन्धने स्यातामिति, ननु भिन्नव्यवस्थानलक्षणत्वान्नास्तीत्यप्यव15 चनीयमेव, यदि दाह्यदाहकत्वलक्षणनियमो न व्यवस्थितः ततोऽग्निरपि दह्येत काष्ठवत् , पच्येत, ओदनवत् , भुज्येत चौदनवदेव, तथेन्धनमपि पृथगेव दहेत् पचेन्चाग्निवदित्यनुभयताऽप्यवक्तव्यैव । अभावस्तीत्यादि, ते अग्नीन्धने न स्तः तर्हि, कस्मात् ? अन्यनग्नित्वव्यावृत्तेः व्यावृत्ताम्य
mmmmmmmmmmmmmmmmwaommmmmmmmm निरुपितनानात्वं वा भवत्विति भावः । त्वन्मतानुवृत्त्याऽग्निकाष्ठयोरन्यत्वं पर्यायार्थिकदिशाऽभ्युपगम्यापि दोषमादर्शयति-अथा20 पीति, यदन्यदित्यभिमतं तदन्यदेवेति न वक्तव्यम् , अन्यत्वात् , यत्र यत्रान्यत्वं तत्र तत्रान्यदिति न वक्तव्यमेव दृष्टम् , यथा हस्तपादाद्यवयवादन्य इत्यभिमतोऽपि देवदत्तः खयमनन्यत्वादन्य एवेति न वक्तव्य एवमग्निकाष्ठावपीति भावः। एवं हस्तोऽप्यन्य एवेति न वक्तव्यः, अन्यत्वात् , पर्वाद्यन्यानन्याङ्गुलिवत् , अङ्गुलिरप्यन्य इति न वक्तव्यः, अन्यत्वात् , त्वगाद्यन्यानन्यपर्ववत्, पर्वाप्यन्य इति न वक्तव्यम्, परमाण्वन्यानन्यत्वक्स्कन्धवत् , त्वक्स्कन्धोऽप्यन्य इति न वक्तव्यः रूपाद्यन्यानन्यपरमाणुवदिति अन्य इत्यवक्त
व्यत्वसिद्धिर्बोध्या । अन्य एवेत्यवक्तव्यत्वे निदर्शनान्तरमाह-चक्षुरादिव्यपदेशेति, यथैक एव घटः चक्षुर्विषयतामासाद्य रूप25 मिति व्यपदिश्यते रसनाविषयतामाप्य रस इति घ्राणविषयतामुपेत्य गन्ध इति त्वग्विषयतामुपेत्य स्पर्श इति, एकोऽपि च चक्षुरादिव्यपदेशविषयतापेक्षयाऽन्यः, अतोऽन्य एवेत्यवक्तव्यस्तद्वदित्यर्थः । अपरं निदर्शनमाह-सम्बन्ध्यन्तरेति, यथैक एव पुरुषः पुत्रा. पेक्षया पितेति भ्रात्रन्तरापेक्षया भ्रातेति दौहित्रापेक्षया मातुल इत्येवमेकोऽपि तत्तत्सम्बन्ध्यपेक्षया नानाव्यपदेशभाग्भवति तद्वदिति भावः । विपक्षे घटदेवदत्तादेरेकत्वाभावे तस्य भेदाभावात्ते भेदा अन्ये इति वक्तुमशक्याः , देवदत्तस्वरूपादनन्यत्वात् , घटादेरूपादेरनन्यत्वाच्चस्याह-तदेकत्वाभाव इति । अन्यदित्यवक्तव्यत्वप्रतिपादनोपायः प्राक् प्रदर्शित एवेति तद्न्थो भाविता) 30 इत्याह-तत्प्रतिपादनोपायेति, अवक्तव्यत्वप्रतिपादनोपायेत्यर्थः । एवन्तर्हि तस्याग्नित्वमनग्नित्वमपि नास्ति ततश्चानुभयत्वं स्यादित्याह-अभावस्तीति । हेतुमाह- अग्न्यनग्नित्वव्यावृत्तेरिति, एकत्वेऽनग्नित्वव्यावृत्तिः, अन्यत्वेऽमित्वव्यावृत्तिरिन्धनस्य स्यादिति भावः । हेतुं समीकरोति-व्यावृत्तेति, इन्धनाम्योरेकत्वे इन्धनममिरेव स्यात् , दहनैकत्वादितीन्धनत्वव्यावृत्ताग्नित्व
१सि.क्ष. छा.डे. सहासेत्यादि । २ सि.क्ष. छाडे. °वत्येतनु तत्तु० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org