________________
१०५०
न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमविधिनयारे सामान्यकृतमेकत्वं विशेषीभूतमाक्रम्य विशेषस्वरूपं वस्तु व्यावर्त्तयत् तत् सामान्यकृतैकत्वविशेषं व्यावर्त्तयेत् न सामान्यमेवेति, यदि वोभयकृतमन्यत्वं न सामान्यं न विशेषश्च वेति तदेकत्वान्यत्वयोरपि विशेषेणाव्यतिरिक्ततायां सत्यामवक्तव्यार्थः संवदेन्नान्यथा, तेषां स्वातंत्र्येऽवक्तव्यत्वनिवृत्तेः। 5 इदमसि त्वं प्रष्टव्यः, अथ यस्येत्यादि, अवक्तव्यात्मकस्य देशिनो य एते देशाः-सामान्यविशेषकत्वान्यत्वादयो यैस्तवक्तव्यमिष्यते, तेषां यो विशेषावयवाः तस्मात् किं तदव्यतिरिक्तमित्यादि, अयं हि नियमविधिनयो विशेषवादी तमेव स्वाभिप्रेतं विशेष गृहीत्वा चोदयति, स्यान्मतं सामान्यविशेषकत्वादिनिराकरणेनैवावक्तव्यं जात्यन्तरं वस्तु नियमितं निश्चितनियताधिकभावेन, तत्र कुतस्तद्व्यतिरिक्तत्वादिप्र
नोत्थानमित्यत्रोच्यते-अवक्तव्यस्य विशेषा अवयवास्तथानियमादेव तस्य वस्तुनो व्यवस्थानात् तत् किं तैरव्य10 तिरिक्तं व्यतिरिक्तं वेत्यादिप्रश्नोत्थानम् , तदवयवत्वाच्च तस्य सामान्यविशेषैकत्वाद्याशङ्कासंभववदिति तदुपपत्ति प्रदर्य यत्परमतमाशङ्कते-तद्यथा-यदि सामान्येत्यादि, सामान्यमेव सांख्यादीनामेकं वस्तु, विशेष एव बौद्धस्य, उभयं वैशेषिकस्य, परमतेऽन्यत् , तत्रावक्तव्यवादे यदि तत्सामान्यकृतमेकत्वं विशेषीभूतमाक्रम्य विशेषस्वरूपं व्यावर्त्तयत् सामान्यकृतैकत्वविशेषं व्यावर्त्तयेन्न सामान्यमेवेत्यविशेषापादनेन, यदि वोभयकृतमन्यत्वं न सामान्यञ्च विशेषश्च वेति, ततस्तदेकत्वान्यत्वयोरपि विशेषेणाव्यतिरिक्ततायां सत्यामवक्त15 व्यार्थः संवदेन्नान्यथा, तेषामेकत्वादिविशेषाणां स्वातंत्र्ये सत्यवक्तव्यत्वनिवृत्तेः । विशेषैकत्वान्यत्वादिविषयकमवक्तव्यत्वं त्वयोच्यते तत्रावक्तव्यत्वस्य विषयभूता य एकत्वादयस्तेषामवयवः सामान्य विशेषश्च, अत्र त विशेष एवोपात्तः, नियमविधिनयस्य विशेषवादित्वात , तदवयवादवक्तव्यत्वं किमतिरिक्तमतानतिरिक्तमिति पृच्छतिअवक्तव्यात्मकस्येति । सामान्यपरित्यागेन विशेषस्यावयवत्वोक्तौ कारणमाह-अयं हीति । नन्ववक्तव्यं वस्तु जात्यन्तरमेवेति प्रागुक्तमेव सामान्यविशेषयोरेकत्वेऽन्यत्वे उभयत्वेऽनुभयत्वेऽन्यतरप्रधानोपसर्जनत्वे च निश्चितनियताधिकभावेनायतस्ववृत्तित्वात् 20 अवक्तव्यत्व एव निश्चितनियताधिकभावेन यतखवृत्तित्वादिति, तस्मात् सामान्यविशेषाभ्यामवक्तव्यवस्तुनो व्यतिरिक्तत्वाव्यतिरिक्तत्वशङ्काया अवसर एव नास्तीत्याशङ्कते-स्यान्मतमिति । समाधत्ते-अवक्तव्यस्येति, अवक्तव्यस्य सामान्य विशेषश्चावयव एव तत्रैव निश्चितनियताधिकभावेनावक्तव्यत्वस्य व्यवस्थानात्, एकत्वादिभिरवक्तव्यत्वेन सामान्यं वा विशेषो वा व्यवस्थाप्यते, तस्मादवक्तव्यं विशेषावयवः सामान्यावयवो वेति भावः । एकत्वान्यत्वादिविषयसंदेहस्य सामान्य विशेषश्च यथाऽवयवौ तद्वदिति दृष्टान्तं वक्ति-तदवयवत्त्वाञ्चेति । अवक्तव्यवादस्तदा संवदतीति, परमतमेव तावद्दर्शयति-तद्यथेति । प्रावादु25 कानामभीप्सितं वस्तु निर्दिशति-सामान्यमेवेति, आदिना पुरुषकालखभावादिवादिपरिग्रहः । एको विशेष इत्यत्र विशेषे एकत्वं
सामान्यापेक्षया, व्यक्त्या विशेषाणां बहुत्वात् , यदप्येकत्वं विशेषस्य धर्मत्वाद्विशेषः, अतस्तदेकत्वं सामान्यकृतं विशेषीभूतच, तदेकत्वं विषयीकृत्यावक्तव्यत्वं विशेषखरूपमाधारभूतं व्यावर्त्तयद्यदि सामान्यकृतमेकत्वं व्यावर्तयति यथा नैको विशेषः. एकत्वे हि विशेषो निर्विशेष सामान्यमेव भवेत् , तस्मान्न सामान्यमेवेति, यदि सामान्यविशेषोभयकृतमन्यत्वं विशेषीभूतमाक्रम्य विशेषस्वरूपं व्यावर्त्तयदुभयकृतमन्यत्वं व्यावर्त्तयति न सामान्यं विशेषश्च वेति, तथा ते एकत्वान्यत्वे यदि विशेषादव्यतिरिक्त 30 तदैवावक्तव्यार्थः संवदेत् , एकत्वेनासौ विशेषोऽवक्तव्य इति, यदि त्वेकत्वान्यत्वे विशेषाव्यतिरिक्त तर्हि ते स्वतंत्रे, न विशेषपारतंत्र्य ' तयोरिति विशेषेण तयोरसम्बन्धात्ताभ्यां विशेषोऽवक्तव्यो न स्यादित्यवक्तव्यत्वमेव निवर्ततेति परमतं समीकृत्य दर्शयति-तत्रा
वक्तव्यवाद इति । एकत्वान्यत्वादिविशेषाणां वस्त्वधीनत्वे सत्येव निश्चितनियताधिकभावेन नियम्यमानोऽवक्तव्यार्थी घटते न
१०सि० स्वादयदतथा नियमादेवास्ति तस्य । क्ष स्वादयदत्तवानियमो तस्य । छा.xx विशेषा...."स्वावयवस्वाच्च तस्य । २ सि. क्ष. विशेषः स्वरूपवस्तुन्यार्पयत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org