________________
mmmmmmm
www.immm
मेदाभेदपक्षनिरासः] द्वादशारनयचक्रम्
१०५५ भावत्वे वक्तव्यतैव, अभावत्वेऽप्यसदिति वक्तव्यतैवेत्यवक्तव्यत्वनिवृत्तिः, एवमस्मन्यायेन दोषः, किश्चान्यत्-तथा त्वदुक्तवदप्यवस्तुता-तेन प्रकारेण तथा-विशेषव्यतिरिक्तत्वन्यायेन त्वदुक्तेनैव तदवक्तव्याख्यं वस्त्ववस्तु कस्मात् ? अभूतावक्तव्यत्वात् भावकत्वा[दि]विशेषद्वारेण ह्यवक्तव्यत्वमुक्तम् , तद्व्यतिरिक्तत्वे तस्याभूतावक्तव्यत्वम् , अभूतावक्तव्यत्वाच्च खपुष्पवदवस्त्विति, भावपक्षेऽपि भवत्येव भवतीति भावस्य वक्तव्यत्वादभूतावक्तव्यत्यम् , तस्मात्त्वन्मतेनैव भावपक्षेऽप्यभूतावक्तव्यत्वात् प्रधानादिवत्तदवस्त्विति, । किश्चान्यत्-यथा चेत्यादि, यथा च तदवक्तव्याख्यं वस्तु विशेषव्यतिरिक्तमिष्यते तथा विशेषोऽप्यवक्तव्याख्याद्वस्तुनो व्यतिरिक्तो व्यतिरेकस्य द्विष्ठत्वात् , एवञ्च सति तदेवासत्त्वमनयोः वस्तुविशेषयोः प्राप्तम् , त्वदिष्टं वस्त्वसत्, अविशेषत्वात्-विशेषव्यतिरिक्तत्वात् खपुष्पवत्, विशेषोऽप्यसत्, वस्तुव्यतिरिक्तत्वात् , खपुष्पवत् , नो चेत् खपुष्पं स्यात् , विशेषव्यतिरिक्तत्वात् वस्तुवत् खपुष्पं सत् वस्तुव्यतिरिक्तत्वाद्वा विशेषवत्, तथा चेत्यादि, एवं तस्य वस्तुनोऽसत्त्वे सामान्यविशेषयोः किमेकत्वमन्यत्वमवक्तव्यमित्यादिविकल्प- 10 प्रपञ्चनमाकाशरोमन्थनवत् परिक्लेशमात्रफलम् , अयथार्थत्वादित्याकाशकुसुमसौरभासौरभादिविचारायथार्थत्यादिवदयथार्थत्वमस्य विचारस्योक्तविधिना सिद्धमित्येवं व्यतिरेकपक्षेऽप्यवक्तव्यत्वाभावः । ____ अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकं वस्त्वित्येष मे पक्षः, तथापि द्विर्विशेषांशवृत्तेः विशेषप्रधानावक्तव्योपसर्जनपक्षता, विशेष एवावक्तव्यत्वेन विशेष्यत्वाद्गौरदन्तुरत्वद्वयविशेषणविशेष्यदेवदत्तवत् प्रधानः, अवक्तव्यस्य चोपसर्जनता स्यादिति प्रधानोपसर्जनपक्षताप्रत- 15 कितोपस्थिताऽनिष्टा च सेति।। . (अथेति) अथावक्तव्यविशेषव्यतिरेकाव्यतिरेक-स्यान्मतं सामान्यविशेषैकत्वान्यत्वाद्यवक्तव्यगतिद्वयेऽपि वस्तु भावरूपेणासद्रूपेण वा वक्तव्यमेव' स्यादित्युत्तरयति-भावत्व इति । वक्तव्यत्वमस्मन्मतेनोक्तं त्वन्मतेन वस्तुनोऽवस्तुत्वमेवेत्याह-तथा त्वदुक्तवदपीति, वस्तुनोऽवक्तव्यत्वं सामान्यविशेषैकत्वान्यत्वादिविशेषैर्वक्तव्येभिन्नलक्षणत्वाद्विशेषव्यतिरिक्तत्वादुच्यते त्वया, तथा च तदवस्तु भवेदिति भावः। हेतुमाह-अभूतावक्तव्यत्वादिति, तद्वस्तु विशेष- 20 व्यतिरिक्तत्वान्न भवनस्वरूपं सामान्यविशेषौ हि भवनस्वरूपौ तस्मादभूतावक्तव्यं तत् तथा च खपुष्पवदभूतावक्तव्यत्वादसद्भवेदिति भावः। नापि त्वदीयं वस्तु भावस्वरूपं, तथात्वे भवतीति वक्तव्यत्वापत्तेः, तस्माद्भावत्वेऽपि प्रधानादिवदवस्तु, अभूतावक्तव्यत्वादित्याह-भावपक्षेऽपीति । तद्वस्तुनो विशेषव्यतिरिक्तत्वे च व्यतिरेकस्य द्विनिष्ठत्वात् विशेषोऽपि तद्वस्तुव्यतिरिक्तः पटस्य घटव्यतिरिक्तत्वे घटस्यापि यथा पटव्यतिरिक्तत्वम् , तथा च वस्तुविशेषयोरसत्त्वं स्याद्विशेषव्यतिरिक्तत्वात् , वस्तुव्यतिरिक्तत्वाच्चेत्याह-यथा चेत्यादीति । इदमेव प्रयोगतो दर्शयति-त्वदिष्टं वस्त्विति, अवक्तव्याख्यं वस्त्वित्यर्थः । 25 हेतुं व्याचष्टे-विशेषेति । वस्तुविशेषयोर्विशेषवस्तुव्यतिरिक्तत्वेऽपि यदि सत्त्वमिष्यते तर्हि खपुष्पमपि सत् स्याद्विशेषाद्वस्तुनश्च व्यतिरिक्तत्वादित्याह-नो चेदिति । उक्तापत्तिभीत्या तयोरसत्त्वमिष्यते चेत् तदा सामान्यविशेषयोरभावेन किं तयोरेकत्वमन्यत्वमुभयत्वमित्यादिविकल्पप्रपञ्च आयासमात्रमेव, असद्धर्मिकविचारत्वेनायथार्थत्वात् , आकाशकुसुमासत्त्वेन तत्सौरभासौरभविचारस्यायथार्थत्वमिवेत्याह-एवं तस्य वस्तुन इति। एवञ्च विशेषव्यतिरिक्तत्वपक्षेऽपि तद्वस्तु नावक्तव्यमित्युपसंहरति-पवं . व्यतिरेकपक्षेऽपीति । ननु सामान्यविशेषयोर्यथैकत्वान्यत्वादिभिरवक्तव्यत्वं तथाऽवक्तव्यविशेषयोरपि व्यतिरिक्तत्वेनाव्यतिरि- 30 कत्वेन चावक्तव्यत्वमेव, एवञ्चावक्तव्यविशेषव्यतिरेकाव्यतिरेकं वस्त्वित्याशङ्कते-अथावक्तव्येति । व्याचष्टे-स्यान्मतमिति ।
सि.क्ष. छा.डे. वस्त्ववस्तु तस्य कस्मात । २सि.क्ष.डे. व्यतिरेकाव्यतिरेकाव्यतिरेकं ।
द्वा० न० ८ (१३३) Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org