________________
wwwnewsnrnam
वक्तव्यतापादनम्]] द्वादशारनयचक्रम्
१०४७ एकत्वादीनामेकान्तभवनं व्यावर्त्यानेकान्तभवनं प्रतिपाद्यते, तस्मादसत्प्रतिषेधादसमञ्जसोऽयं दृष्टान्तो वादपरमेश्वरवादवदिति, तत्र ह्यनेकान्तरूपेण स्यादैक्यं स्यान्नानात्वमित्यादिवक्तव्या एव सन्त एकान्तरूपेणावक्तव्या इत्युच्यन्ते सप्रतिपक्षत्वाद्भावानाम् , तथा ह्याह-सप्रतिपक्षाण्येतानि यतस्तस्मान्न तानि वाच्यानि । एकान्तेन हि वदतो मिथ्यावादः प्रसज्येत' ॥ ( ) इति ।
अत्र साधनमाह नियमविधिनयः
अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते नज्युक्तत्वात् , अब्राह्मणवत् , अपि च त्वयाप्यभिजल्पशब्दार्थवादिना दिक्प्रत्यासत्त्याऽवक्तव्योऽर्थ इत्यभ्युपगतम् , त्वन्मत्या स चावक्तव्य एवावक्तव्य इति नञा प्रतिषिध्यते, स च प्रतिषेधप्रतिषेधत्वात् प्रकृतिं गमयेत् , अनब्राह्मणवदिति।
(अवक्तव्यशब्दस्येति) अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते नव्युक्तत्वात् , अब्राह्मण- 10 वत्, सम्भाव्यमानप्रतिपक्ष एवावक्तव्यशब्दः तदर्थो वेति पक्ष[:] नब्युक्तत्वादिति शब्देऽर्थे च हेतुर्योज्य:, तथा दृष्टान्तोऽप्यब्राह्मणवदिति, ब्राह्मणो न भवति, अन्यो वा ब्राह्मणादित्यब्राह्मणः, सत्येव ब्राह्मणे प्रतिपक्षे क्षत्रियादिर्भवति, तथा प्रतिपक्षे वस्तुनि वक्तव्ये सत्यवक्तव्यशब्दोऽर्थो वा भवितुमर्हतीति, अपि च त्वयापीत्यादि, न केवलं सम्भावनयाऽस्मदीयया वक्तव्यत्वम]वक्तव्यत्वञ्च वस्तुनः, किन्तर्हि ? त्वयाप्यभिजल्प
mmmmwwws
wwwwwwwww
तत्तिरस्कारद्वारेणैकत्वादयो निगृह्यमाणा अनेकान्तभवनव्यवस्थापनद्वारेणानुगृह्यन्ते, अवक्तव्यवादिना त्वया तु तथा न प्रतिपाद्यतेऽतो 15
हि यथा न विद्यन्ते एकत्वादयस्तथाविधानामेव प्रतिषेधादसत्प्रतिषेधस्तव, तस्मान्न स्याद्वाददृष्टान्तोऽत्र युज्यत इति भावः । स्याद्वादे कथञ्चिदवक्तव्यत्वस्यैव प्रतिपादन मित्याह-तत्र ह्यनेकान्तरूपेणेति, न तु सर्वथाऽवक्तव्यत्वम् , भावानां खप्रतिपक्षधर्मयुक्तत्वादिति भावः । अत्रार्थे प्राचां संवादमाह-तथा ह्याहेति, यस्माद्वस्तूनि सप्रतिपक्षाणि तस्मादेकान्तेन तानि न वाच्यानि, यदि तान्येकान्तेनोच्यन्ते तर्हि स वादो मिथ्यावाद एव स्यादिति भावः। भावानां सप्रतिपक्षधर्मयुक्तत्वात्तद्वाचकशब्दोऽपि सप्रतिपक्ष इति मत्वा शब्दस्य विद्यमानप्रतिपक्षत्वं नियमविधिनयोऽनुमानतो व्यवस्थापयति- 20 अवक्तव्यशब्दस्य त्विति । व्याचष्टे-अवक्तव्येति । हेतुमाह-नयुक्तत्वादिति, नअपदसमभिव्याहृतपदत्वादित्यर्थः । दृष्टान्तमाह-अब्राह्मणवदिति । शब्देऽर्थे च प्रतिपक्षतासाधनाय समीकृत्य पक्षमाह-सम्भाव्यमानेति, यस्य शब्दस्य तदर्थस्य च प्रतिपक्षः सम्भाव्यमानस्तथाविधोऽवक्तव्यशब्दस्तदर्थश्च नघटितत्वमवक्तव्यशब्दस्य नअर्थघटितत्वमवक्तव्यशब्दार्थस्य एवञ्च नजयुक्तत्वं शब्दपक्षकहेतुः, नअर्थयुक्तत्वं तदर्थपक्षकहेतुरिति भावः। दृष्टान्तं स्फुटयति ब्राह्मणो न भवतीति, पूर्वपदनअर्थोऽत्र निवृत्तिरूपः प्रधानं तस्यासतः क्रियायोगाभावान्निषेधस्य प्रसङ्गपूर्वकत्वादुत्तरपदार्थसदृश एव ब्राह्मण्येना- 25 वसितः क्षत्रियादिरवगम्यते, ब्राह्मणादन्योऽब्राह्मण इत्यत्रान्यपदार्थः प्रधानम् , स च क्षत्रियादिः, कस्माच्चिद्धान्तिकारणात् क्षत्रिये ब्राह्मणशब्दः प्रयुज्यते, स मिथ्याध्यवसायः, तं गुणप्रयोगादुपजाता सम्यग्बुद्धिस्ततो निवारयति, नायं ब्राह्मणो मिथ्यात्वेवमध्यवसितः, तत्सदृशोऽब्राह्मणोऽयं क्षत्रियादिरिति निर्णयो जायते, नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिरिति न्यायात्, एवञ्चाब्राह्मणप्रतिपक्षभूतब्राह्मणसद्भाव एवार्य क्षत्रियादिरब्राह्मणो भवति तथैवावक्तव्यशब्दस्तदर्थो वा स्वप्रतिपक्षस्य वक्तव्यशब्दस्य तदर्थस्य च सद्भाव एव भवितुमर्हति नान्यथेति भावः । अवक्तव्यत्वे आवयोर्मतिसंवादः, मयेव त्वयाऽप्यव- 30 कव्यत्वाभ्युपगमात्, यतस्त्वया शब्दार्थोऽभिजल्प इति स्वीकृतः, अत्राभिजल्पः शब्दार्थः प्रागेवोक्त इति दिक्प्रत्यासत्त्योकत्वादित्याह-न केवलमिति, वस्तु वक्तव्यमवक्तव्यञ्चेति न केवलमस्मदीयसम्भावनया, किन्तु त्वयाप्यभ्युपगतमेवेति भावः।
द्वा० न० ७ (१३२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org