________________
अग्नेरसत्त्वापादनम् ]
१०१५
सामान्यविशेषैकत्वनानात्वाभ्यां त्वत्प्रदर्शितपृथिवीघटपटादिनिर्देशवदत्रापि स्यादिति चेदुच्यते न मम किश्चित् सामान्यविशेषैकत्वनानात्वाभ्यां व्यवस्थितमस्ति, त्वन्मतानुवृत्त्या प्रतिपादनार्थ संवृत्त्या पृथिवीघटपटवदित्युदाह्रियते, मन्मतेन तु सामान्यविशेषैकत्वान्यत्वानवस्थिततत्त्वघटपटसंवृत्तितुल्यसंवृत्तिवन्नाग्नीन्धने निर्दिश्येते तस्मादनिरूप्योऽसन्नापद्येताऽग्निः, अनिन्धनत्वे सत्यरूपत्वात् खपुष्पवत्, घटपटादिष्वप्येतत्साधनं योज्यमिति ।
( सामान्येति ) स्यान्मतं कथं त्वयाऽधुना घटात् पटोsन्य इति विशेषेण नानात्वेन पृथिवी घट इति च सामान्यकृतैक्येन निर्दिष्टं रूपम् ? तथाऽनीन्धनयोरपि शक्यत एव वक्ष्यमाणं दाह्यदाहकत्वादीत्यत्रोच्यते, न मम किञ्चिदअवक्तव्यवादिनः सामान्यविशेषैकत्वनानात्वाभ्यां व्यवस्थितमस्ति वस्तु किञ्चित् किं तर्हि ? त्वन्मतानुवृत्त्या प्रतिपादनार्थं संवृत्त्या सामान्यविशेषैकत्व [नानात्वभ्यां पृथिवीघटपटवदित्युदाह्रियते न मन्मतेन, मन्मतेन तु तावनवस्थिततत्त्वावेवेति तत्प्रदर्शयन्नुदाहरति-सामान्यविशेषेत्यादि सामान्यविशेष - 10 योरेकत्वान्यत्वाभ्यामनवस्थितं तत्त्वं ययोस्ताविमौ घटपटौ- सामान्यविशेषैकत्वनानात्वानवस्थिततत्त्वघटपटौ तयोः संवृत्तिः-उपचारः,[तां] अभ्युपेत्य परकल्पनेनोदाहरणम्, तया तुल्यसंवृत्तिवत् । यथा संवृत्त्या घटपटाविष्टावप्यसाधारणरूपौ निर्दिश्येते न तथाऽग्नीन्धने इत्यर्थः, तस्मादनिरूप्योऽनिरूप्यस्त्व सन्नापद्येताग्निः, कस्मात् ? अनिन्धनत्वे सत्यरूपत्वात् खपुष्पवत्, उपादानस्वरूपात् पृथगनिरूपितात्मरूपत्वादित्यर्थः, घटपटादिष्वप्येतत्साधनं - अमृत्त्वे सत्यरूपत्वात् घटोऽसन् खपुष्पवत् अतन्तुत्वे सत्यरूपत्वात् पटोऽसन् 15 खपुष्पवदित्यादियोज्यमिति ।
www.w
अथोच्यते यदेतत् ज्वाला देशेऽग्ने रूपमिति, तद्वा कुतोऽनिन्धनम् ? अग्नित्वपरिणतत्वेन पुद्गलानामाकाशदेशेऽवस्थानाज्वालाधृतेः, वैद्युतस्याप्युदकेन्धनत्वान्नानैकान्तिकत्वम्, मधुना पूर्वञ्च निर्दिष्टं तथाऽमीन्धनयोरपि दाह्यदाहकत्वादिपृथग्रूपमस्तीत्याशङ्क्यते - सामान्यविशेषेति । भावं प्रकाशयतिस्यान्मतमिति । अहमवक्तव्यवादी, अस्मन्मते न किमपि वस्तु केनचिद्रूपेण सामान्येन विशेषेण वाऽन्येन वा केनचित्प्रकारेणै - 20 कमिति वा नानेति वा व्यवस्थितमस्ति, केवलं त्वन्मतमनुवर्त्तमानेन संवृत्त्या कल्पनारूपया सामान्यविशेषैकत्व नानात्वाभ्यां पृथिवीघटपटादि निर्दिष्टम्, न त्वस्मदभ्युपगमोऽयमिति समाधत्ते-न मम किञ्चिदिति । तर्हि तव किं मतमित्यत्राह - मन्मतेन त्विति, घटपटौ मन्मतेनानवस्थिततत्त्वावेवेति । एतदेव निरूपयति-सामान्यविशेषयोरिति, सामान्यनिरूपितैकत्वविशेषनिरूपितनानात्वाभ्यां ययोर्घटपटयोः खरूपमनवस्थितं तयोरुपचारमभ्युपेत्य परकल्पनानुसारेणोदा हियते, तथाविधघटपटसंवृत्त्या न समानाऽमीन्धनयोः संवृत्तिरित्यर्थः । असमानतामेवाह-यथा संवृत्त्येति, घटपटौ संवृत्त्या स्वीकृतावपि 25 तयोरसाधारणस्वरूपौ निर्द्देष्टुं शक्यौ, अभीन्धनयोस्तु न निर्देष्टुं शक्यौ, अतोऽनीन्धनसंवृत्तिर्न तत्तुल्येति भावः । तस्मादनवस्थितत्त्वत्वेनाग्नेर्निरूपयितुमशक्यत्वादसत्त्वमापद्यत इत्याह- तस्मादिति । असत्त्वे हेतुमाह-अनिन्धनत्वे सतीति, नास्तीन्धनमुपादानतया यस्यासावनिन्धनस्तस्य भावस्तस्मिन् अग्नेरिन्धनान्यत्वेनानुपादानता, अन्यस्योपादानत्वासम्भवात् तथा च स्वरूपाभावादनिरूपितात्मरूपोऽग्निः सञ्जातः, अत उपादानस्वरूपात् पृथगनिरूपितात्मरूपत्वात् खपुष्पवदसन्नग्निरिति भावः । अमुमेवोपादानस्वरूपात् पृथगनिरूपिताश्मरूपत्व हेतुमन्यत्रापि घटपटादावतिदिशति-घटपटादिष्वपीति । योजनां दर्शयतिअमृत्त्वे सतीति, मृत्स्वरूपात् पृथगनिरूपितात्मरूपत्वात् खपुष्पवद्धटोऽसन्निति, तन्तुखरूपात् पृथगनिरूपतात्मरूपत्वात् खपुष्पवत् पटोऽसन्नित्येवं योज्यमिति भावः । हेत्वसिद्धिमाशङ्कते - अयोध्यत इति । नन्वमा विन्धनस्वरूपात् पृथगनिरूपितात्म१ छा. अमृतत्वेन सत्य० । सि. क्ष. छा. डे. 'सदाप० ।
30
द्वा० न० ३ (१२८)
Jain Education International 2010_04
द्वादशारनयचक्रम्
wwwwww
For Private & Personal Use Only
5
5
www.jainelibrary.org