________________
नवमो नियमभङ्गारः
विधिनियम सर्वभङ्गवृत्त्यात्मकैकत्वाधिकारे वर्तमाने उभयनियमभङ्गारदर्शनेऽप्यपरितुष्यत उत्तरनयस्य नियमभङ्गस्योत्थानम्, तस्मिंस्तु दूषिते स्वमतप्रदर्शनं युक्तमिति तदूपणार्थमाह
wwwwwwwww
यदि भेदप्रधानो भावः कथमसौ भावो भवितुर्भेदस्य क्रियाभेदातिरेकेण स्वरूपमपि प्राप्तुं समर्थः ? अस्वतंत्रत्वादभवितृत्वादसन् खपुष्पवत्, ततश्च भेत्तव्यस्याभावाद्भेदा अपि न भवितुमर्हन्ति खपुष्पवदिति धर्मधर्मिस्वरूपविरोधः घटादिभेदाभावः, भेत्तव्याभावाद्गगनोदुम्बर कुसुमवत्, यथा गगनकुसुमादुदुम्बर कुसुममुदुम्बर कुसुमाद्वा गगनकुसुमं भेत्तृ भेत्तव्यं वा न तथोपसर्जनप्रधानयोः, ततश्चात्यन्तनिरुपाख्यत्याच्छून्यत्वापत्तौ स्ववचनादिविरोधा अपि ।
"
यदि भेदप्रधानो भाव इत्यादि, यावद्धर्मधर्मिस्वरूपविरोधः, यद्भेदो भवति प्राधान्येनान्वयोऽस्योपसर्जनमित्युक्तं तत्र तमेवंविधं भावमवधारयामः, कथमसाविति, स त्वैयेष्टोऽन्वयो भावो भवितु[:] 10 भेदस्य क्रियाभेदातिरेकेण- भवितारं कर्त्तारमन्तरेण स्वरूपमपि प्राप्तुमसमर्थो निश्चयः कस्मात् ? अस्वतंत्रत्वात्-अकर्तृत्वाद्भविता, अभवितृत्वादसन् खपुष्पवत्, तस्यान्वयस्य- भावस्याभावे भेदा एव विप्रकीर्णाभेद्यवस्तुरहिताः स्युः, ततश्च भेत्तव्यस्यान्वयस्याभावाद्भेदा अपि न भवितुमर्हन्ति, [अ] विद्यमानो हि भेदः कुतो भिद्यते ? असौ निर्भेद्यत्वात् खपुष्पवदिति भेदाभावाद्धर्मधर्मिणोः स्वरूपाभावेऽन्ययोपसर्जनो भेद
पूर्वोदितस्य नयस्य भेदमात्रप्राधान्यादन्वयाभावप्रसङ्गः उपसर्जनत्वात्, एवं तदभावे भेदोऽपि न स्यात्, गगनोदुम्बर कुसुमवत्, 16 सामान्यविशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां त्यागादग्नीन्धनवत्तत्त्वान्यत्वोभयसत्ताऽवक्तव्यता श्रेयसीति नियमनयं वर्णयितुम्, अथवा विधिनियम योर्यावद्भङ्गात्मकैकवृत्तिलक्षणसम्यक्त्वाधिकारे वर्त्तमाने पूर्वोदितोभयनियमभङ्गारेऽपि विकलात्मकत्वादपरितोषान्नियमविकल्पचतुष्टयभेदान्तर्गतनियमभङ्ग मतप्रदर्शनाय पूर्वनयं दूषयितुमुपक्रमतइत्याह - विधिनियमेति । पूर्वमतेऽन्वयोपसर्जनभेदप्रधानता व्यवस्थापिता, तद्दृषयति-यदि भेदप्रधान इति । भेदः प्रधानभावेन भवति, अस्य चोपसर्जनमन्वय इति यदुक्तं भवता तथाविधो भावः - अन्वयः सम्भवति न वेति विचारयाम 20 इत्याह-यद्भेदो भवतीति । भवत् प्रधानं कर्तृसाधनं भाव उपसर्जनम्, भवति हि विशेषः, यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्त्तते, घटाख्यो विशेषो हि जलधारणादिभवनेषु वर्त्तमानः परमार्थो भवति, घटः कर्त्ता, तेन कर्त्रा भवित्रा भूयते स एव भवतीति भवति, न तु भवनेन कर्त्रा भूयते, न भवनं घटो भवति, उपसर्जनत्वात्, न हि भवनं कर्तृ भवितुं शक्नोतीति त्वयोक्तमिति भावः । तत्प्रतिषेधमाह - स त्वयेष्ट इति, भवनरूपो भावो यदि भविता न स्यात् तर्हि सः स्वस्वरूपमेव न लभेत निश्चयस्तु दूरे, भवनरूपो भावो 25 हि भवितृत्वं नानुभवति, द्रव्यत्वापत्तेरितीष्टं भवताम्, तथा च सोऽस्वतन्त्रः, स्वतंत्रो हि कर्त्ता, अकर्तृत्वाच्चासौ न भवति, अभवितृत्वात्तु खपुष्पवदसावसन्नेव स्यादिति भावः । एवमन्वयात्मनो भावस्याभावे केवलं भेदाः परस्परासंसृष्टा भवेयुः, सम्बन्धकभेद्यवस्तुरहितत्वादित्याह - तस्यान्वयस्येति । एवं सति भेदा अपि न भवेयुर्मेत्तव्या भावात् यस्यासौ मेदस्तस्याभावे मेदोऽपि कथं स्यात् तस्माद्भेदस्य मेत्तव्यस्य चाभावे को धर्मः को वा धर्मीति धर्मधर्मिणोः खरूपस्यैवाभावादन्वय उपसर्जनं भेदः प्रधानं तथाविधश्च शब्दार्थ इत्येवं वचनमसङ्गतार्थमेव, निराकृतधर्मधर्मिस्वरूपत्वादित्याह - ततश्च भेत्तव्यस्येति । तथा 30 १ सि. क्ष. छा. डे. त्वयोष्टोत्वयो० । द्वा० न० १ (१२६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org