________________
काष्ठादेरनग्नित्वव्युदासः ]
किञ्चान्यत्
यदि काष्ठं कथमनग्निः काशनाद्दीपनादङ्गनात्, काष्ठमनग्नि तदिति स्ववचनविरोधः, इन्धनमनग्निरित्यपि, काट दीप्ताविति कर्तृवाचिनि थन्प्रत्यये काष्ठमिति रूपसिद्धेर शेष विरोधः, किं दारुण्यपि शक्यमित्थं भावयितुम् ? को हि नाम शक्यं न शक्नुयाद्वक्तुम्, दह भस्मीकरण इत्येकार्थत्वात् तथापि दानरक्षणार्थदारुशब्दस्याविवक्षितत्वाददोषो गगनाविवक्षावत् ।
wwww
( यदीति ) यदि काष्ठं कथम [न]भिः ? काशनात् काष्ठमग्नित्वमेव, काशनाद्दीपनादङ्गनान्नान्यथा, तस्मात् काष्ठमनग्नि तदिति स्ववचनविरोधः, तथेन्धनम् [न] ग्निरित्यपि स्ववचनविरोधः यस्मात् काष्ठं नियमादग्निः, अग्निरपि नियमात् काष्ठम्, एवमिन्धनमग्निश्चेति ततः स्ववचनविरोधः, तद्भावनार्थं तदर्थ - संवादिनीं स्मृतिं ज्ञापकमाह- काट दीप्तौ काशतेरौणादिके कर्तृवाचिनि थन्प्रत्यये काष्ठमिति रूपसिद्धेरित्यस्माद्धेतोरशेषविरोधः - तथादृष्टत्वात् प्रत्यक्षविरोधः, लोकेन रूढत्वाद्रूढिविरोधः, एवमनुमितत्वादनुमान - 10 विरोधः, तथाऽभ्युपगमादभ्युपगमविरोध इति, किं दारुण्यपि शक्यमित्थं भावयितुम् ? दाणू दाने, देख् रक्षणे, दोऽवखण्डने दैप् शोधने इत्येतेषां चतुर्णामन्यतमस्य रुप्रत्ययान्तस्य दार्श्विति रूपसिद्धेः, को हि नाम शक्यं न शक्नुयाद्वक्तुम्, शोधनावखण्डनार्थस्तावत् सिद्धमेव, दह भस्मीकरणे एकार्थत्वात्, तथापि दानरक्षणार्थयोरसम्भवात्तदर्थदारुत्वमुदाहरणं तन्नोदाहरणत्वेन विवक्ष्यते, कस्मात् ? अनिन्धनत्वादाकाशदीत्यर्थासम्भवाद्दारुशब्दस्याविवक्षितत्वाददोषोऽत्र गगनाविवक्षावत् ।
वत्,
www.www.
द्वादशारनयचक्रम्
Jain Education International 2010_04
१०१९
किञ्चान्यत्
सहासहभवनद्वयमपि द्विष्ठमतो यद्येकमथ नाना सर्वथाऽप्येकमन्यदिति वा न शक्यते वक्तुम्, अथापि कथञ्चिदभ्युपगम्यापि काष्ठानयोरन्यत्वं त्वन्मत्या यदन्यत् तदन्यदेवेति न वक्तव्यमन्यत्वात्, हस्ताद्यन्यानन्यदेवदत्तवत्, चक्षुरादिव्यपदेश विशिष्टरूपाद्यात्मकघटवत्,
For Private & Personal Use Only
5
तथा च काशनं दीपनमङ्गनमिति पर्याया इति काष्ठस्यामित्वसिद्धौ काष्टमननीति वचनं परस्परविरुद्धम्, तस्य काष्ठमिति वदन् 20 पुनरनधीत्युच्यत इति स्ववचनविरोध इत्याह- काशनादिति । एवमिन्धनमननीति वचनमपि तस्य दारुणो दीघ्यर्थकधातु निष्पन्नेन्धनशब्दवाच्यत्वं वदन्नग्नित्वाभिधानं स्ववचनविरुद्धमेवेत्याह- तथेन्धनमिति । स्ववचनविरोधमेवाह - यस्मात् काष्ठमिति अग्निकाष्ठेन्धनां दीप्यर्थत्वाव्यभिचारादेकार्थत्वं तत्र काष्ठेन्धनत्वं वदन् अग्नित्वनिषेधं ब्रूयात्तर्हि स्ववचनेन विरोधः स्यादिति भावः । तत्र पर्यायत्वे संवादिस्मृतिं ज्ञापयति- काशु दीप्ताविति, काट दीप्ताविति काधातोरौणादिके 'हनिकुषिनीरमिकाशिभ्यः' क्थन् इति थन् प्रत्ययेन काष्ठमिति रूपं सिद्ध्यति, एवञ्च काष्ठमनग्नीत्युक्तौ प्रत्यक्षादि सर्वे विरोधा भवन्तीति भावः । विरोधानेवाह - 25 तथा दृष्टत्वादिति दीप्यमानकाष्टस्येन्धनाग्नित्वेन दृष्टत्वात् प्रत्यक्षविरोध इत्यर्थः । काष्टं दार्विन्धनं त्वेध इति लोके रूढत्वाल्लोकविरोध इत्याह- लोकेनेति । अनुमानाभ्युपगमविरोधौ दर्शयति- एवमिति, काष्ठमिन्धनमितीत्यर्थः । एवं दारुशब्दार्थोऽप्यग्निरिति दर्शयति- किं दारुण्यपीति दानरक्षणावखण्डनशोधनार्थेषु वृत्तिभिः दाण देड् दो दैप् धातुभिः रुप्रत्ययान्तैर्दारुशब्दस्य सिद्धिरित्याह- दाणू दान इति । तत्र दह भस्मीकरण इत्यनेन समानार्थत्वात् शोधनार्थावखण्डनार्थधातुनिष्पन्नदारुशब्दः काष्ठेन्धनादिशब्दवदुदाहरणं भवति, दानरक्षणार्थकधातु निष्पन्नदारुशब्दस्त्वा काशादिवदनुदाहरणम्, दीघ्यर्थासम्भवेनेन्धनत्वाभावादित्याह -- 30 शोधनेति । सह भावोऽसहभावश्च द्वयोर्भवति, यदि काष्टाम्योरेकत्वमेकान्तेन यदि वा काष्ठेन सहामेर्नानात्वं सर्वथा सहासहभावो न घटते, पुरुषायेककारणमात्राद्वैतवादिनामिव, अदीप्यमानाकाशस्येन्धनत्वाप्राप्तिरिव, एवञ्च तयोरेकत्वमन्यत्वं वा वक्तुं न शक्यत इति न काष्ठेन सहाग्निरन्य इत्याह- सहासहभवनेति । व्याख्याति - सहभवनमिति, अग्नेः काष्ठनिरूपितैकत्वं काष्ठ
15
www.jainelibrary.org