________________
१०१०
न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे तदपेक्षत्वादिन्धनत्वस्य, दह्यते दीप्यत इतीन्धनमग्नित्वपरिणतावे नि इन्धी दीप्ताविति स्मृतेः दह्यमानमिन्धनं भवति नानिध्यमानं, कारकाणामेव कारकत्वात् ।
__ यथेन्धनमित्यादि यावत् सूक्ष्मावस्थ इति चेत्-यथेन्धनमग्निना सहैकत्वेऽप्यनुपजाताग्निकं प्रवर्त्तमानं दृष्टं तथाऽग्निरेपीन्धनेन सहैकत्वे प्रवर्तितुमर्हति सूक्ष्मावस्थः-कार्यानुमेयोऽप्रत्यक्ष इत्यर्थः, तस्मादनैकान्ति. 5 कत्वादहेतुस्तदेकत्वमिति चेन्मन्यसे-अत्र ब्रूमः-को वा ब्रवीतीत्यादि, अग्निरहितावस्थायामिन्धनत्वस्यैवाभावात विपक्षाभावेऽनैकान्तिर्कताभासता, · तद्व्याचष्टे-तदपेक्षत्वादिन्धनत्वस्य-दीपनोऽग्निः, इन्धनदीपनदहनभस्मीकरणार्थत्वात् तत्परिणतावेवेन्धनमिष्यते दह्यते दीप्यत इतीन्धनमग्नित्वपरिणतावेव, एकत्ववादिनो विशेषेणातत्परिणतावग्नित्वेन्धनत्वयोरभावात् , 'नि इन्धी दीप्तौ' इति स्मृतेः विरोधित्वॉदनिध्यमानस्यानिन्धनत्वमत आह-दह्यमानमिन्धनं भवति नानिध्यमानम् , किं कारणम् ? कारकाणामेव कारकत्वात् , 10 कर्तृकर्मादिशक्त्यावेशावस्थायामेव कर्तृकर्मादिकारकत्वं कारकाणामसङ्कीर्णात्मलाभं स्यात्, नान्यथा, सर्वमृद्धटादित्वप्रसङ्गात् ।
यदप्युक्तं सूक्ष्मावस्थाग्निरिन्धनरहित इति, तदपि नोपपद्यत इत्येतत् प्रदर्शनार्थमाह
सूक्ष्मावस्थत्वेन चाग्नेः दीप्तिविशेषावस्थाप्राप्तिः सामान्यविशेषाद्यवस्थयोरन्यत्वे सिद्धे स्यात् , तदपि तु चिन्त्यमेव, सिद्धश्चेद्भेदः कथमग्नीन्धनयोरेकत्वमुच्यते, अथोच्येत नाहं 15 ब्रवीम्यग्नेरिन्धनेन सहैकत्वम् , किन्त्विन्धनस्याग्निना सह, यद्यप्यग्नेरिन्धनेन सहैकत्वेऽप्रवृत्तेरसत्त्वं सम्भाव्यते तथापि अदोषत्वेऽस्ति न्यायः तद्यथा-आदिधक्षदिन्धनान्येकत्वात् दृष्टत्वात् , दृष्टा हीन्धनेऽनुपजाताग्निके प्रागव्यक्तस्याग्नेः पश्चान्यक्तिः, उत्तराधरयोररण्योर्निर्मथनेन, सहभावश्च द्विष्ठ इति प्रागग्नयुत्पत्तेः सत एवाग्नेर्व्यक्तिवदग्नावपीन्धनस्य सत्त्वमेवेति ।
सूक्ष्मावस्थत्वेन चेत्यादि, इन्धनाव्यतिरेकेण दीप्तिसामान्यावस्थस्याग्नेः सूक्ष्मातीन्द्रियेन्धननी
wimmmmmmmmmmmm
mmmmmm
aawimwanamanwwwaar
20 त्वाभावेन हेतोरेकत्वस्यानैकान्तिकतारूपाऽऽभासता नास्त्येवेत्याह-को वा ब्रवीतीति। अग्न्यपेक्षत्वादिन्धनत्वस्याभ्यभावे
इन्धनत्वमेव नास्तीति दर्शयति-तदपेक्षत्वादिति । जि इन्धी दीप्तौ, दीपी दीप्तौ, दह भस्मीकरणे, इतीन्धनदीपनभस्मीकरणानामेकार्थत्वेन दीपनदहनपरिणतावेवेन्धनत्वादनुपजाताग्निकस्येन्धनत्वमेव नास्ति, अदीपनादिति व्याचष्टे-दीपनोऽग्निरिति । दीप्तिदहनपरिणामाभावे एकत्ववादिमते इन्धनस्येन्धनत्वमग्नेरग्नित्वञ्च नास्त्येवेत्याह-एकत्ववादिन इति । अदीप्यमानस्यानिन्धनत्वं त्रि इन्धी दीप्ताविति स्मृतिविरोधात् , विरुध्यते हि स्मृतिस्तदानीं तस्येन्धनत्वेऽभ्युपगम्यमाने इत्याह-दह्यमानमिन्धनं भवतीति । नानिध्यमान मिन्धनं भवति, क्रियोपहितस्यैव कारकत्वात्, न तु क्रियोपलक्षितस्य, तथात्वे हि सर्वकारकाणां सङ्कीर्णता स्यात् कतैव कर्म करणं सम्प्रदानमित्यादिरूपेण, तस्मात् कर्तृत्वशक्त्युपहितस्य तु न कर्मत्वादिशक्तिविशिष्टत्वम् , तस्मादिध्यमानमेवेन्धनं भवति नान्यथेत्याह-कारकाणामेवेति, करोतीति कारकम् , तत्तत्क्रियाविष्टमेव कारकमिति भावः । तदेवाहकर्तकर्मादीति । विपर्यये दोषमाह-समृदिति, मृण्मात्रस्य घटत्वापत्तिः घटभवनयोग्यत्वान्मृद इति भावः । नन्विन्धनेन
सहैकत्वमापन्नोऽग्निरनिन्धनः सूक्ष्मावस्थः उत्तरकालं प्रवृत्तिदर्शनादनुमेय इति यदुक्तं तदनुपपन्नमित्याह-सूक्ष्मावस्थत्वेन 30 चेति।व्याचष्ट-इन्धनाव्यतिरेकेणेति, इन्धनाभिन्नस्य दीप्तिसामान्यावस्थस्याग्नेदीप्तिविशेषावस्थाप्राप्तिः
१ सि. क्षां छा. डे. यथेत्व नमः। २ सि.क्ष. डे. छा. पीत्वनेन । ३ सि.क्ष. डे. छा. तस्मानका०। ४ सि. कतीभासः । ५ सि.क्ष. छा.डे. त्वाशानिध्य०।६ सि. क्ष. छा. डे. भवत्यनिध्यः। ७ सि.क्ष. छा. डे. स्थायाममि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org