________________
एकमेवेत्यवक्तव्यता] द्वादशारनयचक्रम्
१०१३ त्वात् , अणो रूपाद्यनेकत्वात् , रूपादेः प्रतिक्षणमन्यत्वात् प्रतिक्षणैकस्याप्यनन्तानेकत्वात्, सोऽप्यनेकः परस्परासङ्कीर्णरूपः केनचित् कदाचिदसम्बध्यमानत्वात् , असमानत्वादवक्तव्य एव, सम्बद्धो ह्यर्थः सामान्येनोच्यत इति, एवमग्नीन्धनयोरपि ।
अथापि कथञ्चिदित्यादि, त्वन्मतानुवृत्त्याऽभ्युपगम्याप्यग्नीन्धनैकत्वं कथश्चित्-केनचिन्न्यायान्तरेण-द्रव्यार्थिकदिशेत्यभिप्रायः, तथापि यदेकमित्यभिमतं तदेकमि[ति] न वक्तव्यं स्यात् , एकमेवेति, । न वक्तव्यमित्यर्थः, कस्मात् ? एकत्वात् , यत्रैकत्वं तत्रैकमेवेत्यवक्तव्यं दृष्टम् , एकदेवदत्तहस्ताद्यनेकत्ववत्-यथा एक इत्यभिमतो देवदत्तो हस्तपादाद्यवयवबहुत्वादेक एवेति न वक्तव्य एवमग्नीन्धनयोरपि दार्टान्तिको वक्ष्यते, हस्तोऽप्येक एवेति न वक्तव्योऽङ्गुल्याद्यनेकत्वात्-अङ्गुलिप्रकोष्ठबहिरन्तस्तलादिबहुत्वात् , अङ्गुलिरपि पर्वादिबहुत्वात् पर्वापि त्वगादिपर्वावयवस्कन्धबहुत्वात् स्कन्धोऽपि परमाणुबहुत्वात् , एकमेवेति न वक्तव्यमिति वर्तते यावदणोरिति, मूर्त्तद्रव्यमेव पर्यन्तावधित्वात् किमणुरेक इति वक्तव्यो 10 नेत्युच्यते-अणो रूपाद्यनेकत्वात्-रूपरसगन्धस्पर्शबहुत्वात् रूपाद्यात्मकत्वात् , [किं] रूपं रसो गन्धः स्पर्शो वैक इति वक्तव्यः नेत्युच्यते-रूपादेः प्रतिक्षणमन्यत्वात्-रूपमपि क्षणे क्षणेऽन्यदन्यदुत्पद्यते विनश्यति चेत्यन्यत्वादनेकमनेकत्वाद्रूप मेक]मिति न वक्तव्यमेवं रसो गन्धः स्पर्शश्च वाच्यः, स्यान्मतं देशभिन्नेष्वङ्गुलिपर्वत्वपादीनामनेकत्वादेकमित्यवक्तव्यं स्यात् कालभिन्नस्तु क्षणिक एक एव रूपाद्यन्यतमोऽसाधारणोऽर्थः किमित्येक इति नोच्यत इत्यत्रोच्यते-प्रतिक्षणैकस्याप्यनन्तानेकत्वात्-क्षणे क्षणे ह्येकः प्रतिक्षणैकः, क्षणं क्षणं प्रति- 15
व्यत्वमेकताया आह-अथापीति । कथञ्चिच्छब्दार्थमाह-केनचिन्यायान्तरेणेति, भवन्मतमनुवर्तमानोऽमीन्धनयोरेकत्वं द्रव्यार्थिकनयाभिप्रायेणाभ्युपगच्छामि तथापि यत्ते एकमित्यभिमतं वस्तु तत्त्वयैकमिति न वक्तव्यम्, यद्यप्येकमिति केनचिन्नयेन वक्तुं शक्यते तथाप्येकमेवेति न निर्धार्य वक्तव्यमित्याह-तथापीति । हेतुमाह-एकत्वादिति, एक इत्यभिमतो देवदत्तः किन्तु स एक एवेति न वक्तुं शक्यः, अवयवावयविनोरभेदेनावयवानेकत्वेन तस्याप्यनेकत्वात् , तस्माद्यत्र यत्रैकत्वं तत्र तत्रैकमेवेत्यवक्तव्यत्वमिति प्रतिबन्धादनीन्धनयोरप्येकत्वविषयाऽवक्तव्यता सिद्धेति भावः। इममेव दृष्टान्तं दर्शयति-एकदेवदत्तेति । घटयति-यथेति 20 तर्हि हस्त एक इति वक्तुं शक्य इत्यत्राह-हस्तोऽपीति । तदवयवानामनेकत्वं दर्शयति-अङ्कलीति । तदवयवानामनेकत्वादित्याह-अलिरपीति । पर्वादीनामपि तदवयवबहत्वादनेकत्वमाह-पर्वापीति । त्वक्स्कन्धस्याप्यवयवबहुत्वकृतमनेकत्वमाह-स्कन्धोऽपीति। अङ्गुलिरपीत्यारभ्य यावत्परमाणोरितिग्रन्थं सर्वत्रैकमेवेति न वक्तव्यमित्यनुवत्तेनीयम्, अवयवधाराया मूर्त्तद्रव्यभूतोऽणुरेव पर्यन्तावधिरित्याह-एकमेवेति । अणुरपि नैकत्वेन वक्तव्यः, रूपरसगन्धस्पर्शबहुत्वादित्याहअणोरिति । नन्वेकस्मिन्ननेकेषां गुणानां सद्भाव को विरोधः, येनाणोरेकत्वं व्याहन्येतेत्याशङ्कायामाह-रूपा न हि गुणगुणिनोरत्यन्तं भेदो वैशेषिकाणामिवाभ्युपगम्यते, अत्यन्तमेदेऽस्येदमिति सम्बन्धानुपपत्तेः, अतिप्रसङ्गात्, किन्तु तयोरमेद एव, एवञ्च रूपाद्यात्मकत्वादणूनां रूपात्मकोऽणुरन्यो रसात्मकश्चान्यः, अन्यथा रूपरसादीनां साङ्कर्यप्रसङ्ग इति भावः। तर्हि रूप रसादि वैकमिति वक्तव्यं स्यादित्यत्राह-रूपादेरिति । एकक्षणवर्तिनो रूपादेविरोधाद्वितीयक्षणेऽवृत्तेस्तदन्यत्वमेव प्रतिक्षणमुत्पद्य तदन्यक्षणे विनाशाद्रूपादिरप्यनेक एवेत्याह-रूपमपीति। ननु प्रोक्तरीत्याऽङ्गुलिपर्वादीनामाश्रयलक्षणावयवदेशभेदेनानेकत्वादेकमित्यवक्तव्यत्वेऽपि कालभिन्नस्तु क्षणमात्रस्थायी रूपाद्यर्थ एक इति वक्तव्यः स्यादेवेत्याशङ्कते-स्यान्मतमिति। समाधत्ते-प्रतिक्षणैकस्यापीति, 30 अत्र 'लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः' इति सूत्रेण वीप्सार्थे प्रतेः कर्मप्रवचनीयसंज्ञेति दर्शयति-क्षणं क्षणमिति, क्षणिको ह्यर्थोऽसाधारण उच्यते, अत एवासावनन्त एव, परस्परासङ्कीर्णरूपः, अनयोरेषां वेदं साधारणमिति केनचित् कदाचिदप्य
१सि.क्ष. छा.डे. तदेहमि०। २ सि.क्ष. छा.डे. एकस्मात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org