________________
१०१२
न्वायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे __ (एतदेवेति) एतदेव त्वं पृच्छयसे-अथ भेदप्रवृत्तिः कथम्-अग्नीन्धनयोरेकत्वे ? को विशेषहेतुर्येन सहभावस्य द्विष्ठत्वादित्युच्यते त्वया, अत्रानिष्टापादनसाधनमपि तद्यथा-कस्मान्नेन्धनमित्यादि, इतरेतरैकरूपापत्त्यभ्युपगमात्, अव्यक्तत्वेन्धनाग्नित्वाभ्यामरण्यवस्थायामिव ज्वालावस्थायामत्र चेन्धनमग्नि[रग्नि]
पीन्धनमेव स्यात् , तत्र तावदिन्धनमग्निरेव स्यात् , दहनैकत्वादन्तवत्-अन्तकालवत्-केवलाग्निकालवत्, । ज्वालाङ्गाराद्यवस्थावदित्यर्थः, अन्ते वेति तद्विपर्ययेणेन्धनत्वापत्तिरने लाद्यवस्थस्येन्धनैकत्वात् प्राग्वत्
अरण्यवस्थावत् अनिष्टैश्चैतत् , किश्चान्यत्-विकल्पाञ्चैकत्वव्याघातः, इन्धनेन सहाग्निरेकोऽग्निना सहेन्धनमिति विकल्पाभ्युपगमादेकत्वप्रतिज्ञाहानिः, भेदे हि सत्येतौ विकल्पौ युज्येते, तदेकत्वे विकल्पानुपपत्तेः, अतस्तदर्शयन्नाह-एकत्वे कुतोऽयं विशेषः-इदं न सहेदं सहेति विकल्पानुपपत्तिप्रदर्शनं गतार्थ पुरुषाधककारणमात्रा
द्वैतवादिनामिव, किश्चान्यत्-एकत्वे मथनक्रियाधारकरणाद्यनुपपत्तेश्च, एकत्वव्याघात इति वर्त्तते, अधरा10 रणिराधारो मथनक्रियायां करणमुत्तरारणिरॅग्निः कर्मेत्येवमादिकारकव्यापारादिभेदः सर्वलोकप्रसिद्धो नोप
पद्यते, अग्नीन्धनयोरेकत्वात् , आकाशमथनाद्यभाववत्, दृष्टश्चोपकारकव्यापारभेदव्यवहारः, तस्मादयुक्तमेकत्वम् ।
अथापि कथञ्चिदभ्युपगम्याप्यग्नीन्धनैकत्वं यदेकत्वेनाभिमतं तदेकमिति न वक्तव्यमेकत्वात् , एकदेवदत्तहस्ताद्यनेकत्ववत् , हस्तोऽप्येक एवेति न वक्तव्योऽङ्गुल्याद्यनेकत्वात् , 16 अङ्गुलिरपि पर्वादिबहुत्वात् पर्वापि त्वगादिपर्वावयवस्कन्धबहुत्वात् स्कन्धोऽपि परमाणुबहु
पृच्छामि यदग्नीन्धनयोरभेदे केन हेतुना भिन्ना प्रवृत्तिर्भवेत् सहभावस्य द्विष्ठत्वञ्च सिद्धयेदितीति व्याचष्टे-अथ न्धनयोर्भेदप्रवृत्तिरित्यर्थः, सर्वदेवाग्नित्वादिन्धनत्वाद्वा न प्रवृत्तिसंभव इत्यभिप्रायः । अस्मादेवाभिप्रायादनिष्टमापादयतिकस्मान्नेन्धनमित्यादीति, ज्वालावस्थायामग्निरिन्धनं कस्मान्न भवति, अग्निरिन्धनम्, इन्धनमग्निरित्यन्योन्यैकरूपताखीकारात्, अरण्यवस्थायामिन्धनेऽव्यक्ताग्नित्वं ज्वालावस्थायामिन्धनेऽग्नित्वमिति, एवमिन्धनमग्निरग्निरपीन्धनं स्यादिति भावः । प्रयोगमत्रार्थे दर्शयति-तत्र तावदिति, इन्धनमग्निरेव स्यात् , तस्य दहनेन सहैकत्वात् , ज्वालाङ्गाराद्यवस्थावदित्यरण्यवस्थेन्धनस्याग्नित्व20 प्रसञ्जनमिति भावः । ज्वालाद्यवस्थस्याग्नेरिन्धनेन सहैकत्वादरण्यवस्थावदिधनत्वमापादयति-अन्ते वेति, ज्वालाद्यवस्थायां
वेत्यर्थः । इन्धननिरूपितैकताऽनौ, अथवाऽग्निनिरूपितैकतेन्धन इति पक्षद्वयकल्पनाऽनीन्धनयोरभेदे न स्यात्, स्याच्चेदेकत्वं तयोाहन्यत इत्याह-विकल्पाच्चेति । अग्नीन्धनयोरेकत्वे इन्धनमग्निना सह नैक किन्त्वग्निरिन्धनेन सहैक इति विशेषः किंप्रयुक्तः, प्रयोजकाभावान्न स्यादित्याशयेनाह-एकत्वे कुतोऽयमिति। पुरुषादेरेकस्यैव कारणतयाऽभ्युपगमेऽद्वैतवादिनां चतुरवस्थाद्यनुपपत्तिर्विशेषाभावात् , अवस्थाचतुष्टयसत्त्वे वा एकत्वव्याघातो यथा तथाऽत्रापीत्याह-पुरुषादीति । यद्यमीन्धनयोरेकत्वं तदाऽग्निं 25 प्रत्यधरारणिराधारः, उत्तरारणिः करणम् , करणव्यापारश्चाग्निसाधने मथनक्रियेत्येवमादिसर्वलोकप्रसिद्धकारकव्यापारविशेषा विरु
ध्यन्त इत्याह-एकत्वे मथनक्रियेति, मथनक्रियाश्रयधारणादधरारणिः क्रियासिद्धावुपकुर्वदधिकरणम् , यव्यापारादनन्तरं क्रियायाः परिनिष्पत्तिर्विवक्ष्यते तत्करणं यथोत्तरारणिः, व्यापारो मथनक्रिया, उत्तरारणिजन्यत्वादग्निजनकत्वाच्च, अग्निः कर्म, कर्तुः क्रिययेप्सिततमत्वादित्येवं कारकमेद इन्धनान्योरेकत्वेऽनुपपद्यते, कारकभेदोपपत्तौ तयोरेकत्वव्याघात इति भावः। कारकभेद
दर्शयति-अधरारणिरिति, अधरारणावुत्तरारणिनाऽग्निं मनातीति प्रयोगः । न ह्येकमाकाशमाकाशे वा कश्चिन्मश्नातीति निदर्श30 नमाह-आकाशेति । अग्रुपकारकाणां व्यापाराश्च दृष्टा अतो नैकत्वं तयोरित्याह-दृष्टश्चेति । अथाऽभ्युपगम्याप्येकत्वमवक्त
.सि.क्ष. छा. डे. अव्यक्तत्वेत्वनाग्निः । २ सि. क्ष. छा. डे. दहमेकस्यादत्तवदंतकाल । ३ सि.क्ष. छा. डे. ष्टं चैतत्वै किं चा०।४ सि.क्ष. छा. डे. इदं न संदेहं सहेति । ५ सि.क्ष. छा. डे. रणिरतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org