________________
१००३
भवनाहते घटाद्यनुपपत्तिकथनम्] द्वादशारनयचक्रम् विशेषस्वरूपप्रत्यपेक्षायां पूर्व भवनमस्वतन्त्रं पृथर वा वृत्ति स्यात्ततो निर्मूलत्वादसन् घटः खपुष्पवत् ।
अत उक्तन्यायादित्यादि, अतीतविध्यादिद्रव्यार्थिकनयेष्वेकसर्वगतनित्यकारणवस्तुमात्रविजुम्भितं स्तिमितसरस्तरङ्गादिवत् त्रिभुवनं भिन्नाभिमतमप्यभिन्नमेव, द्रव्याश्रितत्वा दानाम् , अवस्थादिसंज्ञानां पुरुषादिवादेषु प्रतिपादितत्वात् , द्रव्यस्य पर्यायानाश्रितत्वाच्च, पर्यायप्रवृत्तेरित्यादि, इति सर्वथैव । भवनविध्यनुपपत्तिः, एवं पूर्वातीतद्रव्यनयप्रदर्शनेन, विशेषस्वरूपेत्यादि, तस्यापि च विशेषस्य स्वरूपं प्रत्यपेक्ष्यमाणं अन्वयसामर्थ्याहते न लभ्यते, तद्यथा [स्वं] रूपयति पालयति, कार्यस्यात्मनोऽवस्थादेः स्वरूपमिति कारणं भवनमन्वयः स्खेनैव महिम्ना पृथग्वर्तते भेदादृतेऽपि यथोपवर्णितमनेकधाऽतीतनयेषु, तद्यदि पूर्व भवनमस्वतंत्रं पृथग्या वृत्ति यथा त्वयैवेष्टं स्यात् ततः किं ? ततो निर्मूलत्वादसन् घटः खपुष्पवत् ।
स्यान्मतं किं घटस्य मूलेन भवनेन ? किं न स्वयमेव भवति ? इत्येतच्च
नापि स घटः स्वयमेव भावः, विशेषप्रधानपक्षहानेः, नाप्यस्य भावः असत्त्वाविशेषात् खपुष्पवदेवेति पूर्वोक्ताविर्भावादिभेदानुपपत्तिविरोधात् ।
(नापीति) नापि स घटः स्वयमेव भावः, कस्मात् ? विशेषप्रधानपक्षहाने:-यदि विशेष एव भावस्ततो घट' एव विशेषः स एव भावो भवनं तेन भूयतेऽन्वयेन भावेनेत्यतः तथाभावत्वाद्धटस्यापि .
__10
व्याचष्टे-अतीतविध्यादीति एक सर्वगतं नित्यं कारणं यद्वस्तु तन्मात्रविजृम्भितं भिन्नात्मकमपि त्रिभुवनम्, तदेव 15 वस्तु आकारनानात्वोन्नीयमानस्वरूपभेदं चकास्ति, तद्व्यतिरिक्तस्यान्यस्याभावात् , अतोऽभिन्नमेव, घटपटादिप्रतिनियतव्यवहारप्रतिपाद्या घटादयो भेदाः सर्वगतस्य वस्तुनः प्रदेशा एव, न ततोऽतिरिक्ता इति भेदा द्रव्याश्रिता द्रव्याभिन्ना इति भावः । तच्च न पर्यायाश्रितं किन्तु पर्याया एव द्रव्याश्रिताः, एवमपि पर्याया न भवन्ति, यदि हि भवन्ति तर्हि भवनाश्रयः पर्यायः स्य आत्, भवनञ्च द्रव्यं तत्कथं पर्यायानितं भवेत् , तस्मात् सर्वथा पर्यायाणां भवनविधेरनुपपत्तिरित्याह-द्रव्यस्य पर्यायानाश्रितत्वाच्चेति । तर्हि किं विशेषस्य स्वरूपम् ?, अन्वय एवेत्याह-तस्यापि च विशेषस्येति, अन्वयसामर्थ्या- 20 देव विशेषस्य स्वरूपं लभ्यते, अन्वयो हि स्वतोऽव्यपदेश्यं किन्तु तत्सम्बन्धित्वेन प्रतीयमानविशेषव्यपदेश्यम् , अत एव विशेषः परतंत्रः, अन्वयसामर्थ्यादात्मलाभात् , एवञ्च विशेषस्य स्वकार्यस्य स्वावस्थाया वा परिपालनादन्वय एव विशे तदेव कारणं भवनं द्रव्यमित्युच्यते, स चान्वयः स्वतंत्रः, तस्मात् स्वमहिम्नैव भेदमन्तरेणापि पृथक् शक्नोति वर्तितुमिति द्रव्याश्रितत्वं भेदानामिति भावः । भेदा घटादयः परमार्थतः पृथक् सन्तः, तत्र भवनान्वय औपचारिक इति भेदाश्रितं . द्रव्यं न स्वतंत्रं न वा पृथग् वृत्तीति त्वदभ्युपगतं यदि स्यात्तर्हि भेदा मूलरहिता भवेयुः, अतो निर्मूलत्वात् खपुष्पादिव-25 दसन्तो भेदाः स्युरित्याह-तद्यदीति, एवञ्च भवनमेव भेदानां मूलमेषितव्यमिति भावः । ननु घटादिमूलं भवनं विना किं स्वयमेव न भवतीत्यत्राह-नापि स इति । यदि घटः स्वयमेव भावः स्यात्तर्हि विशेषं प्रधानं न स्यात्, तथा च सामान्योपसर्जनविशेषप्रधानपक्षः परित्यक्तः स्यादित्याह-नापि स घट इति विशेषो यदि स्वयमेव भवति, घट एव भावो भवनमुच्यते, घटेनान्वयेन भावेन भूयत इति घट एव भावो जातः, भावश्च सामान्यमानं तदेव प्रधानमतो घटोपसर्जनभावप्रधानता प्राप्तेति सामान्योपसर्जनविशेषप्रधानप्रतिज्ञा त्यक्ता भवेत्, विशेषोपसर्जनसामान्यप्रधानताप्राप्तेः, एवञ्च घटः 30 खयमेव भाव इत्यनुपपन्न इति भावः । तेन भूयत इति-घटो भावो भवतीत्यर्थः, तथा भावत्वात्-घटस्य भावेन भवनात् घटादिविशेषजातस्य भावमात्रं सामान्यमर्थः स्यात् , भावस्यैव प्राधान्यात. विशेषो हि भावमनुरुणद्धि. 3
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org