________________
बोध्यबोधकमेदासत्वोक्तिः] द्वादशारनयचक्रम्
१०५९ (अथोच्येतेति) अथोच्येत प्रतिपादनार्थम् , 'उपायः शिक्ष्यमाणानां बालानामुपलालना। अतत्त्वे वर्त्मनि स्थित्वा ततस्तत्त्वं समीयते ( ) इति विशेषैकत्वान्यत्वाद्यसदेव प्रतिपादनार्थ कल्प्यते, गतिरियं प्रतिपादनस्य, प्रामादिपथोपदेशे दिगादिप्रदर्शनवत् , चित्रभक्तिविन्यसनवदिति, अत्र त्रीलक्षणोपपत्तेः-प्रतिषेध्यप्रतिपक्षसत्त्वे ह्येकत्वान्यत्वयोः सत्त्वमितरेतरनिषेधार्थापत्तिविहितमुभयलक्षणं तत्त्वमापद्येत, अनिष्टञ्चैतत् , तस्मात्तत्र-अवाच्यवस्तुनि तयोश्च-एकत्वान्यत्वयोः स्वरूपेणावक्तव्यतैवेति, अत्र: घूमः-एवं तर्हि ननु प्रतिपादनमित्यप्यवचनीयमेव-यत्तदेकत्वादिप्रतिपादनमसत्कल्पितमुपायत्वाभिमतं तत्प्रतिपादनमित्यवचनीयमत्यन्तासत्त्वात् खपुष्पवत् , प्रतिपादनमिति चोच्यते त्वया, प्रतिपादनं हि लोके विशेषवचनं दृष्टं यो गौरः स देवदत्त इति तद्वैधhण, तच्चासत्त्वाद्विशेषवचनं प्रतिपादेनमुक्तम् , किश्चान्यत्विशेषवचनस्य विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात्-वचनमपि किं विशेषोऽविशेष एकोऽन्य उभयमनुभयमवक्तव्यमित्येवमादिविकल्पेष्ववक्तव्यमतो विशेषवचनस्याप्यवचनीयत्वात् प्रतिपादनं प्रतिपादनमित्यवचनीयम् , 10 किञ्चान्यत्-प्रतिपाद्यो यश्शब्दः यश्च प्रतिपादकस्तयोरप्येकत्वान्यत्वोभयत्वाद्यवक्तव्यम् , तस्मादपि प्रतिपादनमित्यवचनीयम् , तदवचनीयत्वे च तत्सत्त्वमवश्यम्भावि, वक्तव्यवदिति ।
अथोच्येत न प्रतिपाद्यात् प्रतिपादकभेदोऽस्ति, किन्तु सर्वस्य विशेषणसविशेष्यस्यास्य वाक्यसंघातस्यैकस्यैवोक्तप्रकारेणावक्तव्यार्थप्रतिपादनवचनाददोष इत्यत्र ब्रूमः, ननु यद्यवचनीप्रतिपादनार्थमिति । अत्रार्थे प्रमाणभूतां कारिकामादर्शयति-उपाय इति । एकत्वान्यत्वोभयत्वानां त्रयाणां लक्षणोपपत्त्या 15 सत्त्वं भवेत् , निषेध्यप्रतिपक्षरूपताया आश्रयणे ह्येकस्य प्रतिषेधेऽपरस्यापरस्य प्रतिषेधे चैकस्य सत्त्वादितरेतरनिषेधेनार्थापत्त्योभयरूपं तत्त्वमापद्यतेत्याह-अत्र त्रीति । अनिष्टञ्च तथाविधं तत्त्वमतोऽवाच्ये वस्तुन्येकत्वान्यत्वयोः स्वरूपतोऽसत्त्वमेव, प्रतिपादनार्थमेव केवलं कल्प्येते इत्याह-अनिष्टश्चैतदिति । एकत्वादिप्रतिपादनमुपायभूतमप्यसदेव, तदप्यवचनीयमेव खपुष्पवदत्यन्तासत्त्वादित्युत्तरयति-एवं तीति । अवाच्यवस्तुपरिज्ञानायोपायभूतमप्येकत्वान्यत्वादिप्रतिपादनमवचनीयमेव, खपुष्पवदत्यन्तासत्त्वादित्याह-यत्तदेकत्वादीति । लोके हि प्रतिपादनं विशेषाभिधानरूपं दृश्यते, कीदृशो देवदत्त इति देवदत्तखरूपजिज्ञासायां यो गौरः स देवदत्त इति गौरवलक्षणविशेषवचनेन देवदत्तस्वरूपं निर्धार्यते, त्वया तु तद्वैधhण प्रतिपादनमुच्यते,30 यत एकत्वादिप्रतिपादनमसद्विषयमभ्युपगम्यत इत्याह-प्रतिपादनमितीति, तद्वैधयेण-लोकदृष्टप्रतिपादनवैधयेण, प्रतिपादनमुच्यते त्वयेति योजनीयम् , तच्च-वैधर्म्यञ्च । ननु विशेषवचनमपि किं विशेषरूपं सामान्यरूपं वा, एकमन्यदुभयमनुभयं वेत्यादिविकल्पोत्थानेन तैरवक्तव्यमेव, तस्मात् प्रतिपादनं प्रतिपादनमित्यवचनीयमित्याह-विशेषवचनस्येति । व्याचष्टे-वचनमपीति। प्रकारान्तरेणाप्यवचनीयत्वमाह-प्रतिपाद्य इति, विशेषवचनरूपं प्रतिपादनं सामान्य प्रतिपाद्यम् , तस्य च यः प्रतिपादको विशेषरूपस्तयोः किमेकत्वमन्यत्वं वेत्यादिविकल्पैरवचनीयत्वादपि प्रतिपादनमित्यवक्तव्यमिति भावः । ननु प्रतिपाद्यं विशेषवचनम-25 वाच्यम् , प्रतिपादकोऽप्यवाच्यः, तयोश्च प्रतिपाद्यप्रतिपादकयोः परस्परमवचनीयत्वादवचनीयस्यावचनीयत्वेन द्विःप्रतिषेधस्य प्रकृत्यापत्तेः प्रतिपाद्यं वचनीयमेव स्यात् , तथा प्रतिपादकोऽपि, तस्मात् प्रतिपाद्यस्य विशेषवचनस्य सत्त्वमवश्यं स्यात् , यथाऽवक्तव्यं वक्तव्यमेवेति प्रागुक्तं तद्वदित्याशयेनाह-तदवचनीयत्वे चेति, प्रतिपादनस्यावचनीयत्वे च प्रतिपादनस्य सत्त्वमवश्यम्भावि, प्रोक्तहेतोरिति भावः । ननु प्रतिपाद्यस्यावक्तव्यसामान्यस्य प्रतिपादकस्य विशेषरूपस्य च नास्ति भेदः, येनाखण्डवाक्यतदर्थयोर्म्युत्पत्तावुपायः स्यात् , किन्तु निरंशस्य वाक्यस्यैवैकस्य संघातात्मकस्यावक्तव्यार्थवाचकत्वमित्याशङ्कते-अथोच्येतेति । व्याकरोति-30
सि.क्ष. छा. डे. प्रतिपादनात्रमुपायः। २ सि.क्ष. छा. डे. स्थितत्वात् । ३ सि.क्ष. छा. डे. दितिरत्नत्रयः। ४ सि.क्ष. छा. डे. °क्षासत्त्वे। ५सि.क्ष. छा. डे. "दनं युक्तम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org