________________
भेदस्यौपचारिकत्वापादनम्] द्वादशारनयचक्रम्
१००१ पृथिव्यादेरन्वयित्वं प्रवृत्तर्भवति, सत्त्वात् , ततश्चोपसर्जनत्वं सामान्यस्य नास्ति, स्वतत्त्वव्यापित्वात् भावत्वात् , प्रवर्त्तमानत्वात् भेदवत्, इत्थमप्युपसर्जनत्वनिवृत्तिः, उभयस्मिंस्त्विति, सामान्ये-पृथिव्यां भेदे च घटे द्वयेऽप्यसति भावेऽन्वये भवितरि च विशेषे स यद्यभाव एव भेदोऽप्यनुभूयते-भेदेन स भेद इतीष्यते तेनैव भेदेन न भूयेत, अभावत्वात् , अभावत्वमभवनक्रियात्मकत्वात् , खपुष्पवत् , न ह्यभावो भावो भवतीति दृष्टान्तार्थप्रदर्शनात् ।
अथ भाव एवासौ भेद इष्यते ततो भावाव्यतिरेकाद्भूतत्वादुभयथापि न पुनर्भूयेत , भूतघटादिवत् आकाशादिवत् , वैयोत् , न हि भूत एव भवति, तथासत्यसत्त्वापत्तः, यदि भूतमेव भवेत्ततस्तदसत् स्यात् , उत्पद्यमानत्वादजातघटवदित्यनिष्टा च सा भेदेषु पृथक् सत्सु भवनाऽन्वय औपचारिक इत्यत्रोच्यते ननु त्वयैव खद्रव्ये पृथिव्यादौ घटादिभेदं ब्रुवता तस्यावस्थामात्रं घटादिभेदा इत्युक्तं भवति, यथाऽङ्गुलिर्वक्रीभवतीत्युक्ते औपचारिकत्वं 10 वक्रतायाः नाङ्गुले, न हि वक्रत्वमङ्गुलिर्भवति, अनुत्पन्नत्वात् खपुष्पवदिति।।
(अथेति) अथ भाव एव-मा भूदेष दोष इति अन्धयस्वभाव एवासौ भेदो भाव एवेष्यते ततो भावाव्यतिरेकात्-भावात्मकत्वात् अन्वयात्मकत्वात् भूतत्वादुभयथापि-प्रधानोपसर्जनत्वाभ्यां पृथिवीघटत्वाभ्यां न पुनर्भूत, भूतत्वाद्भूतघटादिवत् आकाशादिवत्, वैयर्थ्यात् , तद्दर्शयति-न हि भूत एव भवतीति, कस्मात् ? तथा सत्य] सत्त्वापत्तेः यदि भूतमेव भवेत्-उत्पन्नमेवोत्पद्येत ततस्तदसत् स्यादुत्पद्य- 15
nwww
ततश्चेति पृथिवी भवतीति भवतीत्यभ्युपगमादित्यर्थः, उपकार्यस्य यदुपकारि तदुपसर्जनं भवति, भवितुर्भेदस्योपकार्यस्य सामान्यमुपकारि चेत्स्यादुपसर्जनम् , यदा तु भेदवत्तदपि भवति ततः प्रधानमेव तत् भवितृत्वात् भेदवदतोऽनुपसर्जनं स्यादिति भावः । तदेवं विशेषस्यैव भवनक्रियावत्त्वे सामान्यस्याभावादनुपसर्जनत्वम् , सामान्यस्यापि भवनाश्रयत्वे प्रधानत्वादनुपसर्जनत्वमित्युभयथाऽप्यनुपसर्जनता स्यादित्याह-उत्थमपीति पृथिव्यादेर्भावत्वेऽपीत्यर्थः। एवं सामान्ये भावत्वस्य भेदे च भवितृत्वस्यासत्त्वे यद्यभाव एव भेदः तर्हि अभावेन भेदेन न भूयेत-अभावो भेदो भवतीति न स्यादित्याह-उभयस्मिस्त्वितीति, सामान्ये भेदे चेत्यर्थः, असति-भावे 20 भवितरि चासतीत्यर्थः । यद्यभाव एवेति, अभावखभाव एव यदि भेदोऽनुभूयत इत्यर्थः । तेनैवेति सामान्येनैव भेदेन न भूयेतसामान्य भेदो न भवतीत्यर्थः। हेतुमाह-अभावत्वादिति, भावत्वाभावात्-भवनक्रियात्मकत्वाभावादित्यर्थः। तदेव दर्शयति-न हीति । एतद्दोषवारणाय भेदस्य भावत्वमभ्युपगम्यत इत्याशङ्कते-अथ भाव एवेति । व्याचष्टे-मा भूदेष इति । यदि भेदो भावो भवनात्मकस्तर्हि नासौ भविता किन्तु भूत एव, अन्वयवत्-सामान्यवदित्याह-अन्वयस्वभाव एवेति, भेदोऽन्वयस्वभाव एव, अत एव भावो भवनक्रियात्मक इतीष्यत इत्यर्थः । भवनं हि न भवितृ किन्तु भूतमतो भेदोऽपि भूत एव स्यादित्याह-ततो भावाव्यतिरेकादिति भावाभिन्नत्वात्-भावत्वात् भावो हि अन्वय एव, अत एव भूत इति भावः । उभयथापीति, यद्यभाव एव, अन्वयस्य भाव एवासौ मेदो भाव एवोभयथापि पृथिवीघटौ न भवेताम् प्रधानभावेनोपसर्जनभावेन वा, भूतत्वात् , उत्पन्नघटवत्, न ह्युत्पन्नस्य पुनरुत्पत्तिरनवस्थानात्, अर्थक्रियानुपपत्तेश्चेति भावः । उत्पन्नेन कुतो न पुनर्भूयत इत्यत्राह-वैयादिति, स्वरूपलाभाय हि उत्पत्तिरपेक्ष्या, यदा तु स्वरूपं प्रागेव लब्धं तदा पुनरुत्पत्तिरकिञ्चित्करी, न हि कस्यापि भूतस्य पुनर्भवनं दृष्टं युक्तं वेति भावः । कुतोऽयुक्ततेत्यत्राह-तथासत्यसत्त्वापत्तेरिति । तां प्रकाशयति-यदि 30 भूतमेवेति, यथाऽजातो घटो यदि भवेदुत्पत्तिकालावच्छिन्नत्वादसन्नेव तदानीम्, न तु भूतः, एवं भूतमप्युत्पद्यमानत्वा
१ सि. क्ष. छा. डे. भावेस्त्वयो भ० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org