________________
www
वचनीयत्वापादनम्] द्वादशारनयचक्रम्
१०५३ तस्मिंश्च स्थिते तदेकत्वात् कुतोऽवचनीयता तस्य न हि विशेषोऽवचनीयो विशेषाव्यतिरिक्तत्वात् स्वात्मवत् , एवं निर्धारितो विशेषो वाच्य एव तथा च निर्धारितार्थावक्तव्यवचनादुष्णत्वेन निर्धारितस्याग्नेः शीतोऽग्निरिति वचनव्यवहारवदबुद्धिपूर्वकयादृच्छिकवचनव्यवहारप्रसङ्गः, अतथा चेदिच्छस्येवं तर्हि विशेषो वचनीयः, विशेषाव्यतिरिक्तत्वात् , अवक्तव्यसामान्यवत् ।
(तस्मिंश्चेति) तस्मिंश्च स्थिते तदेकत्वात् कुतोऽवचनीयता ? द्वितीयाभावात् केन सहैकत्वान्यत्वाद्यवक्तव्यता तस्य-विशेषमात्रस्य भावस्येति, तद्भावना-न हि विशेष इत्यादिनाऽवचनीयो विशेषो विशेषाव्यतिरिक्तत्वात् सामान्यवदित्युक्तोपसंहारार्थं साधनं गतार्थम् , एवं निर्धारितो विशेषो निर्धारितत्वाद्वाच्य एव स्यात् , अनिर्धारितो ह्यवाच्यः स्यात् , तथा चेत्यादि, एवं निर्धारितमपि विशेषं स्वपक्षरागादवाच्यमेव मन्यसे तथा च निर्धारितेत्यादि यावत् प्रसङ्गः, अयमबुद्धिपूर्वको यदृच्छया क्रियते व्यवहारस्त्वया, निर्धारि- 10 तार्थावक्तव्यवचनात् , उष्णत्वेन निर्धारितस्याग्नेः शीतोऽग्निरिति वचनव्यवहारवत् , तस्माद्विशेष एवेति निर्धारितोऽवक्तव्यसामान्यार्थो विशेष एवेति वक्तव्यः, विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् अतथेत्यादि, स्वपक्षरागेणैव विशेषाव्यतिरिक्तत्वेऽप्यवचनीयमेव वा वचनीयसामान्यमिच्छस्ये[व]तर्हि विशेषो विशेष इत्यवचनीयो विशेषाव्यतिरिक्तवादवक्तव्यसामान्यवत् ।
स्यान्मतं सिद्धमेव विशेषावाच्यत्वमित्येतञ्च न
त्वया विशेषस्यैकत्वादि वाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यप्रतिपादनस्य कृतत्वात् , तस्याप्यवाच्यत्वे वस्तुनश्चावाच्यत्वे तयोः परस्परमवचनीयत्वादुभयतोऽप्यवचनीययोर्द्वयोरपि वचनीयत्वं स्यात् ।
wwwmom
सहैकत्वादिभिरवक्तव्यत्वं वक्तव्यं स्यात् तस्याभावात् , एकमेव हि विशेषाख्यं वस्तु, नान्यत् किञ्चिदस्तीत्याशयेनाह-तस्मिंश्च स्थित इति । व्याचष्टे-द्वितीयाभावादिति। उक्तमेवानुमानेन साधयति-न हीति, विशेषो नावचनीयः, विशेषाव्य- 20 तिरिक्तत्वात्, खात्मवत् , यथा विशेषस्वात्मा विशेषाव्यतिरिक्तत्वात् नावचनीयः, किन्तु विशेषखात्मेत्युच्यते तथा विशेषोऽपि । एवमवक्तव्यशब्दसामान्यस्य विशेष एवैक इत्यर्थे निर्धारिते स वाच्य एव स्यात्, अनिर्धारितं ह्यवाच्यं भवति न निर्धारितमित्याह-एवं निर्धारित इति । एवं निर्धारितमपीति, इत्थमुपपत्तिभिस्तावकीनाभिरेव वक्तव्यतया निर्णीतमपि विशेषमवाच्यमेवेति यन्मन्यसे तत्र केवलं स्वपक्षराग एव कारणं नान्यत् किमपि प्रमाणम् , ततश्चायमवचनीयताव्यवहारस्तवाबुद्धिपूर्वको यादृच्छिक एव यथोष्णत्वेन निर्णीतस्याग्नेः शीतत्वेन व्यवहार इति भावः । एतदेवाह-अयमबुद्धिप क इति । हेतुमाह-25 निर्धारितेति, निर्धारितस्यार्थस्य खपक्षरागादवक्तव्य इति वचनादित्यर्थः । निदर्शनमाह-उष्णत्वेनेति । फलितार्थ निगमयतितस्माद्विशेष एवेतीति । इत्थं विशेषाव्यतिरिक्तवादवचनीयसामान्यस्य विशेष एवेति वक्तव्यत्वे सिद्धेऽपि तद्वचनीयसामान्यमवचनीयमेवेति चेदिच्छसि तदाऽवचनीयसामान्यस्येव विशेषस्यापि विशेष इत्यवचनीयत्वं स्याद्विशेषाव्यतिरिक्तत्वादिति विपक्षे दण्डमाह-स्वपक्षरागेणैवेति । नायं विपक्षे दण्डोऽनिष्टः, अस्माभिर्विशेषस्यावचनीयत्वाभ्युपगमादिति चेदत्राह-त्वया विशेषस्येति । अवक्तव्यत्वप्रतिपादनार्थ त्वया प्रथम विशेषस्यैकत्वादिरूपतामभ्युपेत्य ततस्तत्प्रतिषेधः क्रियते अन्यत्वप्रतिषेधे ह्येकत्व-30
१ सि. क्ष. छा. डे. उष्णत्वेनानि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org