________________
एकत्वादौ पृच्छा ]
द्वादशारनयचक्रम्
wwwwwww
पदसंघातोऽभ्यधायि वाक्यमिति शब्दस्तदर्थश्च स संवृतिमात्रार्थत्वादपरमार्थः, दृष्टान्तो मण्डूकजटेत्यादि, मण्डूकजटाभारेण कृतः केशालङ्कारो नटकेशभारको यस्य मण्डूकजटाभारकृत केशालङ्कारवन्ध्यापुत्रः, तस्य खपुष्पदाम्ना मुण्डमाला कृता, तस्या आख्यानं सुरभिः पञ्चवर्णः स्वाकार गगनकुसुममपीत्यादिवर्णनं संवृतिसत्यपदसमुदायार्थत्वान्न परमार्थस्तथेदं सर्वमपीति नास्त्यवक्तव्यता, किञ्चान्यत् - धर्मधर्मीत्यादि, अविदितमित्थं भवत्यवक्तव्यं वस्तु, प्रतिपादनप्रमाणाभावात् प्रतिपादनप्रमाणाभावो धर्मधर्मिविभागव्यवस्थाभावात् 5 तद्भावोऽवक्तव्यत्वात्, धर्मधर्मिणौ हि विभागेन व्यवस्थितौ पुनः समुदितौ पक्षः स्यात्, यथा - साध्यधर्मविशिष्ट धर्मी पक्षः, अनित्यः शब्द इति, तस्य धर्मिणः कृतकत्वादिरन्यो धर्मो व्यवस्थित एव हेतुः स्यात्, तौ च [ साध्य ] साधनधर्मौ सहितौ धर्म्यन्तरे प्रदर्श्यते यत्र यत्कृतकं तदनित्यं दृष्टम्, यथा घटइति स दृष्टान्त इतीदं धर्मधर्मिविभागव्यवस्थानात्मकं साधनं नोप [पद्यते ] निरस्तधर्मधर्मिविभागव्यवस्थत्वात्, धर्मधर्मिनिरसनञ्चावक्तव्यत्वात्, भावविशेषैकत्वान्यत्वादिनिरसनद्वारेण वस्तुनस्तस्य च निर्विषयत्वस्यानन्त- 10 रोक्तत्वात्, तस्मान्निरस्तधर्मधर्मिसङ्ग्रहात्मकत्वात् पक्षाद्यसाधनम्, खरं खरविषाणं स्फुटितपृष्ठत्वादाकाशस्फोटवदिति पक्षादिवत्, तस्मात् पक्षाद्यसाधनत्वात् [न] सम्भावनीयमवक्तव्य [त्व]म्, त्वत्परिकल्पितस्य वस्तुनो नान्यथेत्युद्धकोऽयम् ।
www
अभ्युपेत्याप्यवक्तव्यतां दोषं ब्रूमः -
wwwwwwwwwww
इदमसि त्वं प्रष्टव्यः अथ यस्य य एते देशास्तेषां यो विशेषोऽवयवस्तस्मात्तत् किम- 15 व्यतिरिक्तं ? व्यतिरिक्तं वा ? अवक्तव्यस्य विशेषावयवत्वनियमात् प्रश्नोत्थानम्, सामान्यविशेषैकत्वाद्याशङ्कासम्भववत्, यदि सामान्यमेव विशेष एवोभयमेवाऽन्यद्वा वस्तु, तत्र यदि मण्डूक जटेत्यादीति, मण्डूकस्य जटाभारोऽसत्यः एवं तत्कृतः केशालङ्कारो यस्य स वन्ध्यापुत्रस्तस्य खपुष्पदाम तेन मुडण्मालाकरणं मुण्डमालायाः सुरभ्यादिवर्णनञ्च सर्व पदसमूहस्तदर्थव संवृतिसत्यपदसमुदायार्थत्वान्न परमार्थस्तद्वदिदं सर्वं वाक्यशब्दतदर्थरूपमिति न स्यादवक्तव्यत्वं परमार्थ इति भावः । अवक्तव्यत्वाद्यभ्युपगमादेव धर्मधर्मिसाधनादीनां व्यवस्था न 20 सम्भवति तदसम्भवे चावक्तव्यत्वसम्भावनापि न स्यादेवेत्याह- धर्मधर्मीत्यादीति, धर्मधर्मिणोः पार्थक्येन व्यवस्थाभावादेव समुदितस्याप्यव्यवस्थानात् पक्षहेतुदृष्टान्तानुपपत्त्या साधनाभावेन कथमवक्तव्यत्वं सम्भाव्यत इति भावः । अमुमेव भावमाविष्करोति- अविदितमिति, तवाऽवक्तव्यत्वमप्रमेयं भवति प्रमाणेन हि प्रमेयसिद्धिः, अवक्तव्यत्वप्रतिपत्तिजनकप्रमाणाभावादेव च तत् प्रमेयं न भवतीति भावः । तथाविधप्रमाणाभावः कथमित्यत्राह - धर्मधर्मीति, तव मते धर्मधर्मिणोर्विभागेन यतो व्यवस्था नास्ति तस्मादित्यर्थः । सोऽपि कथमित्यत्राह तद्भावोऽवक्तव्यत्वादिति, यतः सर्वमवक्तव्यमत एव धर्मत्वेन 25 धर्मित्वेनाप्यवक्तव्यमेवेति भावः । अत एव पक्षाद्यभावं तत्स्वरूपप्रदर्शनद्वारेण प्रकाशयति-धर्मधर्मिणौ हीति, विशिष्टत विशेषणज्ञानस्य निमित्ततया प्रथममयं साध्यधर्मोऽयं च धर्मीति व्यवसायस्ततोऽयं साध्यधर्मविशिष्टो धर्मीति पक्षपरिज्ञानं स्यादनित्यः शब्द इति, न त्वनित्यत्वस्य शब्दस्य चापरिज्ञाने, ततश्च धर्मिभिन्नत्वे सति धर्मिवृत्तितया धर्मविशेषस्य हेतोः परिज्ञानं स्यात्, ततश्च साध्यधर्मसामानाधिकरण्येन साधनधर्मस्य धर्म्यन्तरे प्रदर्शनं स्यात्, यत्र यत्र कृतकत्वं तत्रानित्यत्वं यथा घट इत्यादि, एवं विज्ञाते धर्मधर्मिणोर्विभागेन व्यवसितत्वात् साधनं सम्पद्येतेति तत्खरूपोपदर्शनं प्रकाशितम् । ईदृशं 30 साधनं तव मतेन न सम्भवतीत्याह - इतीदमिति त्वया तु सामान्यविशेषयोरेकत्वान्यत्वा दिव्यावर्त्तनद्वारेणाशेषस्यावक्तव्यत्वस्योक्तत्वात् मया च तस्य निर्विषयत्वेन व्यवस्थापनान्निरस्तधर्मधर्मिविभागव्यवस्थानं साधनं सम्पन्नमतो यथा खरविषाणं खरं स्फुटितपृष्ठत्वात् आकाशस्फोटवदित्येवंरूपं पक्षादिसाधनमसाधनं तथा तवावक्तव्यत्वसाधनायोपादीयमानसाधनमपीति नास्ति सम्भावनाऽवक्तव्यत्वस्येति निर्गलितार्थः । अथावक्तव्यत्वमभ्युपगम्यापि विचार्यते इदमसि त्वमिति । सामान्य
Jain Education International 2010_04
For Private & Personal Use Only
१०४९
www.jainelibrary.org