________________
अविशेषान्व्यापादनम् ] द्वादशारनयचक्रम्
१००५ पृथग्भावेनाभवनात् [अ]परमार्थसत्त्वात् सलिलनगरयोरसत्त्वं दृष्टं यथा तथा सामान्योपसर्जनतायां विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वमिति, अथोच्येत त्वया शीतादीत्यादि, मृगतृष्णिकासलिले शीतमृदुद्रवतादिविशेषाभावात् गन्धर्वनगरे [नगरे] दृश्यमानजीवाजीवविशेषधर्माभावात् स्यादसत्त्वम् , नावश्यं विशेषे घटपटादौ पृथिवी विशेषाश्मसिकतादिभेदैर्भाव्यम् , यतो विशेषासत्त्वादसत्त्वं कल्प्येत, यदि स्युर्विशेषे विशेषा अविशेष एव स्यात्सामान्यमेव-अन्वय एव स्याद्विशेषः, विशेषवत्त्वात् सद्रव्यत्वपृथिव्यादि- 5 सामान्यवत् ।
अत्राचार्य आह
अपि च वयमप्येतदेव ब्रूमोऽविशेष एव स्यादिति यदि तथा भवनेन विशेषेण विना भवेदन्वयो विशेष एव निःसामान्यः स च नास्ति खपुष्पवत्, नापि सामान्यमेव निर्विशेषम् तथा तथा वस्तुनोऽभवनात्, मृगतृष्णिकाऽन्वाकृतजलविशेषापि किं शीतादिभेदा न 10 भवति ? न भावाभावादेव, यथा वाऽसौ विशेषभावाभावात् नास्ति, तथा घटादिः विशेषोऽन्वयभावाभावान्नास्ति, यदि विशेष एव प्रधानं स्यात् सलिलभावानन्वितमिव घटाद्यपि मृगतृष्णिकाकल्पमसत् स्यात् निरुपाख्यत्वात्, उपाख्या हि भवनप्राणिका, इदं तदिति सोपाख्येयेति, ततो न किञ्चित् स्यात् , पृथिव्यादिसामान्येनानुपष्टब्धत्वात् , खपुष्पवत् ।
_(अपि चेति) अपि च वयमप्येतदेव ब्रूमः-अन्वय एवाविशेषः सामान्यमेव स्यादिति, यदि तथा 15 भवनेन विशेषेण-आकृत्याख्येन विना भवेदन्वयो विशेष एव निःसामान्यः स च नास्ति, खपुष्पवत्, नापि
योरिव विशेषस्य प्रत्यक्षत्वेऽप्यसत्त्वं स्यादित्याह-भवनस्येति, सामान्यस्थानापन्नस्य भवनस्य मृगतृष्णिकादेः पृथग्भावेनाभवनात् तस्यैवासति कुतः सलिलनगरयोः विशेषयोः सत्त्वं प्रत्यक्षयोरपि, तथा सामान्यमपि भवनात्मकस्य पृथग्भावेन भवनाभावादसत्त्वात् प्रत्यक्षस्यापि विशेषस्यासत्त्वमिति भावः। सलिलधर्मनगरधर्मयोर्मगतृष्णिकासलिलगन्धर्वनगरयोरदर्शनात्तयोः स्यादसत्त्वमित्या. शङ्कते-अथोच्येतेति । पयोगताः शीतलत्वमृदुलत्वद्रवत्वादिधर्मा मृगतृष्णिकासलिले नास्तीति प्रदय गन्धर्वनगरे नगरस्य 20 विशेषाः प्रत्यक्षा जीवाजीवादिविशेषरूपा धर्मा न सन्तीति दर्शयति-गन्धर्वनगर इति । तस्मात्तयोरसत्त्वं भवतु नामेत्यर्थः । परन्तु विशेषे न विशेषा अभ्युपगन्तुं शक्या इत्याह-नावश्यमिति, घटादिर्विशेषो पृथिवीविशेषा ये अश्मसिकतादिभेदाः न तद्वान् भवितुं शक्नोति, विशेषस्य विशेषवत्त्वे सम्भवति सति हि विशेषेऽस्मिन् विशेषाभावादसन् विशेष इति वक्तुं युज्यतेति भावः । कुतो विशेषस्य विशेषा न सम्भवन्तीत्यत्राह-यदि स्युर्विशेष इति, विशेषस्य विशेषवत्त्वे तस्य विशेषत्वं स्वरूपमेव न स्यात्, विशेषवत्त्वस्य सामान्यत्वव्याप्तेः सामान्यतैव स्यात् सत् द्रव्यं पृथिव्यादि यथा विशेषवत्त्वात् 25 सामान्यं तद्वदिति भावः । अत्राऽऽचार्य उत्तरमाह-अपि चेति । वयमप्येवमेव ब्रमो यदि भवनेन विना विशेषो भवेत्तर्हि स निर्विशेषोऽन्वय एव स्यादितीति व्याचष्टे-अपि च वयमपीति । एतदेव समर्थयति-यदि तथेति । विशेष पव निःसामान्य इति । भवनं हि आकृतिलक्षणो विशेषः तेन विना यद्यन्वयः स्यात्, सोऽन्वयो विशेष एव निःसामान्यः स्यात् , नास्ति च तथाविधो विशेषः खपुष्पवदिति भावः । एवं निस्सामान्यविशेषाभावमुक्त्वा निर्विशेषसामान्याभावमाहनापीति, तथा भवनेन विशेषेण विना यो भवेत् तन्न सामान्यमेव विशेषरहितम् , तथाविधवस्तुनोऽभवनात् , न हि घटाव- 30 स्थानाद्यक्रियमाणं वस्तु भवितुमर्हतीति भावः । अन्वयेन विना विशेषो नास्तीत्यस्य विशेषेण विनाऽन्वयो नास्तीति वैधर्म्यनिदर्श
सि.क्ष. छा. डे. शीतादिरित्यादि। २ सि.क्ष. छा. डे. घटाघटादौ। ३ सि. क्ष. छा. डे. °शेषाणामश्म । सि.क्ष. डे. छा. शेषं सामा ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org