________________
१००८ न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे नीलोत्पलवदिति, सदापि विशेषानुवृत्तेरुक्तवन्नेति चेत् स्यान्मतं ननूक्तं-'अर्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यादुपसर्जनात् ॥' (प्र० स० ) इत्यादिप्रपञ्चेन विशेष एव सामान्येनानुवर्त्यते, न विशेषेण सामान्यमिति, एतन्न, विशेषाभावात् , स एव हि विशेषो नैवास्तीति
पूर्वनयेषु बहुधा भावितम् , तस्मान्न विशेषकान्तपक्षः सामान्यं शक्नो[त्य]त्यन्तं निवर्त्तयितुम् , नापि । सामान्यैकान्तपक्षो विशेषपक्षमतेस्तौ न क्षमौ-सामान्यविशेषकान्तपक्षौ ।।
वक्ष्यमाणमवचनीयं वस्तु प्रतिपत्तव्यम् , नाप्यभावनिरन्वयं न भाव एव, नाविशेषम् , न विशेषोपसर्जनम् , न विशेष एव, नोभयोपसर्जनं नोभयप्रधानम् , सर्वविकल्पेष्वणुभावापत्तिदोषदर्शनात्, अवचनीयभावविशेषकारणकार्येकानेकप्रधानोपसर्जनादिविकल्पं अवक्त व्यतत्त्वं वस्तु भवति, एवं हि भवनमग्नीन्धनवत् तद्विकल्पानुपपत्तेः।। 10 (वक्ष्यमाणमिति) वक्ष्यमाणमनन्तरं वस्तु प्रतिपत्तव्यमवचनीयम्-भवनविशेषाभ्यां कारणकार्यत्वाभ्यमेकानेकत्वाभ्यां प्रधानोपसर्जनत्वाभ्यामित्यादिभिर्विकल्पैर्विकल्प्यमामवक्तव्यतत्त्वं वस्तु भवति, नाप्यभावनिरन्वयं न तदुपसर्जनम् , भावोपसर्जनं विशेषप्रधानम् , वस्त्वित्यभिसम्बध्यते, न भाव एव, निराकृतविशेषः, तथा नाविशेष-विशेषशून्यं, न विशेषोपसर्जनं सामान्यं प्रधानमिति, न विशेष एवात्यन्ततिरस्कृतसामान्यः, नोभयोपसर्जनं वस्तु, अत्यन्तनिराकृतस्वातंत्र्यसामान्यविशेषम् , नोभयप्रधानं, अत्यन्तस्वतंत्रतुल्य15 कक्षसामान्यविशेषम् , सर्वविकल्पेष्वणुभावापत्तिदोषदर्शनात् , कीदृक् तर्हि वस्तु भवतीत्यत आह-अवचनी
MAmainwww
Aamam
wwwwwwwwwwww
ज्ञाप्यतेऽज्ञातत्वादित्यनन्तरपूर्वनये उक्तत्वात् सदापि विशेषविषयैवानुवृत्तिः सामान्यकर्तृकेति त्वदुक्तवन्न विशेषकर्तृकेत्याशङ्कतेसदापीति, सर्वदा विशेषस्यैवानुवृत्तेराश्रयत्वान्न विशेषनिरूपितानुवृत्तिः सामान्यस्येति चेदिति भावः। पूर्वनये प्रोक्तां कारिकामु पन्यस्य सामान्येन विशेष एवानुवर्त्यत इति स्थापयति-स्यान्मतमिति । अथेति, अर्थश्च शब्दश्चार्थशब्दौ तयोर्विशेषस्तस्य,
वाच्यश्च वाचकश्च वाच्यवाचको तयोर्भावः, विशेषस्य पूर्वमदृष्टत्वेऽपि सामान्योपसर्जनन्यायेनोच्यत इति प्रागुक्तत्वेन सामान्य20 मेवानुवर्तते न विशेषः, तच्चोपसर्जनत्वादुणभूतमिति भावः । पूर्वोदितेषु द्रव्यार्थिकनयेषु विशेषो नास्तीति भावितत्वान्न सामा
न्यस्य गौणत्वमित्युत्तरयति-विशेषाभावादिति । एवञ्चैकान्तविशेषपक्ष एकान्तसामान्यपक्षो वा सामान्य विशेषं वा निवर्तयितुमक्षमावित्याह-तस्मान्नेति । सामान्यविशेषादिनाऽवचनीयं वस्तु प्रतिपत्तव्यमिति दर्शयितुमाह-वक्ष्यमाणमिति । कथमवचनीयं वस्त्वित्यत्राह-भवनविशेषाभ्यामिति । विकल्पान्निषेधति-नाप्यभावेति, अभावो-विशेषः, स चान्वयरहितः सामान्योपसर्जनः, अन्वयरहितो विशेषः प्रधानं सामान्यञ्चोपसर्जनमेवंविधं वस्तु न भवतीति भावः । न भाव एवेति, भावः25 सामान्यं तदेवात्यन्ततिरस्कृतविशेष वस्तु न भवतीत्यर्थः, अत्र पक्षे प्रधानोपसर्जनभावो नास्तीति भेदः । तथा नाविशेष
मिति, निर्विशेषं, सामान्यप्रधानं विशेषोपसर्जनमपि वस्तु न भवतीत्यर्थः । न विशेष एवेति, अत्यन्ततिरस्कृतसामान्यो विशेष एव वस्तु न भवतीत्यर्थः, अत्रापि न प्रधानोपसर्जनभावः । नोभयोपसर्जनमिति, सामान्य विशेषश्चोभयमप्युपसर्जनमेव न प्रधानमेवंविधमपि वस्तु न भवतीत्यर्थः । नोभयप्रधानमिति, सामान्य विशेषश्चोभयमपि परस्परानपेक्षं स्वतंत्र
मेवंविधमपि वस्तु न भवतीत्यर्थः । कुत एवंविधं वस्तु न भवतीत्यत्र कारणमाह-सर्वविकल्पेष्विति, अन्यतमविकल्पात्म30 कवस्त्वभ्युपगमे तद्वस्तु केवलमणुस्वरूपो भावः स्यात्, न तु स्थूलरूपमपीति भावः । किं स्वरूपं तर्हि वस्त्वभ्युपेयमित्यत्राहअवचनीयभावेति, अवचनीयाः-अनभिधीयमानाः भावविशेषकारणकार्येकानेकप्रधानोपसर्जनादिविकल्पा यस्मिन् वस्तुनि,
१ सि. क्ष. छा. डे. एतदविशेषा० । २ सि. क्ष. छा. डे. °मतात्तत्क्षेमौ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org