________________
१०१८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे ऽमेर्यथाऽन्यो न भवति तथेन्धनमपि तद्वृत्तित्वात्-तस्य वृत्तिः, तद्वृत्तिः, सैव वा वृत्तिस्तद्वृत्तिः तद्वृत्तिरेव वृत्तिरस्य तद्वत्तिः-अग्निदीप्तिरेवेन्धनत्ववृत्तिदीप्तिरूपवृत्तित्वादग्निरेवेन्धनमन्यात्मवत् , अदह्यमानं हीन्धनमेव न भवति, कारकाणामेव कारकत्वादित्यादिव्याख्यातत्वात् , एवं तावदिन्धनोदाहरणेऽम्यन्यत्वव्याघात
उक्तः । 5 काष्ठोदाहरणेऽपि तद्यथा
काष्ठशब्दव्यवहारेऽप्यग्निकाष्ठयोरन्यत्वं व्याहन्यते, यदाऽयमग्निः ततोऽन्यो नास्ति सेन्धनात् , ननु यदैव काष्ठमनग्नि दृष्टं तदा तेन विना दृष्टत्वादन्यत्वसिद्धिरिति, अत्र ब्रूमःअथाभेदवृत्तिरन्यत्वे न प्रामोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत् , कस्मान्न काष्ठमग्निः
दीप्यमानावस्थायामिवाव्यक्ताग्नित्वावस्थायाम् ? अग्निः काष्ठमेव, काष्ठमग्निरेव वा स्यात्, 10 प्राग्वत् पश्चाद्वाऽनन्यत्वात् ।।
काष्ठशब्देत्यादि, काष्ठशब्दव्यवहारेऽप्यग्निकाष्ठयोरन्यत्वं व्याहन्यते, तद्यथा यदाऽयमित्यादि काष्ठेन्धनोऽग्निस्ततोऽन्यो नास्ति सेन्धनात् , वैद्युतोऽप्युदकेन्धनपृथग्भूतो नास्ति, अत्राऽऽशङ्का-ननु यदैव काष्ठमनग्नि दृष्टं तदा तेन विना दृष्टत्वादन्यत्वसिद्धिरिति, अत्र वयं ब्रूमः-अथाभेदवृत्तिः-दृष्टा हीयमभेदवृत्तिः,
दीप्यमानं काष्ठमिन्धनमिति सा चाभेदवृत्तिरन्यत्वे न प्राप्नोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत्, 15 कस्मादित्यादि परस्पररूपापादनेनानिष्टापादनं यथासंख्यं प्राग्वत् पश्चाद्वद्वाऽनन्यत्वादिति गतार्थ साधन
द्वयम् । खात्मा यथाऽने न्यस्तथेन्धनमप्यग्नेर्नान्यत् तद्वृत्तित्वात् , अग्नौ वर्तनादित्यर्थः । तद्वृत्तित्वमेव व्याचष्टे-तस्य वृत्तिरिति, अग्नेरेवेन्धनं वृत्तिः स्वरूपविशेषः, अग्निदीप्तिरेव इन्धनम् , अग्निदीप्तिरेव वेन्धनस्य दीप्तिरित्यर्थः, सैव वृत्तिरित्यस्यार्थोऽग्निदीप्तिरेवेन्ध
नत्वपदेनोक्तः, तद्वृतिरेव वृतिरस्येत्यस्यार्थोऽग्निवृत्तिदीप्तिरूपवृत्तित्वादित्यनेनोक्तः, तस्मादग्निस्वात्मवदग्निरेवेन्धनमित्यर्थः । इध्य20 मानं हीन्धनं भवति, अनिध्यमानन्तु नेन्धनं भवति, कर्तृकर्मादिक्रियाऽऽविष्टास्यैव कारकत्वात् , न हि यन्न करोति तत्कारकम् ,
गगनकुसुमादीनामपि कारकत्वापत्तेः, नापि कदाचित्करोतीति कारकम् , कर्तकर्मादिकारकाणां सङ्करापत्तेः, यदा कदाचित्कर्तुरपि कर्मादित्वादिल्याशयेनाह-अदह्यमानमिति, वर्तमानकालावच्छेदेन दहनक्रियाननुगतमित्यर्थः । एवञ्चेन्धनस्याग्नेरन्यत्वे दोष इन्धनाश्रयेणोक्त इत्याह-एवं तावदिति । काष्ठशब्दाश्रयेणाह-काष्ठशब्देति । काष्ठमाहरेत्यादिव्यवहारोऽपि काष्ठाम्योरन्यत्वे
व्याहतो भवति, उपचारस्य मुख्यमूलत्वात् , अग्निपरिणतिकाले सिद्धं यथार्थ दार्वेव मुख्यं काष्ठमपेक्ष्य ह्यग्यपरिणतस्य दारुणः 25 काष्ठेन्धनत्वव्यवहारः, तत्राग्निकाष्ठेन्धनयोरन्यत्वे तु स उपचारो नैव स्यात्, यदा तु काष्ठेन्धनोऽग्निरेव, काष्ठेन्धनादन्योऽग्निर्नास्ति,
अरूपत्वा द्युतोऽप्यग्निरबिन्धनत्वात् सेन्धन एव, ततोऽयं व्यवहारो न विरुद्ध्यत इत्याह-काष्ठशब्दव्यवहारेऽपीति । अनन्यत्वमेवाह-तद्यथेति । नन्वनुपजाताग्निकं काष्ठं दृष्टमिति विनाप्यग्निना काष्ठस्य दर्शनादग्निकाष्ठयोरन्यत्वमित्याशङ्कते-ननु यदैव काष्ठमिति । यदि तयोरन्यत्वमेव तर्हि कथमभेदवृत्तिः स्यात् , दृष्टा ह्यभेदवृत्तिः, दीप्यमानावस्थायां काष्ठमिन्धनमिति,
न हीदमभेदवृत्तिस्तयोरन्यत्वे घटते, न ह्यदीप्यमानमाकाशमिन्धनं भवितुमर्हति, तस्मात्तयोरनन्यत्वमभ्युपेयं तदैवाभेदवृत्तिः 30 स्यादित्याशयेनाह-अथाभेदवृत्तिरिति । काष्ठान्योरन्यत्वेऽथ कस्मान्नाग्निः काष्ठम् , दीप्यमानावस्थायामव्यक्ता नित्वावस्थायामिवेति परस्पररूपापादनाय शङ्कते-कस्मादित्यादीति, अव्यक्तावस्थायां यदि काष्ठमग्निर्न चेत् तर्हि दीप्यवस्थायामपि काष्ठमग्निर्न स्यात्, काष्ठान्योरन्यत्वादिति भावः । यदि तदानीं प्राग्वदग्निः काष्ठेन्धन एव तर्हि पश्चाद्वत् काष्ठमग्निरेव स्यादनन्यत्वादनिष्ठञ्चैतदित्याह-प्राग्वदिति । काष्ठमनग्निरिति विरुद्धं वचनमित्याह-यदि काष्ठमिति । काश दीप्ताविति धातोः काशनात् काष्ठं भवति,
१ सि.क्ष. छा. डे. 'नग्नित्वं । २ सि. क्ष. छा. डे. °दनात्व०। ३ सि. क्ष. छा. डे. द्वद्वादन्यः ।
mmmmm
wwwwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org