________________
अनाश्रयणपक्षभङ्गः] द्वादशारनयचक्रम्
१०५७ यदा विशेषान्यत्वं निषिध्यते तदा सांख्यमतमेकत्वमुपात्तं स्यात् यदि चैकत्वं निषिद्ध्यते तदा वैशेषिकाभिमतान्यत्वोपादानता, आदिग्रहणात् पुरुषकालादिकारणवादोपादानम्, कार्यमात्रसमुदायवादोपादानश्च, तत्र ये दोषास्त्वयैवावक्तव्यवादिनाऽभिहितास्त एवाशेषास्तवापतन्ति, सर्वथाऽप्यवचनीयमिति वचनात् तद्वारेणाशेषदोषप्रसञ्जनात् ।
अथ मा भूवन्नमी दोषा इति नाश्रीयते प्रतिषेध्यप्रतिपक्षरूपं ततः
प्रतिपक्षरूपानाश्रयणे सर्वविकल्पानां निवर्तनाद्वस्त्वत्यन्तमसदिति कुत आयाताऽवक्तव्यता ? अनवधारणपरिग्रहेत्वेकं द्रव्यमनन्तपर्यायमिति वादपरमेश्वरशरणं प्रपन्नोऽसि तथापि तेऽभ्युपगमविरोधाद्विजिगीषुतां निरुणद्धि।
(प्रतिपक्षेति) प्रतिपक्षरूपा[ना]श्रयणे सर्वविकल्पानामित्यादि यावत् कुत आयाताऽवक्तव्यता ? प्रतिषेध्यप्रतिपक्षरूपमनाश्रित्य प्रतिषिद्धेऽन्यतमविकल्पे निवत्तावताऽकृतार्थस्सन् विकल्पान्तरमपि निवर्त्तयेत् , 10 अनेनैव क्रमेणैकैकं निवर्त्य सर्वविकल्पेषु विशेषैकत्वादिषु निवर्तितेष्वत्यन्तमसत् स्यात्, न सद्वस्तु, ततश्च कुत इयमवक्तव्यताऽऽयाता ? विकल्पान्तरप्रतिषेधेन हि विकल्पान्तराभ्युपगमे तदेकान्तनिराकरणद्वारेणावक्तव्यवस्य गमनं स्यात, न हि सर्वविकल्पातीतस्य खपुष्पादेरवक्तव्यता स्यात् , स्यान्मतमनवधारितैकत्वादिविशेष सर्वाकारमेकमप्यन्यदप्यवक्तव्यमपीत्यादि परिगृह्यते तद्वस्त्विति चेदेवं तर्हि-अनवधारणपरिग्रहे त्वित्यादि, सर्वेषां विकल्पानामेकत्वादीनामवधारणमन्तरेणानुमत्य परिग्रहादेकं द्रव्यमनन्तपर्यायमिति वस्त्व- 15 भ्युपगम्यम् , स्यादेकं स्यान्नाना स्यादुभयं स्यादनुभयं स्यादवक्तव्यमिति तदपि स्याद्वादपरमेश्वरं शरणं प्रपन्नो
wwwwwwwwwwww
त्वादिस्तद्रूपताऽथाऽऽश्रीयते तर्हि निषिध्यमानेऽन्यत्वे एकत्वपक्षाश्रयणात् सांख्यवादगतदोषप्रसङ्गः, एकत्वप्रतिषेधे च वैशेषिकाभिमतान्यत्वप्राप्तिरिति भावः । सांख्यादिवादेत्यत्रादिग्रहणेन पुरुषकालादिवादा ग्राह्या इत्याह-आदिग्रहणादिति। एकत्वान्यत्ववादेषु त्वया प्रदर्शिता अशेषा दोषा निषिद्ध्यमानप्रतिपक्षरूताश्रयणात्तवाप्यापतन्तीत्याह-तत्र ये दोषा इति । अथ सांख्यवैशेषिकादिवादगतदोषप्रसक्तिर्मा भूदिति निषेध्यप्रतिपक्षरूपता न स्वीक्रियते तयेकत्वान्यत्वादिनिखिलविकल्पपरित्यागेन वस्तु अत्यन्तमसत् स्यात् , तदन्यतमविकल्पव्याप्यत्वाद्वस्तुनः, तथा च कस्यावक्तव्यतेत्याह प्रतिपक्षरूपानाश्रयण इति । प्रतिषेध्यो य एकत्वादिस्तत्प्रतिपक्षस्यान्यत्वादेरनाश्रयेणैकत्वादेः प्रतिषेधे सर्वविकल्पानां निवर्त्तनं स्यात्, एकत्वे प्रतिषिद्धेऽपि तावताऽपरितोषादन्यत्वादीनपि निवर्तयेत्, तदेवं क्रमेण सर्वेषु विकल्पेषु निवर्तितेषु न किमप्यवशिष्यत इत्यत्यन्तमसदेव स्यात्तथा च कस्यावक्तव्यता स्यादिति व्याचष्टे-प्रतिषेध्यप्रतिपक्षेति । अवक्तव्यत्वं हि तदा सम्भवेद्यदैकत्वादि विकल्पान्तरं निवर्तयित्वा तत्प्रतिपक्षस्यान्यत्वादिविकल्पान्तरस्याभ्युपगमे सति तदेकान्तस्य निराकरणेन वस्तुनोऽवक्तव्यत्वं सम्भवेत्, न तु, सर्वविकल्पप्रतिषेधे, तथा सति गगनकुसुमादेरेवावक्तव्यता स्यादिति प्राह-विकल्पान्तरेति। नन्वेकत्वान्यत्वादिनिखिलाकारमपि वस्तु एकान्तेनैकमिति न वाच्यमेकान्तेनान्यदित्यपि न वाच्यमित्येवमेकान्तनिराकरणेन तद्वस्त्ववाच्यमित्युच्यत इत्याशङ्कतेस्यान्मतमिति । तथा सति वादपरमेश्वरमतमाश्रितोऽसि, वस्तुन एकस्यैकत्वान्यत्वादिसर्वविकल्पात्मकत्वाभ्युपगमेन वस्तुनोऽनन्तपयोयैकद्रव्यात्मकत्वादिति समाधत्ते-अनवधारणेति । कथं वस्त्वभ्युपगतमित्यत्राह-स्यादेकमिति । एवमभ्युपगमेन वादपरमेश्वरशरणगमनानावशिष्यते किञ्चिद्वक्तव्यं तथापि तेऽभ्युपगमविरोधः, विजिगीषुताभङ्गश्चेति भावः । अभ्युपगमविरोधः ।
१ सि. क्ष. छा. डे. °स्याद्यवनैक० । २ सि. क्ष. छा. डे. तदास्त एव । ३ सी. क्ष. छा. डे. निवत्यैतावति कृ० । ४ सि.क्ष. छा. डे. त्वस्यागमनं । ५ सि. क्ष. छा. डे. °नुमतापरि० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org