________________
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे विचार्यते, यस्माच्च तैर्भावोऽवक्तव्य इत्युच्यते, एष विशेषोऽप्येक एव, अव्यतिरेको
ह्येकलक्षणम् , यथा पुरुष एवेदं सर्वमित्यादि, स च विशेषो भावो वस्तु, अवक्तव्यस्य विशेषाव्यतिरिक्तत्वात् , तत्स्वात्मवत्, यथा विशेषाव्यतिरिक्तं विशेषस्वात्मवस्तु विशेष एव,
भवतीति भाव इति सत्तार्थत्वात्तस्य, ततश्च विशेषमात्रमेव, स्थितमिदमेक एव विशेषस्तदवक्त। व्यसामान्यमिति ।
(यद्येवमिति) यद्येवं विशेषाव्यतिरिक्तं तत एतदायातं तत्तु विशेषमात्रमेव, एवं नियमविधिनयमनोरथपूरणम् , तद्भावयति यथा भिन्नोऽपीत्यादि, यथा परस्परविविक्तासाधारणरूपत्वाद्विशेषाणां भिन्नोऽप्येको विशेषो रूपादिस्वरूपात्-रूपाद्यात्मनोऽव्यतिरिक्तत्वाद्विशेष एवेति दृष्टान्तवर्णनम् , वक्ष्यमाणत्वाद
भ्युपगम्यत इति, त्वयाऽपीष्टमित्यनुमानयति, स्यान्मतं तत् कथं मयाऽभ्युपगतमिति तत्प्रदर्शनार्थमाह-यस्य 10 भावेनेत्यादि, योऽसौ त्वया किं भावेन सह विशेषस्यैकत्वमन्यत्वमित्यादिविचारेऽभ्युपगतः, यस्माञ्च विशेषा
द्भाव एकत्वान्यत्वादिभिरवक्तव्य इत्युच्यते, ऐष विशेषोऽप्येवैकः, कस्मात् ? अव्यतिरेको ह्येकलक्षणम् , यद्धि न कुतश्चिद्व्यतिरिच्यते तदेकमित्युच्यते यथा 'पुरुष एवेदं सर्व'मित्यादि, स च विशेषो भाव[1]वस्तु, अवक्तव्यस्य विशेषाव्यतिरिक्तत्वात् , उक्तविधिना सिद्धो हेतुः, तत्स्वात्मवदिति, विशेषाव्यतिरिक्तं विशेष स्वात्मवस्तु]विशेषः एक इति यथा तथाऽवक्तव्याख्यमिति सम्बन्धः, मा भूत प्रागुक्तसामान्य15 पर्यायभावशब्दबुद्धिरित्य[सं]मोहार्थं भावो वस्त्विति वस्तुपर्यायत्वं दर्शयन्नाह-भवतीति भाव इति सत्तार्थत्वात् तस्य, ततश्च विशेषमात्रमेवेति, सामान्यशङ्कानिरासो वस्तुपर्यायश्चेत्युपनयार्थः, मात्रग्रहणात् सिद्धे स्फुटीकरणार्थमिष्टतोऽवधारणार्थश्चैवकारग्रहणम् , स्थितमिदमेक एव विशेषस्तदवक्तव्यसामान्यमिति ।
यद्यव्यतिरिक्तं तदा तदवक्तव्यं विशेषमात्रमेवेति नियमस्यावक्तव्यस्य विशेष इति विधानं नियमविधिनयस्य मनोरथमनेन परिपूर्णमिति
प्रतिपादयति-तत एतदायातमिति । तत्कथमित्यत्राह-यथा भिन्नोऽपीत्यादीति, विशेषाः परस्पर भिन्ना असाधारणाश्च, 20 तेष्वेको विशेषो यथा रूपादिस्वरूपादभिन्नत्वाद्विशेष एवेति दृष्टान्तः, तद्विशेषमात्रमेव, विशेषाव्यतिरिक्तत्वात् , यद् यस्मादव्यतिरिक्तं तदेको विशेष इति साधनमिति भावः । ननु त्वयाऽप्यभ्युपगम्यत इति यदुक्तं तत्कथं मयाऽभ्युपगतमित्यत्राहयोऽसाविति । विशेषस्य भावेन सहैकत्वान्यत्वादिविचारो विशेषाच्च भाव एकत्वादिभिरवक्तव्य इत्यभ्युपगम्यते त्वया, अयमपि विशेष एवैकः, अव्यतिरेकस्वरूपत्वादेकत्वस्य, यथा पुरुषकालस्वभावादिः, पुरुषादि च न कुतश्चित् व्यतिरिक्तः, इदं सर्व पुरुष
एवेत्युक्तेः, अत एव स एकः, एवमवक्तव्यमपि विशेषाव्यतिरिक्तत्वाद्विशेष एवैकः, स चावक्तव्यरूपो विशेषो भावो वस्तु च, 25 अवक्तव्यस्य विशेषाव्यतिरिक्तत्वोक्तत्वादिति भावः । प्रयोगे दृष्टान्तमाह-तत्स्वात्मवदिति, विशेषस्वात्मा विशेषाव्यतिरिक्तो विशेष एवैक एवमवक्तव्यमपीति भावः । विशेषो भावो वस्त्वित्यत्र भावशब्दो न सामान्यपर्यायः किन्तु वस्तुपर्याय इति दर्शयितुं वस्त्वित्युक्तं तत्कथं वस्तुपर्याय इत्यत्राह-मा भूदिति, भावपदस्य सदर्थत्वाद्वस्तुपर्यायत्वेन विशेषमात्रमेव, अत एव सामान्यशङ्कानिरासः, वस्तुपर्यायश्च भावशब्दः सामान्यस्यैतन्मतेनावस्तुत्वादिति भावः । मात्रग्रहणादेव सामान्यशंकानिरासस्तस्यैव
च वस्तुत्वमिति सिद्धेरेवकारः स्पष्टार्थः, इष्टतोऽवधारणार्थश्च तथा चावक्तव्यं वस्तु एक एव विशेष इति सिद्ध्यतीति भावः । 30 यदवक्तव्यं वस्तु त्वयाभ्युपगम्यते स एक एव विशेष इति प्रोक्तविधानेन सिद्धौ स एकत्वादिभिरवक्तव्यः कथं भवेत् , येन
३ सि. क्ष. छा. डे.
१ छा. सि. क्षा. डे. °विधिनियमनो। २ सि. क्ष, छा. डे. एषो विशेषेपि एवैकः। विशेषमावो बस्तु । ४ सि. क्ष. छा. डे. विशेष एव विशेषः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org