________________
अव्यक्तव्यता निर्मूलता ]
१०४५
सद् व्यावर्त्यते नान्यथेत्यवक्तव्यनिर्विषयता, एवमन्यत्वोभयत्वादावपीत्येकत्वादिप्रतिषेधाः किं कथमवक्तव्यम् ? ते तु निषेध्यानामतथात्वे निर्मूला अवक्तव्यत्वमेव व्यावर्त्तयन्तीति ।
www
(तत इति ) ततोऽन्यार्थे तु साक्षादन्यत्वमेव विशेषविषयं ततोऽन्यत्वनिषेधेऽतिस्फुट एव स्ववचनविरोध इत्युक्तम्, किनान्यत् तथा चानन्यत्वमपि - यथा चैकशब्दोऽस्मदुक्तन्यायेनान्यत्वे वर्त्तते तेन प्रकारेण तथाऽनन्यत्वमपि सिद्ध्यति, अनन्यत्वेन विनाऽन्यत्वस्याभावात्, तत आह-प्रतिपक्षाक्षेपादिति गता- 5 र्थम्, यथा व्याख्यातमेकत्वान्यत्वयोः परस्परप्रेत्य [पे]क्षत्वं तथोभयानुभयत्वयोश्चेति, एवं तावदेकत्व सिद्धप्रतिपक्षबलात् सिद्धं सद्व्यावर्त्यते नान्यथेत्यवक्तव्यनिर्विषयता नान्यथेत्युक्तम्, अनेन शेषमुक्तं भवतीत्यतिदिशति-एवमन्यत्वोभयत्वादावपीति, आदिग्रहणादनुभयत्वे चायं न्यायोऽवतार्य:, न तावद्भावस्य विशेषस्योभयस्य वा कथञ्चिदपि प्रविभागतोऽप्रविभागतो वाऽन्यत्वमस्त्युभयत्वमस्तीत्युपक्रम्यान्यत्वासिद्धावेकत्वाभावमुभयत्वाभावमुभयत्वासिद्धौ चैकत्वान्यत्वाभावं वाऽऽपादयित्वा भावयित [ व्य] मिति, तदुपसंहरति - 10 इत्येकत्वादिप्रतिषेधाः किं कथमित्यादि यावत् व्यावर्त्तयन्तीति, एवमुक्तविधिनैकत्वादिप्रतिषेधाः किं-के ते प्रतिषेधाः न भवन्तीत्यर्थः, तत्प्रतिषेधाभावात् कथमवक्तव्यमिति, निरुपपत्तिकं निर्विषयञ्चेत्यर्थः, ते तु - एकत्वादिप्रतिषेधा निषेध्यानामतथात्वे निषेध्यत्वाभावे निर्मूलत्वादवक्तव्य[त्व ] मेव व्यावर्त्तयन्तीति ।
द्वादशारनयचक्रम्
अत्राह
न पराभिप्रायगतैकत्वाद्येकान्तव्यावर्त्तनार्थत्वान्निर्मूलाः प्रतिषेधाः, न च निर्विषयम- 16 स्वरूपेणावधारयितव्यमिति वचनात् प्रागन्यत्वं विशेषाणां समर्थितम्, अत्र त्वेकशब्देन साक्षादेवान्यत्वं समर्थितं ततश्चान्यत्वप्रतिषेधे स्ववचनविरोधोऽतिस्फुट इत्यादर्शयति - साक्षादन्यत्वमेवेति । यथा चासहायलक्षणैकत्वाभावात् सर्वत्रान्यत्वस्य सद्भावादन्यवाच्येकशब्दः, तथा भेदात्मकान्यत्वस्याभेदपूर्वकत्वादनन्यत्वमपि सर्वत्रास्ति, अन्यत्वं हि सापेक्षं कुतोऽन्यत्वमिति, अनन्यस्माद्ध्यन्यत्वमतोऽन्यत्वं स्वप्रतिपक्षमनन्यत्वं तेन विना तदभावादाक्षिपति तस्मादनन्यत्वमपि सिद्ध्यत्यन्यत्ववदिति तत्प्रतिषेधे खवचनविरोध एवेत्याशयेनाह तथा चान्यत्वमपीति । तदेवमेकत्वान्यत्वयोः परस्पर।पेक्षत्वात् सर्वत्रोभयसिद्धिः तथोभयत्वमनु- 20 भयत्वमपि परस्परापेक्षमित्याह-यथा व्याख्यातमिति । एवं स्वप्रतिपक्षाक्षेपकत्वादेकत्वादीनां प्रतिपक्षसिद्धौ सत्यां त्वया तयावर्त्यत इति स्ववचनविरोधात् कोऽवक्तव्यत्वस्य विषयः स्यात्, असिद्धस्य तु न व्यावृत्तिः सम्भवतीत्याह एवं तावदेकत्वेति । एवमेवान्यत्वसिद्धप्रतिपक्षबलादुभयत्वसिद्धप्रतिपक्षबलादनुभयत्व सिद्ध प्रतिपक्षबलाच्च सिद्धं सद्व्यावर्त्त्यत इत्यवक्तव्य निर्विषयतेत्युक्तम्भवतीत्याह-अनेनेति । एवमेवानुभयत्वेऽपि विचारणा कार्येत्याह- अनुभयत्वे चेति । अवतारणदिशमादर्शयति- न तावद्भावस्येति, भावादेः प्रविभागतोऽप्रविभागतो वा नान्यत्वादिकम स्ति, सहासहभवनस्य द्विष्टत्वादित्यादिनाऽन्यत्वस्य निषिद्धत्वात्, 25 प्रविभागतोऽन्यत्वाभावात्, अप्रविभागतोऽप्यन्यत्वस्य सापेक्षतयाऽपेक्ष्यमाणस्यैकत्वादेरभावेनान्यत्वस्याप्यसिद्धेः सिद्धे ह्यन्यत्वे एकत्वादिकं तद्बलेन व्यावर्त्तयितुं शक्यम्, तत्तु नास्त्यन्यत्वमिति नैकत्वादिप्रतिषेधः, एवमेवोभयत्वासिद्ध्या एकत्वान्यत्वयोः प्रतिषेधाभाव उद्यः, तथैकत्वान्यत्वादीनां परस्परसापेक्षत्वेनान्यत्वादेरेकत्वाद्य विनाभावितयैकत्वादेरपि सिद्धावेकत्वादिनिषेधे स्ववचनविरोधोऽतिस्फुट एवेत्यादिभावना यथायोगं कार्येति भावः । इत्थमेकत्वादिप्रतिषेधासम्भवादवक्तव्यत्वं निर्विषयमेवेत्याहइत्येकत्वादिप्रतिषेधा इति । ते एकत्वादिप्रतिषेधाः प्रतिषेधप्रतियोग्येकत्वादीनां प्रतिषेध्यानां प्रतिषेध्यत्वाभावादवक्तव्य - 30 त्वमेव निर्मूलत्वाद्वयावर्त्तयन्ति, सति ह्येकत्वादौ तत्प्रतिषेधसम्भवेनावक्तव्यत्वं समूलं स्यात्, न चैवमिति दर्शयति - ते त्विति । नन्वेकत्वादिप्रतिषेधा निर्मूला न भवन्ति, परैर्हि एकान्तेनैकत्वाद्यभ्युपगम्यते तद्व्यावर्तनाय तत्प्रतिषेधाः, अत एव चावतव्यत्वं निर्विषयं न भवति, प्रतिषेधानामेकान्तैकत्वा दिव्यावर्त्तकतया सद्भावादित्याशङ्कते न पराभिप्रायेति । व्याचष्टे१ सि. क्ष. छा. डे. 'पादयिताभावयितमिति । २ सि. क्ष. डे. केन । ३ सि. क्ष. छा. डे. निर्मूला दिर्मूलत्वा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org