________________
सामान्यविशेषैकान्तपक्षनिरासः] द्वादशारनयचक्रम्
१००७ अत्यन्तमन्यस्य पृथिवीद्रव्यस्य वैलक्षण्याद्वा सर्वस्य द्रव्यगणस्य व्यतिरेकेण निरन्वयो निरुपाख्यः कश्चिदेवावाच्योऽवेद्यरूपोऽर्थः कस्मान्न स्यात् , अन्वयरहितत्वात् , अत एव चेत्यादि, यस्मादन्वयरहितस्य निरुपाख्यस्याभावः तस्मान्मिथ्यादर्शनादिप्रत्ययजीवकर्मसम्बन्धसन्तत्याख्यान्वयाभावान्नरकादिगतिविशेषसुखदुःखफलाख्यसंसारविशेषार्थप्रवृत्तयोः पुण्यपापकर्मणोरनुपपत्तिः तदनुपपत्तेः संसारानुपपत्तिः, तत्प्रतिपक्षसम्यग्दर्शनादिपरिणामविशेषानुपपत्तिः, ततस्तत्प्राप्यमोक्षानुपपत्तिरपि, ततः शास्त्राभ्यासादिपुरुषकारानुपपत्तिः, 5 अनियततथाप्रवृत्तेः।
अथ मा भूवन्नेते दोषा इति तथानियतप्रवृत्तिरिष्यते ततः
सत्याञ्च तथानियतप्रवृत्तौ जीवो नारकः संसारी मुक्त इत्यादिवत् पृथिवी घट इत्यन्वयप्राधान्यमेवैषितव्यम् , विशेषस्तु घटः पृथिवीमनुवर्तते, लोके प्रधानं ह्यनुवर्त्यते, गुणस्त्वनुवर्त्तते नीलोत्पलवत् , सदापि विशेषानुवृत्तेरुक्तवन्नेति चेन्न, विशेषाभावादिति पूर्वनयेषु 10 बहुधा भावितत्वान्न विशेषकान्तपक्षः सामान्यं शक्नोत्यत्यन्तं निवर्तयितुम् , नापि सामान्यैकान्तपक्षो विशेषपक्षमतस्तौ न क्षमौ ? ।
__ (सत्याश्चेति) सत्याश्च तथानियतप्रवृत्तौ जीवकर्मसम्बन्धसंसारमोक्षादिकायां जीवो नारकः संसारी मुक्त इत्यादिवत् पृथिवी घट इत्यन्वयप्राधान्यमेवैषितव्यम् , विशेषस्तु घटः पृथिवीमनुवर्त्तते, जीवत्वं नारकत्वादिः, कस्मात् ? यस्माल्लोके प्रधानं ह्यनुवर्त्यते, न गुणः, गुणस्त्वनुवर्तते, न प्रधानम् , 15
कस्मान्न स्यात् ? येन निरुपाख्यत्वादसदेव स्यादित्युच्यत इत्याह-अत्यन्तमन्यस्येति, विशेषादत्यन्तभिन्नस्येत्यर्थः । हेतुमाहअन्वयेति । अन्वयरहितत्वान्निरुपाख्यत्वादभावे दोषान्तरमाह-यस्मादिति, पुण्यपापकर्मणोरनुपपत्तिर्दोषः, पुण्यपापकर्मणोः प्रवृत्तिर्विशिष्टसंसाराय, विशिष्टसंसारश्च नरकादिचतुर्गतिविशेषेषु सुखदुःखस्वरूपफललक्षणः, पुण्यपापकर्मणी चात्मनि जीवकर्मसम्बन्धसन्तानरूपान्वयाद्भवतः, जीवकर्मसम्बन्धस्तु मिथ्यादर्शनादिहेतुभ्य इति सिद्धान्तः, तत्र यदि सामान्यराहित्यमुच्यते तदा जीवकर्मसम्बन्धसन्तानरूपसामान्यस्याभावात् कथं पुण्यपापकर्मणी उपपद्यते इति भावः । एवञ्च संसारोऽपि न स्यादित्याह-20 तदनुपपत्तेरिति, पुण्यपापकर्मानुपपत्तेरित्यर्थः । पुण्यपापकर्मानुपपत्तेरेवाऽऽत्मनस्तत्प्रतिपक्षसम्यग्दर्शनादिपरिणामो न स्यादित्याह-तत्प्रतिपक्षेति, पुण्यपापकर्मप्रतिपक्षेत्यर्थः । तथाविधपरिगामविशेषाभावे तत्प्राप्यो मोक्षोऽपि न स्यादित्याह-ततस्तत्प्राप्यति । एवं मोक्षप्राप्त्यर्थ शास्त्राभ्यासादिप्रयत्नोऽपि न स्यादित्याह-तत इति । अहेतुकेषु नियतप्रवृत्त्यसम्भवादिति हेतुमाह-अनियतेति । सम्प्राप्तदोषराशिविधूननाय तेन प्रकारेण नियतप्रवृत्त्यभ्युपगमेऽपि सामान्यस्यावश्यतया प्राधान्यं प्रदेयमित्याह-सत्याञ्चेति । व्याचष्टे-सत्याञ्च तथानियतप्रवृत्ताविति, जीवः कर्मसम्बन्धमनुभवन् संसरति गतिषु, मुच्यते 25 तदर्थशास्त्राण्यभ्यस्यति चेति नियतप्रवृत्तेरभ्युपगमे नारकत्वसंसारित्वमुक्तत्वादिविशेषेष्वनुवर्तनशीलस्य सामान्यस्य जीवस्य प्राधान्यम् , अन्यथा कस्य नारकादित्वं स्यात् , तथा चाप्रधानं विशेषः सामान्यं प्रधानमित्यभ्युपेयमिति भावः । पृथिव्याः प्राधान्यं दर्शयतिपृथिवी घट इतीति । अन्वयभूता पृथिव्येव प्रधानं घटस्तु गुणभूतो विशेषः, पृथिव्याः पृष्ठतो गमनात् , एवं नारकत्वादिविशेषः जीवमनुसरतीति दर्शयति-विशेषस्त्विति । तत्र हेतुमाह-यस्माल्लोक इति, गुणैः प्रधानमनुवय॑ते, न तु प्रधानेन गुणोऽनुवर्त्यते, खातंत्र्यक्षतेः, गुणस्त्वनुवर्तते, न तु प्रधानम् , यथा नीलोत्पलमित्यादौ प्रधानमुत्पलं द्रव्यत्वात् , भेद्यत्वात् , 30 इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वात् , नीलो गुणो भेदकत्वात् , अतो नीलस्योपसर्जनतैव, नीलञ्च तदुत्पलञ्चेत्येव विग्रहो न तूत्पलञ्च तन्नीलच्चेति, उत्पलशब्दस्यानुपसजेनत्वात् प्रधानत्वादिति भावः । ननु वाच्यताऽथविशेषस्य, वाचकतापि शब्दविशेषस्येष्यते, अनयोरेव सत्त्वात् , सामान्यभूतयोरर्थशब्दयोरसत्त्वात्तस्य च विशेषस्य पूर्वमदृष्टत्वात् स एव सामान्यादुपसर्जनात्
द्वा० न० २ (१२५)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org