________________
१००२ न्यायागमानुसारिणीव्याख्यासमेतम्
[नियमभङ्गारे मानत्वात् , अजातघटवदित्यसत्त्वापत्तिः, अनिष्टा च सेति न भावो भवति नाभावो भवत्युभयं पृथिवी घटश्वेति, भेदेष्वित्यादि, स्यान्मतं भेदेषु-घटादिष्वेव पृथक् सत्सु परमार्थतो योऽसौ भवति भवतीति भवनाऽन्वयः स औपचारिक इत्यत्रोच्यते-ननु त्वयेत्यादि, ननु त्वयैव स्वद्रव्ये पृथिव्यादाविति स्वात्मन्ये, ततश्च तस्य पृथिव्यादिद्रव्यस्यावस्थामात्रं घटादिभेदा इति, घटादिभेदा एवौपचारिकाः पृथिव्यादिसामान्यमेव तत्त्व5 मित्युक्तं भवतीति, किमिवेत्यत आह-यथाङ्गुलिरित्यादि, यथाऽङ्गुलिर्वक्रीभवतीत्युक्तेऽङ्गुलेरवस्था वक्रता,
अङ्गुलेः सामान्यस्य भेदोऽवस्थामात्रमित्यौपचारिकत्वं वक्रताया नाङ्गुलेः, यस्मान्न वक्रत्वमङ्गुलिर्भवति, वक्रत्वस्यावस्थात्वादङ्गुलेरङ्गुलिरेव वक्रीभवति, न वक्रतैवाङ्गुलीभवति, कस्मात् पुनर्न वक्रत्वमङ्गुलीभवति ? उच्यतेअनुत्पन्नत्वात् , खपुष्पवत्, एवं तावदयुगपद्भाविकालभिन्नाभिमतपर्यायेषु द्रव्यमानत्वमुक्तम् ।
युगपद्भाविदेशभिन्नाभिमतपर्यायेष्वपि10 भेदत्वाच्च रूपवत् , यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वाद्रूपं रसो गन्ध इत्यादि भेदेनोच्यते, विज्ञानमात्रस्य तत्र भेदत्वाद्वस्तुनोऽभिन्नत्वादेवं पृथिव्यादिसामान्यभेदाः ।
(भेदत्वाचेति) भेदत्वाच रूपवत् , तदवस्थामात्रमिति वर्तते, यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वात् रूपं रसो गन्ध इत्यादि भेदेनोच्यते अङ्गुलिर्वा, विज्ञानमात्रस्य तत्र भेदत्वाद्वस्तुनो घट
स्याभिन्नत्वात् , एवं पृथिव्यादिसामान्यभेदाः घटादयोऽश्मसिकतादय[श्च]विज्ञानमात्रेणेति । 15 किञ्चान्यत्
अत उक्तन्यायात् द्रव्यस्य पर्यायानाश्रितत्वाच्च पर्यायप्रवृत्तेः सर्वथाऽनुपपत्तिः, एवं देवासद्भवेत् , न चेष्टापत्तिः, अन्वयस्य भावत्वेष्टेः, एवञ्च भावो न भवति नाप्यभावो भवति, पृथिव्यपि न भवति, घटोऽपि न भवतीति भावः । ननु भेदा एव परस्परासंसृष्टाः परमार्थतो विद्यन्ते, तेष्वयं भवति, अयमपि भवतीति योऽयं
भवनान्वयः स औपचारिकः, न तु वस्तुभूतः कश्चिद्भावः, तस्माद्भेदो भाव एवेति शङ्कते-स्यान्मतमिति, घटादिषु 20 स्वातन्त्र्येण पृथक् विद्यमानेषु भवत्ययं भवत्ययमिति खानुरक्तभवितृप्रत्ययोपकारित्वेन सामान्यमुपचरितं न परमार्थसदिति भावः ।
समाधत्ते-ननु त्वयैवेति द्रव्यपृथिवीमृदादयो भेदाः सदादिरूपा एव, सदेव हि द्रव्यं भवति, द्रव्यमेव पृथिवी भवति एकभवनात्मकत्वाद्धटादीनाम् , भेदानां सद्रव्यपृथिवीमृदात्मकत्वाच्च खद्रव्ये पृथिव्यादौ स्वात्मन्येव भेदाभ्युपगमाद्धटादिभेदा उपचरिता एव, पृथिव्यादय एव तत्त्वं पृथिव्यादीनामेव घटादेरवस्थामात्रत्वादित्युक्तं भवतीति भावः । निदर्शनमाहयथाऽङ्गलिरिति, अङ्गुलेरवस्था वक्रता, सा चावस्थाऽऽगमापायित्वाद्बाधिता न तत्त्वभूता, सामान्यमङ्गुलिरेव तत्त्वं भेदस्तु 25 औपचारिकः, न हि वक्रत्वमङ्गुलीभवति, अङ्गुलेरनुत्पन्नत्वात् , खपुष्पवदिति भावः । एवमयुगपद्भाविषु कालभेदेन भिन्नेषु
पर्यायेषु द्रव्यमानं तत्त्वं पर्यायास्तु द्रव्यस्यावस्था औपचारिका इत्युपपादितमित्याह-एवं तावदिति । अथ युगपद्भाविपर्यायाणामप्यौपचारिकत्वमाह-भेदत्वाञ्चति । भेदा युगपद्धाविनः पर्याया भेदत्वादेव रूपादिवद्व्यस्यावस्थामात्र, चक्षुरिन्द्रियजन्यज्ञान विषयतां गतो घटादिरेव हि रूपमित्यपदिश्यते, रसनग्राह्यतां गतं गुडादिद्रव्यमेव रस इत्युच्यते घ्राणग्राह्यतां गतं कुसुमादिद्रव्यमेव गंध इत्युच्यते, तस्मात् विज्ञानमात्रस्यैव वस्तुतो भेदाद्घटादिद्रव्यमेव तत्त्वं रूपादयस्त्वौपचारिका इत्या30 शयेनाह-यथा घट एवेति । एवं पृथिव्यादिसामान्यमेव तत्त्वं घटादयस्तु विज्ञानमात्रभेदप्रयुक्तौपचारिका इत्याह-एवं
पृथिव्यादीति । विज्ञानमात्रेणेति, घटादयस्तु केवलं विज्ञानेनैव भिन्ना इति भावः । पूर्वोक्तविध्यादिनयेषु त्रिभुवन मिदं एकसर्वगतनित्यकारणभूतवस्तुमात्रविजम्भितम् , भेदा न सन्त्येव परमार्थतः पृथगिति प्रतिपादितमित्याह-अत उक्तन्यायादिति ।
सि.क्ष. डे. छा. भवति न भावो भ०। २ सि.क्ष. छा. डे. नन्वन्वयेत्यादि। ३ सि.क्ष. दितिध्विति । १ सि.क्ष. न्येन । ५ सि. क्ष. भेदवस्था० । ६ सि. क्ष. त्वयुक्तम् ।
wwwwwww
mmmmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org