________________
अग्नेर्दीप्तिस्वभावत्वोक्तिः] द्वादशारनयचक्रम् तद्विषयेऽम्यपरिणतेऽपि दारुणीन्धनत्वमुपचाराद्भवति, तदन्यत्वे-अग्नीन्धनान्यत्वे स उपचारो नैव स्यात् , मुख्येन्धनाभावात् खरविषाणतीक्ष्णकुण्टादिसाधाभावे तदुपचाराभाववत् , अत एव वित्यादि, अग्निपरिणतदारुमुख्येन्धनत्वादेव तदपरिणतावपीन्धनत्वस्य सिद्ध्यत्युपचारः, कस्मात् ? गौणस्य मुख्यमूलत्वात् सिद्धे हि मुख्ये सिंहे शौर्यादितत्साधर्म्यात् माणवकः सिंह उच्यते नासति मुख्ये सिंहे, चित्रकरादिवद्वा चित्रलेखनादिक्रियापरिणत्यवस्थालब्धचित्रकरत्वव्यपदेशो नासति तत्क्रियापरिणामे ।
तस्याग्नित्वपरिणतावेवेन्धनत्वसंवादिनीं स्मृति ज्ञापिकामाह
जि इन्धी दीप्ताविति ननु स्मरन्त्यभियुक्ता वैयाकरणा दीपन इत्यग्निमिन्धः, पूर्वोक्ताच्च तद्वत्तित्वात्स्वात्मवन्नान्यत्वम् , अदह्यमानं हीन्धनमेव न भवति, कारकाणामेव कारकत्वादित्यादिव्याख्यातत्वात् ।
(जीति) नि इन्धी दीप्ताविति ननु स्मरन्त्यभियुक्ता वैयाकरणाः शब्दार्थसम्बन्धज्ञाः दीपन 10 इत्यग्नि-दीप्तिस्वभावः, अग्निरेवेन्धनं दीप्त्यर्थत्वादिन्धः, किश्चान्यत्-पूर्वोक्ताच्च तद्वृत्तित्वात्स्वात्मवन्नान्यत्वम् यथा प्रागेकत्वे यद्यग्निरिन्धनेन सहकः स्यात्ततो दग्धेन्धनवदेकस्याप्रवृत्तेरभावतैव स्यादित्यादिग्रन्थोक्तेन न्यायेनैकत्वं निषिद्धम् , यावत् सहभावस्य द्विष्ठत्वादिति तथाऽन्यत्वे दग्धेन्धनवदन्यस्याप्रवृत्तेरभावतैव स्यादित्यादितुल्यार्थागमविशेषेण ग्रन्थो योज्यः, अन्यत्वेऽप्यभावापत्तिसाम्यात् स्वात्मवन्नान्यत्वमिति, अग्निस्वात्मा
mww
w
wwww
काष्ठमाहरतीत्यादिरग्नित्वेनापरिणते दारुणीन्धनत्वकाष्ठत्वादिव्यवहार औपचारिकः, स च मुख्यापेक्षः, मुख्येन्धनादि चाग्नित्व-15 लक्षणपरिणामविशिष्टं दादि, एतदपेक्षयाऽग्निपरिणामरहिते दादाविन्धनत्वकाष्ठत्वादिव्यवहार औपचारिक उपपद्यत इति भावः। इन्धनेऽग्निनिरूपितत्वेऽभ्युपगम्यमाने तु नैष उपचार उपपद्यते, मुख्यस्येन्धनस्याभावात् , यथा खरविषाणादौ तीक्ष्णत्वकुण्टत्वादेर्नो. पचारः साधाभावादित्याह-तदन्यत्व इति । इदमेव पुनः स्पष्टीकरोति-अग्निपरिणतेति, तदपरिणतावपि-अग्न्यपरिणतदारुण्यपीन्धनत्वस्योपचारः सिद्ध्यतीत्यर्थः । हेतुमाह-गौणस्येति, उपचारो हि सादृश्यनिबन्धनः, सादृश्यश्च प्रसिद्धाप्रसिद्धधर्मिगतो गुणविशेषः, यथा माणवकः शौर्यादिना सिंह इत्युपर्यते, शौर्य सादृश्यं प्रसिद्धसिंहगतमप्रसिद्धमाणवकधर्मिगतञ्च, सिंहे शौर्य पूर्णमतः प्रसिद्धो धमी मुख्य उच्यते, माणवके केनचिदंशेन न्यूनमतोऽप्रसिद्धधर्मिवृत्ति, तथाविधं च शौर्यरूपं गुणमादायाति-25 शयविशेषप्रदर्शनाय माणवकस्य सिंहत्वेनोपर्यंते, तस्मादुपचारस्य सादृश्यमूलत्वात् सादृश्यस्य प्रसिद्धाप्रसिद्धधर्मिगतत्वात् प्रसिद्धधर्मिगतत्वाभावे कथं तत्सादृश्यं भवेत् , कथं वा तेन चोपचारः? तस्माद्गौणस्य मुख्यमूलत्वमिति भावः । निदर्शनान्तरमाहचित्रकरादिवद्वेति, अयं चित्रकर इति सम्प्रत्यलिखल्यपि पुरुषे व्यवहारः चित्रलेखनादिक्रियायां पूर्व परिणतः स आसीत् , तत्परिणत्यवस्थायां स चित्रकरत्वव्यपदेशमापन्नोऽत एवेदानीमपि स चित्रकर उच्यते, न तु कदाचिदपि चित्रकरत्वपरिणतिविधुरस्तद्वदिति भावः । अग्नित्वपरिणतस्यैव दारुण इन्धनत्वं स्मृल्या ज्ञायत इत्याह-नि इन्धी दीप्तावितीति । शब्दार्थसम्बन्धविदो वैयाकरणा 30 जि इन्धी दीप्ताविति स्मरन्ति दीपन इत्यनेनाग्निम् , तेनाग्नेर्दीपनस्वभावता गम्यते, इन्धनस्य दीप्त्यर्थत्वाच्च दीपनस्वभावोऽग्निरेवेन्धनमिति सिद्ध्यतीत्याह-त्रि इन्धीति । पूर्वोदितैकत्वपक्षदोषमन्यत्वपक्षेऽप्यापाद्याग्निरेवेन्धनमित्यादर्शयति-पूर्वोक्ताश्चेति । पूर्वग्रन्थं स्मारयति-यथा प्रागिति । तं दोषमन्यत्वपक्षे दर्शयति-तथाऽन्यत्व इति । तदेवमिन्धनस्यान्यत्वे दग्धेन्धनवत्प्रवृत्त्यसम्भवादभावताप्राप्तेर्नान्यत्वं खात्मवत् , तद्वृत्तेरित्युत्तरयति-अन्यत्वेऽपीति । दृष्टान्तं घटयति-अग्निस्वात्मेति, अग्नि
१ सी. क्ष. छा. डे. भावात् । २ सि. क्ष. छा. डे. इन्धनत्वं सि०। ३ सि. क्ष. छा. डे. निषिद्धावत्सहासहत्वदिष्टत्वादिति ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org