________________
mwww
१००६ न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे सामान्यमेव निर्विशेषम् , घटावस्थानाद्यक्रियमाणविशेषणस्य तथा तथा वस्तुनोऽभवनात्, तद्वैधयं मृगतृष्णिकायामित्यत आह-मृगतृष्णिका अन्वाकृतजलविशेषाऽपि किं शीतादिभेदा न भवतीति कारणनिर्णयार्थ प्रश्नः, व्याकरणं चास्य भावाभावादेव, यथा वाऽसाविति, यथा मृगतृष्णिकादि भावाभावान्नास्ति तथा घटादिर्विशेषोऽन्वयभावाभावान्नास्ति, परस्य तु दोषः, यदि विशेष एव प्रधानं स्यात् सलिलभावेत्यादि 5 सलिलभवनेनानन्वितं घटाद्यपि मृगतृष्णिकाकल्पमसत् स्यात् , निरुपाख्यत्वात् , उपाख्या हि भवनप्राणिका किमित्युपाख्येयेत्यत आह-इदं तदिति 'सोपाख्येयेति, पृथिवीति द्रव्यं सद् घट इति वा, ततः किं ? न किञ्चित् स्यात् , कस्मात् ? पृथिव्यादिसामान्येनानुपष्टब्धत्वात् , खपुष्पवत् ।
किश्चान्यत्__ तथा कस्माद्धटपटादिविशिष्टवृत्त्येव उदकज्वलनानिलाकाशादिना पृथिव्यादि न 10 व्यज्यते ? अत्यन्तमन्यस्य पृथिवीद्रव्यस्य वैलक्षण्याद्वा सर्वद्रव्यगणव्यतिरेकेण निरन्वयो निरुपाख्यः कश्चिदेवार्थः कस्मान्न स्यात् ? अत एव च मिथ्यादर्शनादिप्रत्ययजीवकर्मसम्बन्धसन्तत्याख्यान्वयाभावात् पुण्यपापकर्मानुपपत्तेः संसारानुपपत्तिः, मोक्षानुपपत्तिः, तत्प्रतिपक्षपरिणामविशेषानुपपत्तेः, पुरुषकारानुपपत्तिश्च, अनियततथाप्रवृत्तेः। ...
तथा कस्मादित्यादि, यदि विशेषः सामान्यनिरपेक्षः स्यात् ततो यथा घटः, पट इति वा 15 विशिष्टया वृत्त्या पृथिव्यादि व्यज्यते तथोदकज्वलनानिलाकाशादिना कस्मान्न व्यज्यते पृथिवीविभिन्नेन,
नमाह-तद्वैधर्म्यमिति । अन्वाकृतजलविशेषा मृगतृष्णिका केन हेतुना शीतादिभेदा न भवतीति पृच्छति-मृगतृष्णिकेति, अपिना प्रतिभासमानता विशेषस्य मृगतृष्णिकायां सूचिता, मृगतृष्णिकादेः जलादिविशेषभवनाभावान्न सत्त्वमिति ब्रूतेव्याकरणमिति, समाधिरित्यर्थः, भावस्याभावादिति हेतुः, भावस्य-विशेषस्यान्वयस्य वाऽभावादित्यर्थः । एतदेव निरूपयति
यथा वाऽऽसावितीति । दार्शन्तिकमाह-तथा घटादिरिति. सामान्यरूपस्य भावस्याभावाद्विशेषोऽपि नास्तीति विशेषमा20 त्रवादिनो दोष इति भावः। पुनर्व्याख्याति-यदि विशेष एवेति, सलिलभावेनानन्वितस्य मृगतृष्णिकादेरिव प्रधानं घटादिविशेषः असन् स्यादिति भावः । असत्त्वे हेतुमाह-निरुपाख्यत्वादिति, आख्याननिमित्ताभावादुपाख्यातुमशक्यत्वादित्यर्थः । आख्याने
-उपाख्या हीति. भवनमेवोपाख्यायां निमित्तमिति भावः। घटः किमित्यपाख्येय इत्यत्राह-इदं तदितीति अयं घटादिः पृथिवीति द्रव्यमिति सदिति वोपाख्येयः, घटादेर्भवनाभावे तथोपाख्यातुमशक्यत्वान्निरुपाख्यतया घटादि मृगतृष्णिकाकल्पमसत् स्यादिति भावः । निरुपाख्यत्वे किं स्यादित्यत्राह-न किंचित् स्यादिति, घटादि किमपि न स्यादित्यर्थः । हेतुमाहप्रथिव्यादीति, पृथिवीद्रव्यादिसामान्येनानन्वितत्वात् , यथा खपुष्पादि पृथिव्यादिसामान्यानन्वितत्वान्न किञ्चित् तथा घटाद्यपि स्यादिति भावः । विशेषस्य सामान्यनिरपेक्षतायां दोषान्तरमाह-तथा कस्मादिति । सामान्यं हि व्यक्त्यभिव्यंग्यम् , घटपटादिविशिष्टसम्बन्धेनैव पृथिव्यादिसामान्यं व्यज्यते सामान्यस्य व्यापकत्वेऽपि, घटपटादीनामेव पृथिव्यादेरपेक्षणात् , न तु पृथिवीभिन्नेन जलानलानिलादिना पृथिव्या अभिव्यक्तिः, तेन सह तस्या विशिष्ट वृत्तरभावेन निरपेक्षत्वात् , एवञ्च विशेषो यदि सामा
न्येनान्वितो न स्यात्तर्हि घटादिना पृथिव्यादेरभिव्यक्तिवजलादिनापि कुतो न व्यज्यते पृथिव्यादि, सामान्यनिरपेक्षतायास्तुल्य30 त्वात् , विशिष्टवृत्तिकल्पकाभावाचेत्याशयेन व्याकरोति-यदि विशेष इति। व्यक्तिभ्योऽत्यन्तं भिन्नस्य पृथिवीद्रव्यस्य ताभ्यो विलक्षणत्वात् सर्वद्रव्यगणेन साकं तस्य व्यतिरेकात्-असम्बन्धात् निरन्वयोऽत एवावेद्यरूपः निरुपाख्योऽत एवावाच्यः कश्चिदर्थः
सि.क्ष. डे. छा. स्थानादक्रियः। २ सि. क्ष. त्वाकृतः। ३ सि. क्ष. छा. डे. पाख्यायेत्येत्यत आह । ४ सि.क्ष. छा. डे. सोपाख्येयेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org