________________
१००९
maanam
अग्नेरिन्धनैकत्वानुपपत्तिः] द्वादशारनयचक्रम् यभावविशेषेत्यादि समासदण्डको गतार्थः, उक्तपर्यायविकल्पयुगलके एतस्यार्थस्य भावनार्थमुदाहरणम्एवं हि भवनमग्नीन्धनवदिति, तत्र तावदग्नीन्धनयोरेकत्वं नानात्वं[उभयत्वं]अनुभयत्वं अन्यतरप्रधानोपसर्जनता च स्यादिति विकल्प्य सर्वथाऽप्यवक्तव्यतैवेति वक्ष्यमाणो दृष्टान्तार्थः, तद्विकल्पानुपपत्तेः ।
तत्रैकत्वं तावन्न घटत इति ब्रूमः, कथम् ? ।
यथा नैकत्वमग्नेरिन्धनेन सह घटते, यदि स्यादेकत्वम् , दग्धेन्धनवदग्निर्न प्रवर्तेत, । अनिन्धनप्रवृत्तेश्चाभावतैवाग्नेः, अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्थाः इति वचनादप्रवृत्त्यसत्त्वार्थत्वात् , न प्रवर्तते, एकत्वादग्धेन्धनवत् ।
यथा नैकत्वमित्यादि, तच्चैकत्वमग्नेरिन्धने न]सह, इन्धनस्याग्निना वा सह स्यात् , 'सह युक्तेऽप्रधाने' (पा० २-३-१९) तृतीया, इन्धनमेवाग्निरेव वा स्यात् , तन्न तावदग्नेरिन्धनेन सहैकत्वं घटते, तेन सहैकत्वात्, तत्प्राधान्यात् वक्ष्यते दोषोऽसत्त्वं, यदि स्यादेकत्वमनेरिन्धने[न], दग्धेन्धन- 10 वदग्निरिन्धनरहितत्वान्न प्रवर्तेत, यथा दग्धेन्धनोऽग्निर्न प्रवर्त्तते, तथाऽस्याप्रवृत्तिरनिन्धनप्रवृत्तश्चाभावतैवानेः स्यात् , 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्थाः' इति वचनादप्रवृत्ति[अ]सत्त्वार्थत्वात् , अप्रवृत्तेरसत्त्वपर्यायत्वात् , तदुपसंहृत्य साधनमाह-न प्रवर्त्तते, एकत्वादग्धेन्धनवत्-यथा दग्धेन्धनोऽग्निरिन्धनेन सहैकत्वादिन्धनेव्यतिरेकेणाप्रवर्त्तमानत्वादेकत्वादप्रवृत्तेरसन तथाऽग्निरिति । अत्राह
16 यथेन्धनमग्निना सहैकत्वेऽप्यनुपजाताग्निकं प्रवर्त्तमानं दृष्टम् तथेन्धनेन सहैकत्वे प्रवर्तितुमर्हत्यग्निः सूक्ष्मावस्थ इति चेत् को वा ब्रवीत्यग्निरहितावस्थायामिन्धनत्वम् , एते विकल्पा यस्मिन् वस्तुनि न प्रसरन्ति तथाविधं वस्त्ववक्तव्यस्वरूपं भवतीत्यर्थः । भावविशेषादिविकल्पेष्ववक्तव्यतत्त्वं वस्त्विति भावनार्थ दृष्टान्तं दर्शयति-एवं हि भवनमिति, अग्नीन्धनवदेवं ह्यवचनीयं वस्तु भवतीत्यर्थः । अग्नीन्धनयोरेकत्वादिभावनाय विकल्पान् प्रदर्शयति-तत्र तावदिति । अग्नीन्धनयोरेकत्वादिविकल्पानुपपत्तेरवक्तव्यतैवेति हेतुं दर्शयति- 20 तद्विकल्पानुपपत्तेरिति । तयोरेकत्वासम्भवमादर्शयति-यथा नैकत्वमिति । यदग्नीन्धनयोरेकत्वमुच्यते तत् किमग्नेरिन्धनेन सह, इन्धनस्याग्निना वा सह स्यात् , आद्येऽग्निः प्रधानमिन्धनमप्रधानम् , अन्त्ये इन्धनं प्रधानमनिरप्रधानम्, सहपद. योगेऽप्रधाने तृतीयायाः 'सहयुक्तेऽप्रधाने' इति सूत्रेण विहितत्वात् , किं वैकान्तेनेन्धनमेव स्यात् , उतैकान्तेनाग्निरेव वा स्यादिति, अत्र पक्षयोः सर्वथाऽन्यतरस्यापह्नुतिरिति व्याचष्टे-तच्चैकत्वमिति । इन्धनेन सहानेरेकत्वपक्षं दूषयति-तन्न तावदिति। इन्धनेन सहामेरेकत्वेऽग्नः प्राधान्याद्यथा दग्धेन्धनोऽग्निर्न प्रवर्तते तथाऽयमप्यग्निर्न प्रवर्तेत, अप्रवृत्तेश्चासत्त्वं तस्य स्यादित्याह-25 यदि स्यादेकत्वमिति । इन्धनरहितत्वात् प्रवृत्तिरहितत्वाच्चाग्निरभाव एव स्यादित्याह-अनिन्धनेति । प्रवृत्तः सत्त्वस्य चास्तिभवतीत्यादिवचनेन पर्यायत्वात् प्रवृत्त्यभावे सत्त्वमपि नास्तीत्याह-अस्तिभवतीति। फलितमर्थमनुमानप्रयोगेण दर्शयतिन प्रवर्तत इति, अग्निरिति शेषः । हेतुसाध्ये समर्थयति-यथेति । नन्वग्निर्न प्रवर्तत एकत्वाद्दग्धेन्धनवदित्यत्रैकत्वमनैकान्तिकमित्याशङ्कते-यथेन्धनमिति । अग्निना सहैकत्वमापन्नं हीन्धनमग्नेस्तत्रानुत्पन्नत्वेऽपि ज्वलने प्रवृत्तिदर्शनात् सूक्ष्मतयाऽवस्थानमग्नेरनुमीयतेऽतस्तत्रैकत्वेऽपि प्रवृत्तिदर्शनात् तद्वदेवेन्धनेन सहकत्वमापन्नोऽग्निः प्रवृत्तिसमर्थ एव, सूक्ष्मतया तत्राप्यनिन्धनस्याग्नेः 30 सद्भावादत एकत्वमनैकान्तिकमित्यादर्शयति-यथेन्धनमग्निनेति । अग्निना सहकत्वमापन्नस्येन्धनत्वमेव नास्तीति तस्य विपक्ष
१ सि.क्ष. छा. डे. सहाऽत्वनस्याग्निना । २ सि. क्ष. छा. डे. तृतीयेननमेवाग्नि । ३ सि.क्ष. छा. 2. रित्वनेन । सि.क्ष. छा. डे. तदने त्वनवदग्निः । ५ सि.क्ष. छा. डे. धनात्यव्यति।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org