________________
mmmmmmmmmmmmmam
एकत्वादन्यत्वे दोषः] द्वादशारनयचक्रम्
१०५१ विशेषाणां हि वस्तुपरतत्रत्वे सत्यवक्तव्यार्थो नियम्यमानः संवदतीत्यत आह
अवक्तव्यत्वस्य नियमत्वादस्य च नियमस्य तथा तथाऽऽत्मान्तरनिवृत्तावात्मान्तरत्वापत्तेर्विशेष्यमाणस्य विशेषत्वमेव, यदि पुनर्विशेषव्यतिरिक्तं स्यात् ततो व्यतिरेकादन्यत्वाक्षान्तेः।
___ (अवक्तव्यत्वस्येति) [अ]वक्तव्यत्वस्य नियमत्वात् , तस्य च नियमस्य तथा तथा-तेन तेन 5 प्रकारेण सामान्यविशेषैकत्वान्यत्वोभयत्वादीनामात्मान्तरनिवृत्तावात्मान्तरत्वापत्तेविशेष्यमाणस्य नियमत्वादवक्तव्यत्वस्य विशेषत्वम् , तस्मादव्यतिरिक्तं विशेषादवक्तव्यवस्तु, यदि पुनर्विशेषव्यतिरिक्तं स्यात्ततो व्यतिरेकादन्यत्वं विशेषाणां वस्तुनः परस्परतश्चैकत्वादीनां स्यात् , तच्चान्यत्वं न विषहते वस्तु, एकान्तापत्तेरवक्तव्यत्वलोपात् , इष्टं चावक्तव्यं त्वयेत्यत आह-ततो व्यतिरेकादन्यत्वाक्षान्तेरिति, इत्थं विशेषाव्यतिरेकोपपत्तिरवक्तव्यवस्तुनेति । तथा भावोपक्रान्तविशेषकृतैकत्वोभयकृतान्यत्वभावाव्यतिरिक्ततायामवक्त- 10 व्यार्थसंवादादवक्तव्यत्वस्य नियमत्वात्तथातथाविशेषादव्यतिरिक्तम् , ततो व्यतिरेकादन्यत्वाक्षान्तेरिति पठित्वा भाववादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्या, तथा सामान्यविशेषाभ्यामाक्रान्तेः भावविशेषकृतैकत्वान्यत्वभावविशेषाव्यतिरिक्ततायामित्याद्येवंग्रन्थो यावदेकत्वान्यत्वाक्षान्तेरित्युभयवादिपक्षेऽप्युपपत्तिरव्यतिरेकस्य तथैव योज्येति ।
एवमवक्तव्यवादिमतसंवादाद्विशेषाव्यतिरिक्तं वस्तु, ततः किम् ?-.
यद्येवं विशेषाव्यतिरिक्तं ततस्तत्तु विशेषमात्रमेव, यथा भिन्नोऽप्येको विशेषो रूपादिस्वरूपादव्यतिरिक्तत्वाद्विशेष एवेत्यभ्युपगम्यते त्वयापि, यस्य भावेन सहकत्वान्यत्वादि
15
तु खातंत्र्ये, तेषामेकान्तेन वस्तुनोऽन्यत्वापत्तेरित्याह-अवक्तव्यत्वस्येति । नियमत्वं विशेष्यमाणत्वं व्यावर्तकत्वमिति यावत्, कस्य व्यावर्तकत्वमिति चेत्, आत्मान्तरनिवृत्तावात्मान्तरत्वापत्तेः, विशेष्यमाणत्वादेवावक्तव्यत्वमपि विशेष एवेत्याशयेन व्याकरोतिअवक्तव्यत्वस्य नियमत्वादिति । सामान्यविशेषयोरेकत्वान्यत्वादयः स्वरूपाण्यव्यतिरिक्तत्वपक्षे स्युः, तत्रोपपत्तिभिरेक-20 त्वाद्यात्मान्तराणां निवृत्तावन्यत्वाद्यात्मान्तरत्वमापद्यते, अन्योऽन्यप्रतिपक्षत्वात् , अवाच्यत्वस्य ततो विशिष्यमाणत्वान्नियमरूपस्य तस्य विशेषत्वम् , विशेषाव्यतिरिक्तचावक्तव्यं वस्तु भवतीत्याह-सामान्यविशेषेति। व्यतिरिक्तत्वे त्वविशेषः स्यात्, विशेषा अवक्तव्यवस्तुनो भिन्ना भवेयुः, तथा परस्परं चैकत्वान्यत्वादीनाम् , तव मतेन चान्यत्वं वस्तु न सहते, स्वातंत्र्येण तेषां वस्तुपरतंत्रत्वाभावादेकान्तेन वस्तुनः परस्परतश्चान्यत्वादवक्तव्यत्वस्यैव निवृत्तिप्रसङ्ग इत्याह-यदि पुनरिति। तदेवं विशेषवादिपक्षे विशेषादव्यतिरिक्तमवक्तव्यं वस्त्विति प्रतिपादितमित्याह-इत्थमिति । सामान्यवादिपक्षेऽपि यदि तदवक्तव्यं विशेषकृतमेकत्वं 25 सामान्यीभूतमाक्रम्य सामान्यस्वरूपं व्यावर्त्तयत् विशेषकृतैकत्वं व्यावर्त्तयेत् , न विशेष एव निःसामान्यस्य निरुपाख्यत्वादिति, यदि वोभयकृतमन्यत्वं न सामान्यं च न विशेषश्च वेति. ततस्तदेकत्वान्यत्वयोरपि भावाव्यतिरिक्ततायां सत्याम अन्यथाऽवक्तव्यत्वनिवृत्तेः, अवक्तव्यत्वस्य नियमत्वात्तथा तथा विशेषादव्यतिरिक्तम्, ततो व्यतिरेकादन्यत्वाक्षान्तेरियेवमुभयवादिपक्षेऽप्यव्यतिरेकस्योपपत्तिर्भाव्येत्याह-तथा भावोपक्रान्तेति । उभयवादिमताश्रयेणाह-तथा सामान्यविशेषाभ्यामिति । इत्थमवक्तव्यवादिमतसंवादाद्वस्तु विशेषाव्यतिरिक्तमिति परमतमाशंक्य तन्निराकरणायाह-यद्येवमिति । विशेषतो वस्तु 30
१ छा. यावदेकत्वात्पक्षान्ते ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_04