________________
१००४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे भावमात्रं सामान्यमर्थः, घटादिविशेषजातमपि तत्प्राधान्याद्विशेषस्य भावानुरोधात् सामान्योपसर्जनविशेषप्रधानप्रतिज्ञाहानिः, एवं तावद्धटो भाव इत्येतदयुक्तम् , स्यान्मतं घटस्य भावो विशेषस्य सम्बन्धिनः सम्बन्धषष्ट्या, यथा घटस्य विनष्टस्य कपालानि, अभावस्य भावहेतुत्वात् निरुद्धस्य, कपालानि हि घटनि
रोधहेतुकानि उत्पद्यन्ते, तदुपकारित्वात् , किमिव ? यथाङ्कुरस्य बीजं निवर्तमानमुपकारीति, एतच्च5 नाप्यस्य भावः कस्मात् ? ततश्चासत्त्वाविशेषात् खपुष्पवदेवाविशेषः, इति पूर्वोक्तवदाविर्भावादिभेदानुप
पत्तिविरोधादित्यनेनातीतं ग्रन्थमतिदिशति-यदेतदसत्त्वं नाम त्वया कचिन्मन्यते ततोऽन्यत् कार्यम् , तदसमर्थविकल्पत्वात् , घटपटवत् , विकल्पासामर्थ्य वाऽसत्कार्ययोरित्यादि यावत्स्ववचनादिविरोधोपसंहारेण विशेषविरोधोपयोगप्रसङ्गात् स्वरूपविरोध इति ।
आह10 ननु विशेषः प्रत्यक्षत एवोपलभ्यत इत्यत्रोच्यते दृश्यमानत्वेऽपि यथा दृश्यते तथा
तस्याभवनादसत्त्वं दृष्टं यथा मृगतृष्णिकासलिलगन्धर्वनगरादि, मृगतृष्णिकागन्धर्वनगरयोहि भवनस्य पृथग्भावेनाभवनात् सलिलनगरयोरसत्त्वं दृष्टं तथा सामान्योपसर्जनतायां विशेषस्य, अथोच्येत त्वया शीतादिजीवादिविशेषाभावात्तयोः स्यादसत्त्वम् , नावश्यं विशेषे
घटादौ पृथिवीविशेषैर्भाव्यम् , यदि स्युर्विशेषे विशेषा अविशेष एव स्याद्विशेषः सामान्यमेव 15 विशेषवत्त्वात् , सद्व्यत्वपृथिव्यादिसामान्यवदिति ।।
__ननु विशेष इत्यादि, सामान्योपसर्जनो विशेषः प्रत्यक्षत एवोपलभ्यते, तस्माद् दृष्टविरुद्धेयं कल्पनेत्यत्रोच्यते-दृश्यमानत्वेऽपीत्यादि, प्रत्यक्षव्यभिचारप्रदर्शनसाधनम् , यथा दृश्यते तथा तस्याभवनादसत्त्वं दृष्टम् , यथा मृगतृष्णिकेत्यादि दृष्टान्तः, तद्व्याख्या-मृगतृष्णिकागन्धर्वनगरयो_त्यादि, भवनस्य मर्थः सम्पन्न इति भावः । घटो न भावः, किन्तु घटाद्भिन्नः, घटस्य भाव इति सम्बन्धषष्ठ्या भेदावगमात्, तथा च 20 निरुद्ध घटे भावो भवति, यथा घटे निरुद्धे कपालानि भवन्ति, निरोधरूपोऽभावो हि भावस्य हेतुः, घटनिरोधात् कपाल
भवनात्, घटो हि भावस्योपकारिणः स्वयं निवर्तमानः, यथा बीजं निवर्तमानमङ्कुरस्योपकारि भवति, एवञ्च घटो न भाव इत्याशङ्कते-स्यान्मतमिति, न हि घटः वयं भावः, किन्तु घटस्य भावः, यथा घटस्य कपालानि, पूर्वभावनाशेनोत्तरभाव उत्पद्यत इति निरुद्धो घटः कपालहेतुः, यथा निवर्तमानं बीजमङ्करस्य तथा भावे घटो हेतुरिति भावः । नाभावो भावहेतुरिति समाधत्ते-नाप्यस्येति, अभावभूतघटसम्बन्धी भाव इत्यर्थः । तत्र हेतुमाह-ततश्चासत्त्वाविशेषादिति, 25 अभावो हि न सन् खपुष्पवत् तस्य भावः कथं स्यात् , असत आविर्भावादिविशेषस्यानुपपत्तेः पूर्वोक्तविध्यादिनयेषु सूपपादितत्वात् स एव ग्रन्थोऽत्रापि भाव्यः, तदेवाह-इति पूर्वोक्तवदिति । उक्तं प्रन्यं दर्शयति-यदेतदसत्त्वं नामेति, पूर्व विध्यादिनयेषूपपादितमेतत् , तत्रैव द्रष्टव्यम् । एवञ्च विशेषस्वरूपमेवापोदितं भवतीत्याह-स्ववचनादीति । ननु सामान्यो पसर्जनो विशेषः प्रत्यक्षत एवावगम्यते तस्मादसत्त्वाविशेषादविशेषत्वप्रसञ्जनं प्रत्यक्षविरुद्धमित्याशङ्कते-ननु विशेष इति । व्याकरोति-सामान्योपसर्जन इति, स्पष्टम् । युक्तं प्रत्यक्षतो दृश्यते विशेष इति परं यथा दृश्यते न तथा तस्य भवन30 मतोऽसन्नित्युत्तरयति-प्रत्यक्षेति, प्रत्यक्षतो यथा दृश्यते तद्व्यभिचारेणाभ्युपगम्यत इत्यसन्निति भावः। दृष्टान्तमाह
मृगतृष्णिकेति, मृगतृष्णिकागन्धर्वनगराभ्यां व्यतिरिक्कयोस्सलिलनगरयोरभावात् केवलं तयोरेव दर्शनातू तावेव भावौ न तु तयोः पृथग्भावेन भवनं दृश्यतेऽतस्तयोरसत्त्वमेवं सामान्योपसर्जनविशेषत्वे सामान्यस्य सत्त्वात्ततः पृथग्भावेनाभवनात् सलिलनगर
womam
१ सि.क्ष. इत्यतयुक्तम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org