________________
१०५४
न्यायागमानुसारिगीव्याख्यासमेतम् [नियमविधिनयारे ऽसीति न किञ्चिद्वक्तव्यः संवृत्तः, तथापि वादपरमेश्वरशरणगमनं तेऽभ्युपगमविरोधान्मनस्विनो विजिगीषुतां निरुणद्धि तेनापि सह विरुद्धत्वात् पूर्वमिति ।
अथैकान्तवादगतदोषविदूरीकरणार्थमसदेव तद्वस्त्विति वदेत्तदपि न शोभनं विशेषद्वारा निषेधानुपपत्तेः, ततोऽप्ययुक्तमवक्तव्यत्वम् , विशेषधर्मासत्त्वे विशेष्यत्वाभावात् , । खपुष्पवत् । . अथैकान्तेत्यादि, अथ मतं निषेध्यप्रतिपक्षकान्ताभ्युपगमे त एव मदुक्ता दोषाः, स्याद्वादाभ्युपगमेऽभ्युपगमविरोधः, तद्भावादेकान्तवादगतदोषविदूरीकरणार्थं पर्यायेण प्रतिषिद्धप्रतिपक्षसद्भावमनभ्युपगम्य [अ]सदेव तद्वस्त्विति वदेत्-उच्येत त्वया, एतदप्यशोभनम् , विशेषद्वार[7] निषेधानुपपत्तेः, ततोऽ.
प्येयुक्तमित्यादि, यद्यत्यन्तासदेव तद्वस्त्विस्य खपुष्पवदत्यन्तासत्त्वाद्भावविशेषैकत्वान्यत्वमवक्तव्यमित्ययु10 क्तम्-विशेषधर्मासत्त्वे विशेष्यत्वाभावात् खपुष्पवत् , एवं प्रत्येकमेकत्वान्यत्वाभ्यां भावविशेषयोरवक्तव्य
मयुक्तम् , असत्त्वे उभयत्वेनाप्ययुक्तम् , सदाश्रयत्वाञ्चोभयलक्षणस्य, एकत्वान्यत्वयोः सत्त्वात्तबारेण चानुभयत्वस्यात्यन्तासत्त्वस्याप्यवक्त व्य]ता सिद्ध्यतीत्यभिप्रायस्य त्वयैव कृतत्वात् ।।
___ अथोच्येत प्रतिपादनार्थ विशेषैकत्वान्यत्वाद्यसदेव कल्प्यते, ग्रामादिपथोपदेशे दिगादिप्रदर्शनवत् , अत्र त्रिलक्षणोपपत्तेस्तत्र तयोश्च स्वरूपेणावक्तव्यतैवेति, एवं तर्हि ननु प्रतिपा७ दनमित्यप्यवचनीयमेव, अत्यन्तासत्त्वात् खपुष्पवत् प्रतिपादनमिति चोच्यते त्वया लोकदृष्टप्रतिपादनवैधये॒ण, विशेषवचनस्य च विशेषाविशेषायेकत्वाद्यवक्तव्यत्वात् , प्रतिपाद्यप्रतिपाद
कयोरपि चैकत्वान्यत्वाद्यवक्तव्यत्वात् तदवचनीयत्वे च तत्सत्त्वमवश्यम्भावि, वक्तव्यवत् । • कथमित्यत्राह-तेनापि सहेति, स्याद्वादेनापि सहेत्यर्थः । ननु प्रतिषेध्यप्रतिपक्षरूपानाश्रयणे स्याद्वादानभ्युपगमे च सर्वविकल्प
निवर्त्तनादत्यन्तमसद्वस्तु भवेदिति प्रोक्तदोषं यद्यभ्युपगम्यते, एकान्तवादाभ्युपगमप्रसञ्जितापत्तिपरिहारार्थ तदापि दोषं वक्तुमाह20 अथैकान्तवादेति । अथ मतमिति, निषिध्यमानप्रतिपक्षरूपतैकान्ताभ्युपगमे पर्यायेण सांख्यवैशेषिकादिवादगतैकत्वान्यत्वादिदोषाः प्रागुक्ताः सम्भवन्ति, तदनेकान्ताभ्युपगमे तु स्याद्वादाभ्युपगमप्रसङ्गेनाभ्युपगमविरोधः, तस्मादेकान्तैकत्वाद्यभ्युपगमप्रसक्तदोषप्रतिक्षेपार्थमसदेव वस्त्विष्यत इति भावः । मतमिदं निराकरोति-विशेषद्वारेति, सामान्यविशेषयोरेकत्वान्यत्वादिविशेषद्वारेण वक्तव्यत्वनिषेधो नोपपद्यते, वस्तुनोऽत्यन्तासत्त्वात् , खपुष्पवत् , ततश्च नास्ति धर्मी, यस्य सामान्यविशेषैकत्वान्य
स्वादिविशेषद्वारेणावक्तव्यत्वं धर्मः स्यात् , एकत्वान्यत्वादिविशेषाणामसत्त्वेन धर्माभावाद्वा नास्ति धर्मी योऽवक्तव्यो भवेत् , 26 तस्मादेकत्वेनान्यत्वेन सामान्यविशेषयोरवक्तव्यत्वमयुक्तमिति भावः। तदेवाह-यद्यत्यन्तासदेवेति । प्रत्येकमेकत्वस्यान्यत्वस्य -चासत्त्वेनैकविशिष्टापरत्वरूपोभयत्वमप्यसदिति तेनापि वस्त्ववक्तव्यमित्ययुक्तमित्याह-असत्त्व इति, एकत्वान्यत्वयोरसत्त्व इत्यर्थः। एकत्वान्यत्वयोः सत्त्वादेवानुभयत्वस्याभावात् तेनाप्यवक्तव्यमित्ययुक्तम्, त्वयापि सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां लक्षणाभ्यां व्यवस्थितत्वादेकत्वान्यत्वयोरनुभयत्वं नास्तीत्यनुभयताप्यवक्तव्यैवेति वदताऽनुभयत्वस्यासत्त्वप्रतिपादनादित्याश
येनाह-एकत्वान्यत्वयोरिति । यद्यप्यवाच्यं वस्तु, तद्व्यतिरिक्तस्य सामान्यविशेषैकत्वान्यत्वादिधर्माणामसत्त्वं तथापि सत्य30 भूतावाच्यवस्तुप्रतिपादनार्थं त एकत्वादिधर्माः प्रकल्पिता इत्याशङ्कते-अथोच्यतेति । धर्मशून्यस्य सर्वथैवाव्यवहार्यस्याबुधान् ५ प्रति प्रतिबोधनाय सामान्यविशेषैकत्वान्यत्वादिधर्मेष्वसत्स्वपि वस्तुत्वाभिमानेन ततो रेखागवय प्रदर्शनेन सत्यगवयप्रतिपत्तिवत्, ईडरनगरमार्गोपदेशार्थमवाचीदिगादिप्रदर्शनवचित्रभक्तये बिन्दुविन्यसनवच्च तत्त्वभूतं वस्तु समीक्ष्यत इति व्याकरोति
१ सि.क्ष. छा. डे. सद्वस्तु । २ सि. क्ष. छा. डे. ततोऽप्यमुकेत्यादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org