Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 177
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमविधिनयारे www. ( त्वयेति ) त्वया विशेषस्यैकत्वादिवाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यत्वप्रतिपादनस्य कृतत्वात् तस्यापि विशेषस्यावाच्यत्वे वस्तुनश्चावक्तव्य सामान्यस्यावाच्यत्वेऽवक्तव्यसामान्येन विशेषो न वाच्यो विशेषेण सामान्यमवाच्यम्, तयोश्चावचनीययोः परस्परमवचनीयत्वम्, ततः किं ? ततश्चोभयतोऽप्यवचनीयमवचनीयं सदवचनीयं सामान्यमिति द्विः प्रतिषेधस्य प्रकृत्या पत्तेर्वचनीयं प्रसक्तम्, तथा विशेषोऽपीति D वचनीयत्वमेव स्यात्, द्वयोरपीति, एवं तावत् विशेषाव्यतिरिक्तत्वादवक्तव्यं वक्तव्यमेवमित्युक्तम् । www.www.ww wwwww www 10 १०५४ अथ विशेषव्यतिरिक्तं वस्त्विष्यतेऽवक्तव्यत्वादेव, नन्वेवं तस्य भावत्वे वक्तव्यतैव, अभावत्वेऽप्यसदिति वक्तव्यतैव, तथा त्वदुक्तवदप्यवस्तुता, अभूतावक्तव्यत्वात्, खपुष्पवत्, भावपक्षेऽप्यभूतावक्तव्यत्वात् प्रधानादिवत्तदवस्तु, यथा च तद्विशेषव्यतिरिक्तमिष्यते तथा विशेषोऽपि वस्तुनो व्यतिरिक्तः, एवश्च तदेवासत्त्वमनयोः, त्वदिष्टं वस्त्वसत्, अविशेषत्वात्, खपुष्पवत्, विशेषोऽप्यसत्, वस्तुव्यतिरिक्तत्वात् खपुष्पवत्, तथा च सामान्यविशेषयोरेकत्वान्यत्वादिवि कल्पप्रपञ्चनमाकाशरोमन्थनवत् परिक्लेशमात्रफलम्, अयथार्थत्वात् । " wwww अथ विशेषव्यतिरिक्तमित्यादि, अथ मा भूवन्नमी दोषा इति वस्तुनो विशेषाद् व्यतिरिक्तमिष्यत इति, अत्रापि पूर्वं प्रश्नोत्थाने चोद्योपक्रमे विशेषव्यतिरिक्तकारणमाह - [ अ ] वक्तव्यत्वादितियस्मात् सामान्यविशेषैकत्वादिविशेषैर्वक्तव्यैरवक्तव्योऽर्थो भिन्नलक्षणस्तस्मादवक्तव्यत्वादेव स्वलक्षणाद्भिन्नं 15 व्यतिरिक्तं विशेषाद्वस्त्वित्युपपत्तिः, इयमेव भावैकत्वोभयान्यत्वयोः पूर्ववद्व्यतिरिक्तत्वे योज्योपपत्तिः, अस्मिन्नपि पक्षे नन्वेवं तस्य विशेषव्यतिरिक्तत्वात् द्वयी गतिः, [ भावो वा ] अत्यन्ताभावो वा नान्यास्ति, www ww wwwwwwww मेकत्वप्रतिषेधे चान्यत्वमभ्युपगतं भवति, अन्यथा प्रतिषेधासम्भवादित्याशयेन व्याकरोति-त्वयेति । ननु तदानीमपि विशेषस्यावचनीयत्वमेवाभ्युपगम्यत इति चेदाह - तस्यापि विशेषस्येति, प्रतिषेधप्राकालीनस्य विशेषस्यापीत्यर्थः सोऽपि विशेषो यद्यवाच्यस्तर्हि वस्त्वप्यवक्तव्यसामान्यमवाच्यमिति सामान्यविशेषयोरुभयोरप्यवाच्यत्वात्, यदवचनीयं सामान्यं तद्विशेषेणावा20 च्यत्वादवचनीयम्, अवचनीयो विशेषोऽपि सामान्येनावाच्यत्वादवचनीयमित्यवचनीययोर्द्वयोरप्यवचनीयत्वोक्तत्या द्विः प्रतिषेधस्य प्रकृत्यापत्तेर्वचनीयत्वमेव प्रसज्यत इति भावः । परस्परमवचनीयत्वमाह-अवक्तव्य सामान्येनेति । उभयतोऽप्यवचनीयत्वे को दोष इत्यत्र सामान्याश्रयेण दोषमाह - अवचनीयं सदिति । विशेषाश्रयेणाप्याह तथा विशेषोऽपीति, अवचनीयो विशेषोऽवचनीय इति वचनीय एव प्रसक्त इत्यर्थः । इत्थमवक्तव्यं वस्तु विशेषादव्यतिरिक्तत्वाद्वक्तव्यमेवेति सम्प्रति द्वितीयं विकल्प मवक्तव्यं वस्तु विशेषाद्वयतिरिक्तमित्येवंविधमुत्थापयति-अथ विशेषेति । व्याचष्टे - अथ मा भूवन्निति । ननु सामान्यविशे25 षैकत्वान्यत्वादिनिराकरणेनावक्तव्यं जात्यन्तरं वस्तु नियमितमिति व्यतिरिक्ताव्यतिरिक्तत्वादि प्रश्नोत्थानं कुत इत्यत्राह - अत्रापीति, सामान्यविशेषैकत्वादिविशेषैर्वक्तव्यरूपैरवक्तव्यत्वादेव वस्तु स्खलक्षणात्मकात् विशेषाद् व्यतिरिक्तमिति पूर्ववद्भावयितव्यमिति भावः । इत्थमेव भावकृतैकत्वोभयकृतान्यत्वयोरपि व्यतिरिक्ततायामुपपत्तिः कार्येत्याह- इयमेवेति । एवं वस्तुनोऽवक्तव्यत्वे विकल्पदोषमाह-अस्मिन्नपि पक्ष इति । सामान्यविशेषैकत्वान्यत्वादिविशेषैः वस्तु यदि भिन्नं तर्हि तद्भावो वा स्यादभावो वा, सतो भावविशेषरूपत्वात् विशेषभिन्नसद्रूपत्वे भावः स्यात्तद्वस्तु, यदि न भावस्तर्ह्यभावः स्यादन्या गतिर्नास्तीत्याह - द्वयी गतिरिति । १ छा. क्ष. एवं तावदविशेषाव्यतिरिक्तत्वाद्व्यतिरिक्तत्वमिष्यतेति अत्रापि० । ३ सि.क्ष. छा. डे. भावयिकत्वो० । Jain Education International 2010_04 For Private & Personal Use Only २ सि.क्ष. छा. डे. 'द्विन्नाव्यति० । www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364