________________
wawan
www
१०५६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे त्ववद्व्यतिरेकाव्यतिरेको यस्मिंस्तद्वस्त्ववक्तव्यविशेषव्यतिरेकाव्यतिरेकमित्येष मे पक्ष इत्यत्रोच्यते'द्विर्विशेषांशवृत्तेविशेषप्रधानावक्तव्योपसर्जनपक्षता-विशेषस्य-भावविशेषकत्वादेर्भावविशेषैकत्वान्यत्वाद्यवक्तव्यधर्मांशवृत्तिलाभवद्व्यतिरिक्ताव्यतिरिक्तत्वविशेषावक्तव्यत्वधर्मांशवृत्तिलाभाद्विशेष एवावक्तव्यत्वेन वि
शेष्यत्वागौरदन्तुरत्वद्वयविशेषणविशेष्यदेवदत्तवत् ‘प्रधानोऽवक्तव्यस्य चोपसर्जनता च स्यात्, ततश्च 5 विशेषप्रधानावक्तव्योपसर्जनपक्षतेयं अप्रतर्कितोपस्थिताऽनिष्टा च सेति ।
किश्चान्यत्
तस्या अपि च रूपं निरूप्यम् , किमेकत्वमन्यत्वमुभयत्वमनुभयत्वं वेति प्रतिषेध्यविपक्षरूपस्याश्रयितव्यत्वात् , तत्र तस्य किं द्विर्विशेषांशवृत्तिराश्रीयते ? अथ नाश्रीयते ? अथा
श्रीयते निषिध्यमानप्रतिपक्षरूपता ततः पर्यायेण सांख्यादिवादगतानन्यत्वादिदोषप्रसङ्गः, 10 तत्र त्वयेवोक्तदोषास्तवाऽऽपतन्ति ।
(तस्या इति) तस्या अपि च रूपं निरूप्यम् , कथं निरूप्यमिति चेदुच्यतेकिमेकत्वमित्यादि, द्वाभ्यां न्यायाभ्यामन्यतरेणावश्यम्भाव्यत्वान्निरूप्यम् , तद्यथा-एकत्वे निषेध्येऽन्यत्वमापतति, अन्यत्वे निषेध्ये चैकत्वम् , तैयोनिषेधेऽनुभयत्वम् , अनुभयत्वनिषेधे चोभयत्वम् , तस्मात् प्रतिषेध्यविपक्षरूपमाश्रयितव्यम् , तच्च तस्य विशेषप्रधानावक्तव्योपसर्जनस्य द्विविशेष|[श]वृत्तिराश्रीयते त्वया, 15 अथ नाश्रीयते किमिति पृच्छामो गतिद्वयानतिवृत्तेरिति, किमिति च त्वयैव निरूपयितुम् , द्विधाऽपि च दोषः तत्र तावदथाऽऽश्रीयते निषिध्यमानप्रतिपक्षरूपता ततः पर्यायेण सांख्यादिवादगतानन्यत्वादिदोषोपादानम्
wwwmmmmmmmmm अवक्तव्यत्वं द्विधा विशेषांश एव वर्तत इति विशेषप्रधानावक्तव्यत्वोपसर्जनता प्रसज्यत इति समाधत्ते-द्विविशेषांशवृत्तेरिति, द्विः द्विवारं विशेषरूपेंऽशे वृत्तिरवक्तव्यत्वस्येत्यर्थः । तत्कथमित्यत्राह-विशेषस्येति, भावविशेषैकत्वान्यत्वादिरूपविशेषस्य, व्यतिरि
काव्यतिरिक्तत्वविशेषस्य चावक्तव्यत्वोक्त्या विशेषः प्रधानमवक्तव्यत्वमुपसर्जनम्, भावविशेषैकत्वान्यत्वाद्यवक्तव्यत्वरूपे धर्मे 20 व्यतिरिक्ताव्यतिरिक्तत्वविशेषावक्तव्यत्वरूपे धर्म चांशरूपेण-घटकतया विशेषस्य वृत्तरित्यर्थः स्यादिति भाति। विशेष एवेति । एतन्नयमतेन विशेषस्यैवावक्तव्यत्वस्य प्राधान्येन निरूप्यमाणत्वात्, विशेषोऽवक्तव्य इत्यवक्तव्यत्वेन विशेष्यमाणो विशेष एव प्रधानः, यथा गौरत्वदन्तुरत्वविशेषणद्वयेन विशेष्यमाणो देवदत्तः प्रधानः, अवक्तव्यत्वञ्च विशेषणत्वादुपसर्जनं भवेदिति भावः । एवञ्च विशेषप्रधानावक्तव्यत्वोपसर्जनतापक्षोऽनिष्टस्तेऽविचारलब्ध इत्याह-ततश्चेति । ननु परस्पराभावरूपैकत्वान्यत्वादियुगलन्यायेन प्रधानोपसर्जनताया अप्येकत्वेनान्यत्वेन वाऽवश्यम्भावनियमात्तस्या एकत्वादिखरूपमपि निरूप्यमित्याह-तस्या अपि 25 चेति । निरूपणविषयमाह-किमेकत्वमित्यादीति । परस्परपरिहारस्थितिकत्वमेकत्वादीनाह-एकत्वे निषेध्य इति ।
यदि नैकत्वं तयन्यत्वं प्राप्यते, यदि नान्यत्वं तर्खेकत्वम् , यदि नैकत्वान्यत्वे तर्खनुभयत्वम् , यदि नानुभयत्वं तद्युभयत्वमन्यतरेणावश्यम्भावनियमात् प्राप्यत इति भावः । एषु धर्मेषु निषिध्यमानस्य यः प्रतिपक्षस्तद्रूपत्वमवश्यमाश्रयणीयमित्याहतस्मादिति, अन्यतरेणावश्यम्भाव्यत्वादित्यर्थः । तच्चेति, प्रतिषेध्यविपक्षरूपमित्यर्थः प्रतिषेध्यविपक्षरूपमेव द्विर्विशेषांशवृत्तिः, द्विविधो यो विशेषः एकत्वान्यत्वादिरूपः, तदंशे एकत्वेऽन्यत्वे वा वृत्तिरिति, सा च वृत्तिः विशेषप्रधानावक्तव्यत्वोपसर्जनतायाः 30 किमाश्रीयते उत नेति पृच्छति पृच्छायां कारणमाह-गतिद्वयेति, एकत्वं वा स्यादन्यत्वं वा नान्या गतिरस्तीति भावः । प्रश्नोऽपि त्वयैव निरूपयितुमित्याह-किमिति चेति। तत्र दोषं दर्शयति-अथाश्रीयत इति । निषिध्यमानो य एकत्वादिस्तत्प्रतिपक्षोऽन्य.
१ छा. तथापिद्विविशेषांचवृत्तेः, क्ष. डे. द्विविशेषांशावृत्तेः। २ सि. क्ष. छा. डे. किमेतत्वेत्यादि। ३ सि. क्ष. छा.डे. निषेध्येनैकत्वं । ४ सि.क्ष. छा. डे. "द्विविशेषां वृत्तेराश्रीयस्वेत्वया।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org