________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमविधिनयारे
www.
( त्वयेति ) त्वया विशेषस्यैकत्वादिवाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यत्वप्रतिपादनस्य कृतत्वात् तस्यापि विशेषस्यावाच्यत्वे वस्तुनश्चावक्तव्य सामान्यस्यावाच्यत्वेऽवक्तव्यसामान्येन विशेषो न वाच्यो विशेषेण सामान्यमवाच्यम्, तयोश्चावचनीययोः परस्परमवचनीयत्वम्, ततः किं ? ततश्चोभयतोऽप्यवचनीयमवचनीयं सदवचनीयं सामान्यमिति द्विः प्रतिषेधस्य प्रकृत्या पत्तेर्वचनीयं प्रसक्तम्, तथा विशेषोऽपीति D वचनीयत्वमेव स्यात्, द्वयोरपीति, एवं तावत् विशेषाव्यतिरिक्तत्वादवक्तव्यं वक्तव्यमेवमित्युक्तम् ।
www.www.ww
wwwww www
10
१०५४
अथ विशेषव्यतिरिक्तं वस्त्विष्यतेऽवक्तव्यत्वादेव, नन्वेवं तस्य भावत्वे वक्तव्यतैव, अभावत्वेऽप्यसदिति वक्तव्यतैव, तथा त्वदुक्तवदप्यवस्तुता, अभूतावक्तव्यत्वात्, खपुष्पवत्, भावपक्षेऽप्यभूतावक्तव्यत्वात् प्रधानादिवत्तदवस्तु, यथा च तद्विशेषव्यतिरिक्तमिष्यते तथा विशेषोऽपि वस्तुनो व्यतिरिक्तः, एवश्च तदेवासत्त्वमनयोः, त्वदिष्टं वस्त्वसत्, अविशेषत्वात्, खपुष्पवत्, विशेषोऽप्यसत्, वस्तुव्यतिरिक्तत्वात् खपुष्पवत्, तथा च सामान्यविशेषयोरेकत्वान्यत्वादिवि कल्पप्रपञ्चनमाकाशरोमन्थनवत् परिक्लेशमात्रफलम्, अयथार्थत्वात् ।
"
wwww
अथ विशेषव्यतिरिक्तमित्यादि, अथ मा भूवन्नमी दोषा इति वस्तुनो विशेषाद् व्यतिरिक्तमिष्यत इति, अत्रापि पूर्वं प्रश्नोत्थाने चोद्योपक्रमे विशेषव्यतिरिक्तकारणमाह - [ अ ] वक्तव्यत्वादितियस्मात् सामान्यविशेषैकत्वादिविशेषैर्वक्तव्यैरवक्तव्योऽर्थो भिन्नलक्षणस्तस्मादवक्तव्यत्वादेव स्वलक्षणाद्भिन्नं 15 व्यतिरिक्तं विशेषाद्वस्त्वित्युपपत्तिः, इयमेव भावैकत्वोभयान्यत्वयोः पूर्ववद्व्यतिरिक्तत्वे योज्योपपत्तिः, अस्मिन्नपि पक्षे नन्वेवं तस्य विशेषव्यतिरिक्तत्वात् द्वयी गतिः, [ भावो वा ] अत्यन्ताभावो वा नान्यास्ति,
www
ww
wwwwwwww
मेकत्वप्रतिषेधे चान्यत्वमभ्युपगतं भवति, अन्यथा प्रतिषेधासम्भवादित्याशयेन व्याकरोति-त्वयेति । ननु तदानीमपि विशेषस्यावचनीयत्वमेवाभ्युपगम्यत इति चेदाह - तस्यापि विशेषस्येति, प्रतिषेधप्राकालीनस्य विशेषस्यापीत्यर्थः सोऽपि विशेषो यद्यवाच्यस्तर्हि वस्त्वप्यवक्तव्यसामान्यमवाच्यमिति सामान्यविशेषयोरुभयोरप्यवाच्यत्वात्, यदवचनीयं सामान्यं तद्विशेषेणावा20 च्यत्वादवचनीयम्, अवचनीयो विशेषोऽपि सामान्येनावाच्यत्वादवचनीयमित्यवचनीययोर्द्वयोरप्यवचनीयत्वोक्तत्या द्विः प्रतिषेधस्य प्रकृत्यापत्तेर्वचनीयत्वमेव प्रसज्यत इति भावः । परस्परमवचनीयत्वमाह-अवक्तव्य सामान्येनेति । उभयतोऽप्यवचनीयत्वे को दोष इत्यत्र सामान्याश्रयेण दोषमाह - अवचनीयं सदिति । विशेषाश्रयेणाप्याह तथा विशेषोऽपीति, अवचनीयो विशेषोऽवचनीय इति वचनीय एव प्रसक्त इत्यर्थः । इत्थमवक्तव्यं वस्तु विशेषादव्यतिरिक्तत्वाद्वक्तव्यमेवेति सम्प्रति द्वितीयं विकल्प मवक्तव्यं वस्तु विशेषाद्वयतिरिक्तमित्येवंविधमुत्थापयति-अथ विशेषेति । व्याचष्टे - अथ मा भूवन्निति । ननु सामान्यविशे25 षैकत्वान्यत्वादिनिराकरणेनावक्तव्यं जात्यन्तरं वस्तु नियमितमिति व्यतिरिक्ताव्यतिरिक्तत्वादि प्रश्नोत्थानं कुत इत्यत्राह - अत्रापीति, सामान्यविशेषैकत्वादिविशेषैर्वक्तव्यरूपैरवक्तव्यत्वादेव वस्तु स्खलक्षणात्मकात् विशेषाद् व्यतिरिक्तमिति पूर्ववद्भावयितव्यमिति भावः । इत्थमेव भावकृतैकत्वोभयकृतान्यत्वयोरपि व्यतिरिक्ततायामुपपत्तिः कार्येत्याह- इयमेवेति । एवं वस्तुनोऽवक्तव्यत्वे विकल्पदोषमाह-अस्मिन्नपि पक्ष इति । सामान्यविशेषैकत्वान्यत्वादिविशेषैः वस्तु यदि भिन्नं तर्हि तद्भावो वा स्यादभावो वा, सतो भावविशेषरूपत्वात् विशेषभिन्नसद्रूपत्वे भावः स्यात्तद्वस्तु, यदि न भावस्तर्ह्यभावः स्यादन्या गतिर्नास्तीत्याह - द्वयी गतिरिति ।
१ छा. क्ष. एवं तावदविशेषाव्यतिरिक्तत्वाद्व्यतिरिक्तत्वमिष्यतेति अत्रापि० ।
३
सि.क्ष. छा. डे. भावयिकत्वो० ।
Jain Education International 2010_04
For Private & Personal Use Only
२ सि.क्ष. छा. डे. 'द्विन्नाव्यति० ।
www.jainelibrary.org