________________
Mw
१०१४ न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमभङ्गारे वर्त्यत इति वीप्सार्थकर्मप्रवचनीयत्वात् प्रतेः, सोऽप्यनेकः परस्परासङ्कीर्णरूपः केनचित् कदाचिदसम्बध्यमानत्वात् , असमानोऽसाधारणः, असमानश्चानेकः, समानत्वे ह्येकत्वं स्यात् , तस्मादसम्बन्धादसमानत्वादनेकत्वेऽप्यवक्तव्य एव, सम्बद्धो ह्यर्थः सामान्येनोच्येत-अयं स इति, इत्थमयमिति वा, तत्तु नास्ति सामान्यमित्यवक्तव्यः, एवं तावदेकत्वेऽग्नीन्धनयोरवाच्यत्वमुक्तम् । । अथ मा भूवन्नेते दोषा इत्यग्नीन्धनयोरन्यत्वमभ्युपगम्यते चेत् तेन तमुग्नेरिन्धनात् पृथग्भूतं रूपमाख्येयम् , निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिद्ध्येत् , शक्यञ्च प्रतिपत्तुमयमस्मादन्य इति, यथाऽन्येषामन्येभ्यः, त्वया न शक्यतेऽग्नेरिन्धनात् पृथग्भूतं तत्त्वं दर्शयितुम् , न ह्यन्यदन्यसाधारणं रूपं भवति, तस्माच्छक्यते च ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम् , न
तथेन्धनात् पृथग्भूतमसाधारणमग्ने रूपं शक्यं वक्तुम् । 10 अथ मा भूवन्नित्यादि, एतत्पक्षत्यागेन पक्षान्तरपरिग्रहे कारणमाचक्षाणः पक्षान्तरं ग्राहयति,
अग्नीन्धनयोरन्यत्वपक्षो 'निर्दोष इति मन्यमानेनाभ्युपगम्यते चेत्त्वया 'सोऽपि निर्दोष इति मा मंस्थाः, तेन तीत्यादि, तेन-अग्नीन्धनयोरन्यत्वाऽभ्युपगमेन कारणेनेदमातितं स्यादग्नेरिन्धनात् पृथग्भूतं रूपमाख्येयम् , घटादेरियाकाशस्य सौषिर्यम् , निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिद्ध्येत् , शक्यञ्च प्रतिपत्तुमयमस्मादन्य इति, किमिव ? यथाऽन्येषामित्यादि, अन्येषां घटादीनामग्नीन्धनादिभ्यः, अन्येभ्यः पटादिभ्य15 श्चान्येषाम् , तत्तु त्वया[न] शक्यतेऽग्नेरिन्धनात् पृथग्भूतं तत्त्वं दर्शयितुम् , यस्मान्न हि अन्यदन्यसाधारणम् , हिशब्दो यस्मादर्थे, यस्माद्घटादि पटायन्यसाधारणरूपं न भवति तन्त्वादीनां तस्माच्छक्यते[च]ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम् , न तथेन्धनात् पृथग्भूतमसाधारणमग्ने रूपं घटस्येव जलाहरणादि पटादिविलक्षणं शक्यं वक्तुम् । सम्बध्यमानत्वात् , सम्बध्यमानतायां हि तत् साधारणमेव स्यात् साधारणञ्चैकमिति वक्तुं शक्यम्, यतश्चेदमसाधारणमत एवानेकम् ,
अनेकत्वाचकमिति न वक्तव्यमिति भावः । तदेवाह-असमानोऽसाधारण इति। कदाचित् केनचित् सम्बध्यमानस्य सामान्यत्व20 मेवेत्याह-सम्बद्धो ह्यर्थ इति। एवञ्चैकत्वेनावाच्यत्वमुपसंहरति-एवं तावदिति। प्रोक्तदोषपरिहारायानीन्धनयोरेकत्वपक्षं परित्यज्यान्यत्वपक्षोऽभ्युपगम्यत इत्याह-अथ मा भूवन्निति ।व्याचष्टे-एतत्पक्षत्यागेनेति, तयोरेकत्वपक्षत्यागेनेत्यर्थः । अग्नीन्धनयोरिति, तयोरन्यत्वपक्षं निर्दुष्टं मत्वा यद्यभ्युपैषि तर्हि तत्रापि दोषं ब्रूम इति भावः। दोषमेवाऽऽदर्शयति-तेन तीत्यादीति, यद्यमीन्धनयोरन्यत्वं तदाऽभ्युपेतुं शक्यं यदाऽग्नेरिन्धनात् पृथक् वरूपं निश्चितं भवेत् , यथा घटादेराकाशमन्यत्, तस्य च
खरूपं सुषिरतेति निश्चितम् , तथा अग्नेरन्यत्वे त्वया तत्स्वरूपं वाच्यमिति भावः। पृथग्भूतस्येन्धनात् स्वरूपस्य सति दर्शनेऽनेरिन्धना25 दन्यत्वं सिद्ध्यति, ततश्चाग्निरिन्धनादन्य इति प्रतिपत्तुं शक्यत इत्याह-निर्दिष्टे हीति । निदर्शनमाह-अन्येषामिति-घटादीनां
अग्नीन्धनादिभ्योऽन्येभ्यः, अन्येभ्यः पटादिभ्यश्चान्येषां अग्नीन्धनादीनामन्यत्वं प्रतिपत्तुं शक्यं पृथपस्य सिद्धत्वादिति भावः। अग्नेस्तु पृथग्रूपमिन्धनाद्दर्शयितुं न शक्यमित्याह-तत्तु त्वया न शक्यत इति । भिन्नानामेकं साधारणं स्वरूपं न भवितुमहतीत्याहयस्मान्नहीति, घटादेः पटादेश्च यत्स्वरूपं न हि तदेव तन्त्वादीनां भवितुमर्हति, भिन्नरूपत्वादेव च पृथग्भूततया निर्देष्टुं शक्यत इति भावः। अग्नेस्तु इन्धनात् पृथग्भूतमसाधारणं तत्त्वं न वक्तुं शक्यम् , शक्यते च पटादिविलक्षणं घटादेजलाहरणादितत्त्वं 30 वक्तुमित्याह-न तथेन्धनादिति । ननु घटपटयोर्विशेषकृतं नानात्वं पृथिवी घट इति च सामान्यकृतमेकत्वं यथा त्वया तत्त्व
सि. क्ष. छा. डे. पक्षे निर्दोष इति । २ सि.क्ष. छा. डे. मन्यमानोऽभ्यु०।३ सि. क्ष. छा. डे. सोऽपि दोष । ४ सि.क्ष. छा. डे. पतितस्याऽमे० । ५ सि. छा. डे. 'मदस्माद०। ६ सि.क्ष. छा. डे. अग्नीन्धनादीनाम० । ७ सि.क्ष. छा. डे. °श्वामनेषा तत्रुत्वमाश० । छा श्वामतेषातत्तुत्वया श०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org