________________
१०४६
न्यायागमानुसारिणीच्याख्यासमेतम्
[ नियमविधिनयारे
"
वक्तव्यत्वम् एकत्वादिप्रतिषेधतथार्थत्वात्, अथ त एकत्वादयो विद्यमाना अविद्यमाना वा कथं परेण प्रतिपन्नाः ? यदि तावद्विद्यमानाः सन्तः प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिर्विषयतोक्ता, अथाविद्यमानाः, अत्यन्तमभूतत्वात् कथं प्रतिपत्तुं शक्यन्ते ? अप्रतिपन्नत्वादेव प्रतिषेधानुपपत्तिः ।
5 ( नेति ) न पराभिप्रायगतैकत्वाद्ये कान्त व्यावर्त्तनार्थत्वान्निर्मूलाः प्रतिषेधाः, ने च निर्विषयमवक्तव्य[त्व]म्, एकत्वादिप्रतिषेधतथार्थत्वात्, तेऽपि पराभिप्रायगतानामेकत्वादीनां प्रतिषेध्यानामेकान्तानां व्यावर्त्तनार्थाः, तस्माददोष इत्यत्रोच्यते-अथ त एकत्वादय इत्या [दि ] यावत् कथं परेण प्रतिपन्नाः ? इति, यदि तावदेकत्वादयः परेण यथा विद्यन्ते तथैव प्रतिपन्नाः सन्तः प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिर्विषयतोक्ता, अथाविद्यमानाः, अत्यन्तमभूतत्वात् खपुष्पवदसन्तस्ते कथं प्रतिपत्तुं शक्यन्तेऽतोऽप्रतिपन्नत्वादेव न प्रति10 षेध्या इति प्रतिषेधानुपपत्तिः ।
ननु वादपरमेश्वरवादवत् प्रतिषेध उपपद्यत इत्येतच्चायुक्तम्, तद्वैधर्म्यात्, न ह्येषां भवता एकान्तभवनं व्यावर्त्त्याऽनेकान्तभवनं प्रतिपाद्यते, तत्र ह्यनेकान्तरूपेण वक्तव्या एव सन्त एकान्तरूपेणा वक्तव्या इत्युच्यन्ते, सप्रतिपक्षत्वाद्भावानाम्, तथा ह्याह 'सप्रतिपक्षाण्येतानि यतस्तस्मान्न तानि वाच्यानि । एकान्तेन हि वदतो मिथ्यावादः प्रसज्येत ॥' 15 ( ) इति ।
( नन्विति ) स्यान्मतं स्याद्वादेऽपि सामान्यविशेषयोः किमेकत्वं नानात्वमुभयत्वमनुभयत्वमवक्तव्यत्वमिति पृष्ठे प्रतिषेधाः क्रियन्ते नैकत्वं न नानात्वं नोभयत्वं नानुभयत्वं नावक्तव्यत्वं किं तर्हि ? स्यादेकत्वं स्यादन्यत्वं स्यादुभयत्वं स्यादनुभयत्वं स्यादवक्तव्यत्वमित्यादि एतच्चायुक्तम्, तद्वैधर्म्यादिति-तद्दर्शयति - न ह्येषां भवतेत्यादि, स्याद्वादो हि वादानामीष्टे निग्रहानुग्रहसमर्थत्वात् तस्मिंश्चैकत्वादयो भवन्त 20 एवैकान्तग्राहनिषेधेन निगृह्यन्ते, अनुगृह्यन्ते वा अनेकान्तप्रतिपादनात् न तद्वदवक्तव्यत्ववादिना भवता
तेऽपीति । समाधत्ते - अथ त इति, परेण एकत्वादयो यथा विद्यन्ते तथैव स्वीकृतानां तेषां त्वया प्रतिषिध्यमानत्वेऽवक्तव्यत्वं निर्विषयमेव भवेत्, यथार्थतया विद्यमानानां प्रतिषेधासम्भवात्, सिद्धस्य प्रतिषेधायोगादिति भावः । यद्यविद्यमाना एकत्वादयस्तर्हि कस्यापि तत्प्रतिपत्तिर्न भवेदत्यन्तमभूतत्वात् न ह्यत्यन्तमभूतं खपुष्पादि केनापि प्रतिपद्यत इति प्रतिषेध्याभावादेवानुपपन्नः प्रतिषेध इत्याह- अथाविद्यमाना इति । अथ स्याद्वादे यथैकत्वादिप्रतिषेधाः क्रियन्ते तथाऽत्रापि प्रतिषेधा उपपद्यन्त 25 एवेत्याशङ्कते - नन्विति । व्याचष्टे पूर्वपक्षं स्यान्मतमिति । प्रतिषेध्यान् दर्शयति-नैकत्वमिति, एकत्वादयः प्रतिषिध्यन्त
इति भावः । स्याद्वादे किं व्यवस्थाप्यत इत्यत्राह - स्यादेकत्वमिति, कथञ्चिदेकत्वमित्यर्थः । एवमेवास्मा भिरेकत्वादिकं प्रतिषिध्यावक्तव्यत्वं व्यवस्थाप्यत इति भावः । न स्याद्वाददृष्टान्तोऽत्र युज्यते, दाष्टन्तिकस्य दृष्टान्ताद्वैधर्म्यादित्याह - तद्वैधर्म्यादिति । वैधर्म्यमेवाविष्करोति- न ह्येषामिति, स्याद्वादो हि वादप्रतिपाद्यपदार्थानां केनचित्प्रकारेण निग्रहस्य केनचिच प्रकारेणानुग्रहस्य विधाने क्षमोडत एव च वादानां स परम ईश्वर उच्यते, न ह्यत्रैकत्वादयः सर्वथा निषिध्यन्ते किन्तु वाद्यभि - 30 मतधर्मतिरस्कारद्वारेण ते निगृह्यमाणा धर्मान्तरव्यवस्थापनद्वारेणानुगृह्यन्ते, यथा हि वादिभिरेकत्वादीनामेकान्तभवनमभ्युपगतं
१ सि.क्ष. छा. डे. 'प्रायेगतै ० । २ सि. क्ष. छा. डे. ते च निर्वि० ।
Jain Education International 2010_04
'
For Private & Personal Use Only
www.jainelibrary.org