________________
१०१६ न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे यदि स्यादनिन्धनोऽग्निर्निरवशेषदग्धेन्धनोऽपि भवेदग्नित्वाज्वालावत् , अथोच्येत तावन्नाहं ब्रवीम्यग्नेरिन्धनेन सहान्यत्वम् , किन्त्विन्धनस्याग्निना सहान्यत्वम् , यद्यप्यग्नेरिन्धनेन सहान्यत्वेऽनिन्धनत्वे सत्यरूपत्वादप्रवृत्तेरसत्त्वं सम्भाव्यते तथाप्यदोषत्वेऽस्ति न्यायः............
इन्धनान्यन्यत्वात् हुतवहवत् दृष्टत्वात् , दृष्टा हि लोके इन्धनमाहरति काष्ठमाहरतीति, । अत्रोच्यते तद्विषय एवैष उपचारोऽग्नित्वपरिणतिकालसिद्धयथार्थेन्धनत्वं मुख्यमपेक्ष्य, तदन्यत्वे
च स नैव स्यात् , मुख्येन्धनाभावात् , अत एव तु तदपरिणतावपीन्धनत्वस्योपचारः सिद्ध्यति, गौणस्य मुख्यमूलत्वात् सिंहमाणवकवत् , चित्रकरादिवद्वा।
(अथोच्यत इति) अथोच्यते यदेतज्ज्वाला देशे-अथाचक्षीथास्त्वं-इन्धनात् पृथगग्नेरस्ति रूपम् , तद्यथा ज्वाला गगनदेशे, तस्मान्मयाऽऽख्यातं ते पृथगिन्धनादग्निरूपम् , तस्मादरूपत्वासिद्धेर्नासत्त्वमित्यत्र 10 ब्रूमः-तद्वा कुतोऽनिन्धनम् ? यत्र ज्वालारूपमग्नेर्गगनदेशे तदपीन्धनसहितमेव, अग्नित्वपरिणतत्वेन पुद्गला
नामाकाशदेशेऽवस्थानाज्वालाधृतेः, न ज्वालाऽनिन्धना, अग्नित्वादङ्गाराद्यग्निवत् , वैद्युतस्याप्युदकेन्धनत्वानानैकान्तिकत्वमतोऽग्निरिन्धनात् पृथग्भूतो नास्ति, यावच्चेन्धनं तावदेवाग्निनिष्ठितत्वं नो विध्यात इत्युच्यते, तस्मान्नेन्धनात् पृथगग्निवक्तुं शक्यः, एवमनिच्छतो दोष उच्यते, यदि स्यादनिन्धनोऽग्निः सततमेव निरैव
शेषदग्धेन्धनोऽपि-मुर्मुराद्यवस्थोत्तरकालमपि भवेदग्नित्वात् , ज्वालावदनिष्टश्चैतत् , एवं तावत् पूर्वोक्तैकत्व15 वदिन्धनेन सहाग्नेरन्यत्वं न वक्तव्यम् , अथोच्येतेत्यादि विकल्पान्तरं पूर्ववदिन्धनस्यान्यत्वं हुतवहवत् दृष्टत्वात्
लोके हि दृष्टमिन्धनमाहरेति काष्ठमाहरेति, न हि दृष्टाद्गरिष्ठं प्रमाणमस्ति, प्रन्थश्च यद्यप्यनेरित्यादि यावेदाहरसीति गतार्थः पूर्वपक्षः, अत्रोत्तरं तद्विषय एवैष उपचारः, अग्नित्वपरिणतिकालसिद्धयथार्थेन्धनत्वं मुख्यमपेक्ष्य
रूपत्वमसिद्धम् , आकाशदेशे परिदृश्यमानाया इन्धनस्वरूपादन्यस्या ज्वालाया अग्निखरूपत्वात् , न हि ज्वाला सेन्धनेत्याशयेन व्याचष्टे-अथाचक्षीथास्त्वमिति । अनिन्धनमग्निरेव न भवति, यद्यग्निरवश्यं तेन सेन्धनेन भाव्यमित्याशयेनासिद्धतां व्युद20 स्यति-तद्वा कुतोऽनिन्धनमिति, आकाशदेशेऽग्ने रूपं ज्वालेति यदुच्यते सापि ज्वाला सेन्धनैव, नानिन्धना, ज्वाला हि
आकाशदेशेऽग्नित्वेन परिणताः पुद्गला एवेति भावः । तत्र साधनप्रयोगमाह-न ज्वालाऽनिन्धनेति, यो योऽग्निः स सेन्धन एव, अङ्गाराद्यग्निवत् , ज्वालाऽपि तादृशीति भावः । न च विद्युदादेरग्नित्वेऽपि न सेन्धनत्वमिति व्यभिचारः, तस्याबिन्धनत्वादित्याह-वैद्युतस्यापीति। तस्मादिन्धनपृथग्भूतस्याग्नेरसत्त्वमेव, यावदिन्धनं तावदानसत्ताऽस्त्येव, अत एवायमग्मिने विध्यात
शान्त इत्युच्यत इत्याह-यावच्चेन्धनमिति । अग्नित्वमस्तु सेन्धनत्वं मास्त्विति व्यभिचारशङ्कानिवर्तकं तर्कमाह-यदि स्याद26 निन्धन इति, अनिन्धनान्यभ्युपगमे इन्धने निरवशेषं दग्धे सति मुर्मुराद्यवस्थोत्तरकालमपि सर्वदाऽग्निर्भवेत् , तव मतेऽनिन्धन
स्यापि तस्याग्नित्वात् ज्वालावत्, न चैवं सततं वर्ततेऽग्निस्तस्मान्नानिन्धनोऽग्निरिति, अग्नेरन्यत्वे पृथपाभावात्, पूर्वोक्तैकत्वावाच्यत्ववदिन्धननिरूपितान्यत्वेऽप्यनेर्न वक्तव्यमेवेति भावः । अथाग्निनिरूपितान्यत्वमिन्धनस्येति शङ्कते-अथोच्येतेत्यादीति पूर्ववत्-इन्धनस्याग्निनिरूपितैकत्वविषयग्रन्थवदित्यर्थः, यद्यप्यग्नेरिन्धननिरूपितान्यत्वकृतादग्नीन्धनयोरन्यत्वादप्रवृत्तिः, अननेरिन्धनस्याप्रवृत्तेश्चासत्त्वं दोषः सम्भाव्यते, एवं दोषसम्भावनायामपि न्यायोऽस्त्यदोषत्वे, इन्धनान्यन्यत्वात्-इन्धनस्याग्निना 30 सहान्यत्वान्न भविष्यति दोष इति भावः । हेतुमाह-हुतवहवद दृष्टत्वादिति, लोके हि अग्निकाम इन्धनमाहरति काष्ठमाहरतीत्यनग्नीन्धनमिन्धनत्वेन व्यवहरति, न हि प्रत्यक्षादस्मात् किञ्चित् प्रबलं प्रमाणमस्तीति भावः। पूर्वोदितग्रन्थमेव स्मारयतिग्रन्थश्चेति, एवं सहभावस्य द्विष्ठत्वादप्यग्नीन्धनयोरन्यत्वं बोध्यम् । अत्रोत्तरमाह-तद्विषय एवैष इति, इन्ध
१ सि.क्ष. छा. डे. निरवशेषादग्निस्वतोपि। २ सि. क्ष. छा. डे. °यावदाहेतीति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org