________________
१०००
न्यायागमानुसारिणीव्याख्यासमेप्तम् [नियमभङ्गारे प्रधानः शब्दार्थ इत्येतद्वाक्यं निराकृतधर्मधर्मिस्वरूपकं संवृत्तम् , तदुपसंहृत्य साधनमाह-घटादिभेदाभावो भेत्तव्याभावात् , गगनोदुम्बरकुसुमवदिति, उभयोर्भेत्तृभेत्तव्ययोरभावे न गगनकुसुमादुदुम्बरकुसुम[मु]दुम्बरकुसुमाद्वा गगनकुसुमं भेत्तृ भेत्तव्यं वेति दृष्टान्तः, तथोपसर्जनप्रधानयोः-सामान्यभेदयोरिति दार्टान्तिकोऽर्थः, ततश्चात्यन्तेत्यादि, इत्थं निरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचनाभ्युपगमानुमानप्रत्यक्षविरोधा 5 अपि प्राप्ताः, ते चानिष्टा इति ।
किश्चान्यत्
पृथिवी घटो भवतीत्यत्र निर्धार्य किं पृथिवी भवति ? उत घटो भवति ? उभयं वा भवति ? न भवति वेति, तत्र यदि विशेष एव, नास्त्येवेतीदानीमेवोक्तत्वात् कुतः सामान्यस्य
प्रधानोपकारिता, अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात् ततश्चोपसर्जनत्वं सामान्यस्य 10 नास्ति, स्वतत्त्वव्यापित्वात् , भावत्वात् , प्रवतमानत्वाच्च भेदवत् , उभयस्मिंस्त्वसति भावे
भवितरि च यद्यभाव एव भेदोऽप्यनुभूयते, तेनैव भेदेन न भूयेत, अभावत्वात् खपुष्पवत् , न ह्यभावो भावो भवति ।
(पृथिवीति) पृथिवी घटो भवतीत्यत्र निर्धार्य किं पृथिवी भवति न घटः ? उत घटो भवति न पृथिवी ? उभयं वा भवति ? न भवति[वा]इति, तत्र यदि विशेष एवेत्यादि, सामान्यस्योपसर्जनस्याभावे 15 'विशेष एवेति नास्त्येवेतीदानीमेवोक्तत्वात् , असति च घटे विशेषे कुतः सामान्यस्यासतोऽसत्प्रधानोपकारितेति, अथेत्यादि, अथ मा भूत् पृथिव्यादिसामान्योपसर्जनत्वे द्वयोरपि सामान्यविशेषयोरभावदोष इति च साधनमाह-घटादिभेदेति, घटादीनां भेदानामभावः साध्यः, भेत्तव्याभावादिति हेतुः, गगनोदुम्बरकुसुमवदिति निदर्शनम् । दृष्टान्त घटयति-उभयोरिति, मेत्तुर्भेदस्य मेत्तव्यस्य भावस्याभावे यथा गगनकुसुमात् उदुम्बरकुसुमं भेत्तृ न भवति यथा वोदुम्बरकुसुमाद्गगनकुसुमं भेत्तव्यं न भवति तथोपसर्जनप्रधानयोर्न भेत्तृभत्तव्यभाव इति भावः। एवञ्चोभयोनिरुपाख्यत्वात् शून्यतापत्तौ 20 खसामान्यलक्षणवचनाभ्युपगमादिविरोधा अप्यनिष्टा भवेयुरित्याह-इत्थमिति। ननु सामान्यविशेषयोरुभयोः प्रधानताया उपसर्जनताया विशेषोपसर्जनसामान्यप्रधानताया वाऽसम्भवात् सामान्योपसर्जनविशेषप्रधानता त्वयाऽभ्युपगम्यते तत्र यो भवति
स भवनोपसर्जनः प्रधान मिष्टः प्रकृत्यर्थोपसर्जनप्रत्ययार्थप्रधानत्वात् , तथा च पृथिवी घटो भवति, पृथिवीप्रकृत्या घटस्य मेदस्य भवनमुच्यते तत्र विचार्यते-पृथिवी घट इति । व्याचष्टे-पृथिवीति भवनक्रियाश्रयः किं पृथिवी, किं घटः किं वोभयम् , उतोभयं न भवतीति विकल्पेषु को विकल्पस्त्वयाऽभ्युपेयते तद्वक्तव्यमित्यर्थः । यदि विशेष 25 एव भवतीत्युच्यते तदाऽऽह-तत्र यदीति, एवेत्यवधारणेन सामान्यं न भवतीति गम्यते, तथा चाभवनात् सामान्यमसत् प्राप्तं तदभावे च मेत्तव्याभावेन मेदोऽपि न भवेदित्युक्तमेवेति भावः । एवं विशेषस्यापि घटस्यासत्त्वापत्तावसत् सामान्य प्रधानस्यासतः कुत उपकारि स्यादित्याह-असति च घट इति । अथ पृथिव्यादेः सामान्यस्योपसर्जनत्वेन घट एव भवनक्रियामनुभवति न पृथिव्यादीत्यभ्युपगमे सामान्यविशेषयोरभावः प्रसज्यते तद्वारणाय पृथिव्यादिसामान्यं भवति प्रवर्तते इत्युच्यत इत्याशङ्कते-अथ मा भूदिति । तथा सति यथा विशेषो घटः कर्ता, तेन का भवित्रा भूयते स भवतीति भवति, 30 एवं पृथिव्यादिसामान्यमपि कर्त, तेन का भवित्रा भूयते तद् भवतीति भवति, तथा च घटादिवत् पृथिव्याद्यपि प्रधानमेव स्यात्,
नोपसर्जनम् , विशेषभवनमेव भावभवनमिति न स्यात् किन्तु सामान्यभवनमपि भावभवनं स्यात् , तस्मात् भेदवत् सामान्यमपि भावः, स्वस्य यत्तत्त्वं भावत्वं तद्व्यापित्वात् , भवितृत्वं हि भावत्वं तच्च सामान्यविशेषयोापीति नोपसर्जनं सामान्यमित्याह
१ सि. छा. डा.क्ष. 'भावो न गगन । २ सि.क्ष. छा. डे. विशेषणो वेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org