________________
१०४८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमविधिनयारे
शब्दार्थवादिना दिकूप्रत्यासत्त्याऽवक्तव्योऽर्थ इत्यभ्युपगतम्, अंत्र चावयोर्मतिसंवादः, स चावक्तव्य एव त्वन्मत्या योऽभिजल्पेनोच्यतेऽर्थः सोऽवक्तव्य इति वक्तव्य एव नञा प्रतिषिध्यते, तस्मादर्थादापन्नो द्विनप्रयोगोऽयमवक्तव्य इत्यवक्तव्यः, स च द्विनप्रयोगः प्रतिषेधप्रतिषेधत्वात् प्रकृतं गमयतिं, अनब्राह्मणदिति, अथवा कचिल्लोके ब्रूयादवक्तव्यो न भवत्यब्राह्मणो न भवतीति प्रयोगवत् सोऽनवक्तव्यो द्विनन्5 प्रयोगात् प्रतिषेधप्रतिषेधत्वात् प्रकृतिं गमयेदिति, एतेन स्ववचनाभ्युपगमविरोधावुद्भाव्य स्वयं वक्तव्यत्वे साधनमाहेति पिण्डार्थः ।
संवृत्यैव वाग्व्यवहार इति चेत्, अपरमार्थस्तर्ह्यवक्तव्यः, संवृतिसत्यपदसमुदायार्थत्वात्, मण्डूकजटाभारकृतकेशालङ्कारवन्ध्या पुत्रखपुष्पदामकृतमुण्डमालाख्यानवत्, धर्मधर्मिविभागव्यवस्थाभावात् प्रतिपादनप्रमाणाभावेनाविदितं भवत्यवक्तव्यं वस्तु ।
www
(संवृत्यैवेति ) संवृत्यैव वाग्व्यवहार इति चेत् - स्यान्मतं न शब्दः कश्चिदर्थं ब्रूते, यथोक्तं'विकल्प योनयः शब्दा विकल्पाः शब्दयोनयः । तेषामत्यन्तसम्बन्धो नार्थं शब्दाः स्पृशन्त्यपि ॥ येन येन विकल्पेन यद्यद्वस्तु विकल्प्यते । परिकल्पित एवासौ से भावो न हि विद्यते ॥' ( ) इत्यादि, तत्र कः शब्दार्थः ? का वा चिन्ता ? मयोक्तं सत्यं न त्वयोक्तमिति, तस्मात् संवृतिसत्यं व्यवहारगोचरत्वाददोषं सर्वमिति, अत्र ब्रूमः, अपरमार्थस्तर्ह्यवक्तव्यः, कस्मात् ? संवृतिसत्यपद समुदायार्थत्वात्, यस्त्वया
wwwwww
10
15 तत्कथमित्यत्र प्रथममवक्तव्यत्वे मतिसंवादं दर्शयति - त्वयापीति । वक्तव्यत्वमप्यभ्युपगतमिति दर्शयितुमाह-स चावक्तव्य एवेति, अभिजल्पोऽवक्तव्य एव, तथाऽभिजल्पेनोच्यते योऽर्थो घटपटादिः सोऽपि त्वद्रीत्याऽवक्तव्यस्तथा चाभिजल्पेनाव्यक्तव्येनावक्तव्योऽर्थो घटादिरुक्तः, अवक्तव्योऽयमवक्तव्यः, तस्य च अवक्तव्यो न वक्तव्य इत्यर्थः स्यात्, तथा च नव्यप्रयोगोऽयमापन्नः, द्विःप्रयुक्तो नञ् प्रकृतमर्थं गमयति प्रतिषेधप्रतिषेधार्थत्वात्, यथाऽनब्राह्मण इति, अत्र ह्यब्राह्मण प्रतिषेधाद्ब्राह्मण एव गम्यते तथाSवक्तव्यप्रतिषेधाद्वक्तव्यता प्राप्नोतीति भावः । तदेवमर्थतो वक्तव्यत्वं प्रसाध्य यथा लोकेऽब्राह्मणो न भवतीति नद्वयेन प्रकृतार्थगति20 र्भवति तथैवावक्तव्यो न भवतीत्यनवक्तव्यशब्दगम्यतया प्रतिषेधद्वयेन प्रकृतार्थगमनाद्वक्तव्यत्वसिद्धिरित्याह-अथवा कश्चिददिति,
।
अवक्तव्यो न भवतीति प्रयोगः प्रकृतिगमकः प्रतिषेधप्रतिषेधत्वात्, अब्राह्मणो न भवतीति प्रयोगवदिति साधनम् इत्थमेकत्वादि प्रतिषेधेऽवक्तव्यवादिनः खवचनाभ्युपगमविरोधौ भवत इति निरूप्य नियमविधिनयः स्वयं वक्तव्यत्वे साधनं प्रदर्शितमित्याहएतेनेति, नैवंविधो नियमो युज्यत इत्यादिग्रन्थादारभ्यैतत्पर्यन्तग्रन्थेनेत्यर्थः । ननु शब्दस्यार्थेन न कश्चित्संबंधोऽस्त्यतो न स कञ्चिदर्थं ब्रूते, ततश्च केवलं विकल्प एवोदेति, शब्दो हि निरूपितार्थविषयो बुद्धिविषयादर्थाच्छन्दः प्रतीयते सा च बुद्धिर्यथातत्त्वं 25 वस्तु न स्पृशति, वस्तुन एकदेशस्यैव संस्पर्शात्, अत एव सा विकल्पात्मिका व्यावृत्तिविषयत्वात् एवञ्च विकल्पादुत्पद्यमानः शब्दः कारणानुरूपत्वाच्च कार्याणामकृत्स्नार्थविषयविज्ञानमेव जनयति तस्माद्वाग्व्यवहारो विकल्पा देवानादिवासना परिकल्पितादित्याशङ्कतेसंवृत्यैवेति । व्याकरोति - स्यान्मतमिति । अत्रार्थे कारिके दर्शयति - विकल्पेति । कृत्स्नार्थपरिग्रहासामर्थ्यं शब्दानामाहयेन येनेति । तत्तद्विकल्पैर्विकल्प्यमानं तत्तद्वस्तु परिकल्पितमेव, सदृशापरापरक्ष गसन्तानलक्षणजात्याद्येकदेशसम्बन्धादनादिवासनासम्भूतात् यत्तु विकल्प्यते न स भाव इति भावः । एवञ्च सर्वव्यवहाराणां संवृत्यैव भवनात् शब्दात् कल्पितार्थविषयविज्ञानोदयाश्च 30 शब्दार्थयोः सम्बन्धाभावात् कः शब्दार्थः स्यात्, नास्त्येव; एवञ्च मदुक्तशब्दार्थ एव सत्यो न तु त्वदुक्त इत्यादिचिन्ताया अप्यवसर एव नास्तीत्याशयेनाह - तत्र क इति । उपसंहरति- तस्मादिति । तदेवं व्यवहारविषयस्य सर्वस्य संवृतिसत्यत्वेऽवक्तव्यत्वमपि संवृतिसत्य एव स्यान्न तु परमार्थः स्यात्, पदसमुदायानां संवृतिसत्यत्वेन तदर्थस्यापि तथात्वादित्युत्तरयति - अपरमार्थस्तर्हीति । हेतुमाह - संवृतिसत्येति, संवृत्यैव सत्यभूतो यः पदसमुदायस्तदर्थश्च तद्भावादित्यर्थः । दृष्टान्तमाह१ सि. क्ष. छा. डे. अत्र वाधयोर्मतिसंवादः । २ सि. क्ष. छा. डे. 'स्वभावो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org