________________
mmwww maram
wwwwwwww
भेदप्रवृत्त्यनुपपत्तिः] द्वादशारनयचक्रम्
१०११ लाग्निका दीप्तिविशेषावस्थाप्राप्तिर्या त्वयोच्यते, एवं गुण्यवस्थस्य गुणावस्थाप्राप्तिः कार्यावस्थस्य कारणावस्थाप्राप्तिश्च सामान्यविशेषकार्यकारणगुणप्रधानानामन्यत्वे सिद्धे स्यात्-तथा वक्तुं युज्येत, तदपि तु चिन्त्यमेव एतेषामन्यत्वम् , सामान्यविशेषाद्यवस्थयोर्भेदासिद्धेः, सिद्धश्चेद्भेदः कथमग्नीन्धनयोरेकत्वमुच्यते, अथोच्यतेत्यादि, स्यान्मतं तव नाहं ब्रवीमि-अग्नेरिन्धनेन सहैकत्वम् , किन्त्विन्धनस्याग्निना सहैकत्वम् , तद्व्याख्या-यद्यप्यग्नेरित्यादि, सत्यं यथाऽग्नेरिन्धनेन सहैकत्वेन कृतादेकत्वादप्रवृत्तिर्दग्धेन्धनवदनिन्धनस्य, अप्रवृत्तेश्व[]सत्त्वं । सम्भाव्यते दोषः तथा-एकत्वेऽसत्त्वदोषसम्भावनायां सत्यामप्यदोषत्वेऽस्ति न्यायः, तद्यथा-आदिध[क्ष]दिन्धनाम्येकत्वात् , इन्धनस्याग्निना सहैकत्वान्न भविष्यति दोषः, कस्मात् ? दृष्टत्वात् , दृष्टा हि इन्धनेऽनुपजाताग्निके प्रागव्यक्तस्याग्नेः पश्चाद्व्यक्तिरुत्तराधरयोररण्योर्निर्मथनेन, किञ्च यस्मात् सहभावश्च द्विष्ठ इति, इतिशब्दस्य हेत्वर्थत्वात् , यथाऽग्निना सहेन्धनं भवत्येवमग्निरपीन्धनेन भवतीत्यतः प्रागम्युत्पत्तः सत एवाग्नेर्व्यक्तिवदमावपीन्धनस्य सत्त्वमेव, अन्यथा सहभावानुपपत्तरिति ।
10 अत्र ब्रूमः
एतदेव त्वं पृच्छयसे-अथ भेदप्रवृत्तिः कथम् ? कस्मान्नेन्धनमव्यक्तत्वेन्धनाग्नित्वाभ्यामरण्यवस्थायामिव ज्वालावस्थायामग्निः? तत्रेन्धनमग्निरेव स्यात् , दहनैकत्वात् , अन्तवत् , अन्ते वाऽग्निरिन्धनमेव स्यात् , इन्धनकत्वात् , प्राग्वदिति, विकल्पाच्चैकत्वव्याघातः, एकत्वे कुतोऽयं विशेषः, इदं न सहेदं सहेति, अद्वैतवादिनामिव, एकत्वे मथनक्रियाधारकरणाद्यनु- 15 पपत्तेश्च, दृष्टश्चोपकारकव्यापारभेदव्यवहारः ।
तीन्द्रियनीलाग्निना विशिष्टा त्वयोच्यते सा सामान्यविशेषयोर्भदे सति स्यात्, न हि तयोरभेदे सा विशेषावस्था सम्प्रति नास्ति पश्चात् प्राप्यत इति वक्तुं शक्यते, एवं कार्यकारणयोः गुणप्रधानयोर्भेदे सत्येव कार्यावस्थस्य कारणावस्थाप्राप्तिः, गुण्यवस्थस्य गुणावस्थाप्राप्तिश्च वक्तुं युज्यतेति भावः । सामान्यविशेषादीनाश्चान्यत्वं नास्त्येव सिद्धमित्याह-तदपि तु चिन्त्यमेवेति, अन्यत्वन्तु चिन्त्यमेवेत्यर्थः । कारणमाह-सामान्येति । यदि सामाव्यविशेषयोर्भदः स्यात्तर्हि अग्नीन्ध-20 नयोरेकत्वोक्तिर्न युज्येत, न हि भिन्नयोर्घटपटयोरिवैकत्वं सम्भवतीत्याह-सिद्धश्चेदिति । नन्विन्धननिरूपितैकताऽग्ने!च्यते येनोक्तदोषः स्यात्, किन्तु अग्निनिरूपितैकतेन्धनस्योच्यत इत्याशङ्कते-स्यान्मतं तवेति । दोषाभावमेव स्फुटीका व्याचष्टेसत्यमिति, अर्धाङ्गीकारे पदमेतत् , अग्निर्न प्रवर्तते, एकत्वात् , दग्धेन्धनवत् , अग्नेरेकत्वञ्चेन्धननिरूपितैकत्वात् , अप्रवृत्तेश्चानिन्धनोऽसावग्निरसन् स्यादित्यङ्गीकृतांशः । अनङ्गीकृतांशमादर्शयति-एकत्वेऽसत्त्वदोषेति । कोऽसौ न्याय इत्यत्र न्यायं दर्शयति-तद्यथेति. इन्धनमग्निमत्, इन्धनान्येकत्वात् , अग्निनिरूपितैकत्वान्न दोष इति भावः । तदेव समर्थयति-25 दृष्टत्वादिति, अग्निप्रागभाववतीन्धनेऽधरारणिरूपे उत्तरारणिनिर्मथनेनाग्नेरभिव्यक्तिदृष्टा, स चाग्निरिन्धने प्रागन अन्यथा पश्चात्तस्याभिव्यक्तिरेव न स्यादिति भावः । हेत्वन्तरमपि प्रागिन्धनेऽग्निसत्त्वं व्यवस्थापयदनावपीन्धनसद्भावगमकमाह-सहभावश्च द्विष्ठ इति, सहभावस्य द्विष्ठत्वादिति भावः । तदेवाह-इतिशब्दस्येति, अग्निसहभाव इन्धनस्य अन्यथाऽग्निरिन्धनान्न भवेत् , प्रागसतोऽनुत्पत्तेस्तस्मात् प्रागिन्धनेऽव्यक्तसन्नग्निः, एवञ्च सहभावादग्नेरपीन्धनसहभावो भवेदेव, न हीन्धनेन सहासतोऽग्नेरग्निना सह वाऽसत इन्धनस्य सहभावः सम्भवति तस्मात् सहभावस्य द्विष्ठत्वात् प्रागिन्ध- 30 नेऽग्नेरिव पश्चादग्नावपीन्धनस्य सत्त्वमेवेति भावः । नियमनयवादी मतमिदं निराचष्टे-एतदेवेति । नन्विदमेवाहं त्वां
१ सि.क्ष. छा. डे. मनन्यत्वे । २ सि.क्ष. छा. डे. मनन्यत्वम् । ३ सि.क्ष. छा. डे. रित्वयिनेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org