________________
१०६०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे यमित्येतदप्यवचनीयमेव, वस्तुत्वात्तदर्थवदिति, अत्रेदानी परमनिश्चये त्वदीये तत्तावत् प्रत्यक्षमुच्यमानं किं कथञ्चिदवचनीयं ? सर्वथा वा ? उभयथा च प्रत्यक्षादिविरोधाः, एकत्वेनान्यत्वेनोभयत्वेनानुभयत्वेनान्यतरप्रधानोपसर्जनतया तथातथावचनीयत्वात् ।
अथोच्यतेत्यादि, ने प्रतिपादकभेदोऽस्ति अवक्तव्यस्य, नापि 'केचिद्विशेषाः प्रतिपादकाः, प्रति5 पाद्यात् सामान्याद्भिद्यन्ते, किन्तु सर्वस्य विशेषणसविशेष्यस्यास्य वाक्यसंघातस्यैकस्यैवोक्तप्रकारेणावक्तव्यार्थप्रतिपादनवचनाददोष इत्यत्र ब्रूमः, ननु यद्यवचनीयमित्यादि, गतप्रत्यागतेन विरोधापादनं गतार्थम् , अथोच्येत त्वयाऽवचनीयमित्येतदपि वचनमवचनीयमेव, अहो पुनरहमवचनीयवादी यत्किश्चिद् वचनीयमपि प्रतिपद्येय! किन्तु सहार्थेन प्रतिपाद्यप्रतिपादकभेदरहितं समस्तवृत्तिवचनमेतदपि नोच्यत एव वस्तुत्वात्तदर्थवत् , इत्यत्रेदानी परमनिश्चये तदीये तत्तावत् प्रत्यक्षमुच्यमानं-श्रूयमाणं वचनीयं तस्यावचनीयत्वे 10 द्वयी गतिः-तत् किं कथञ्चिदवचनीयं ? सर्वथा वेति ? पर्यनुयुज्य दूषणं-सर्वथा वेत्यादि, उभयथा च सर्वथा,
यदि केनचित्प्रकारेण यदि सर्वथेत्यर्थः, तत्र यदि केनचित्प्रकारेणावचनीयं यथा सामान्यविशेषैकत्वान्यत्वादिविकल्पानामन्यतमेन त्वयैवोक्त्वोक्त्वा तस्यावक्तव्यत्वप्रतिपादनस्य कृतत्वात् , एकत्वेनान्यत्वेनोभयत्वे नानुभयत्वे] नान्यतरोपसर्जनप्रधानतया तथा तथा वचनीयत्वात् , प्रत्यक्षश्रूयमाणत्वात् प्रत्यक्षविरोधः, स्वयमुक्तेः
स्ववचनविरोधः, स्वयमभ्युपगमादभ्युपगमविरोधः, भिन्नव्यवस्थानलक्षणत्वादिनाऽनुमानेन तथा तथा चोक्त15 प्रकारेणानुमानादनुमानविरोधः, लोके शास्त्रेषु च वाच्यवाचकभेदप्रसिद्धेर्लोकागमविरोधी, एवं तावत् केनचित्प्रकारेणावक्तव्यत्वे एते स्ववचनादिविरोधाः, सर्वथाप्यवक्तव्ये तथैव प्रत्यक्षादिविरोधाः ।।
इत्येवंविधमवस्तु, सर्वथाऽप्यरूपत्वात् खपुष्पवत् , सर्वेण वा विरोधात् , खपुष्पवदेव, प्रत्यक्षरूपादिवत् , ज्ञानसुखादिरूपादिवत् , तस्मान्नावक्तव्यं वस्तु । न प्रतिपादकेति, अवक्तव्यस्य प्रतिपाद्यस्य यत्प्रतिपादकं वाक्यं न तस्य क्रियाकारकादिपदभेदोऽस्ति, अखण्डत्वेन निरंशत्वात्, 20 नापि ये प्रतिपादकाः केचिद्विशेषा वाक्यरूपास्ते प्रतिपाद्यादवक्तव्यादर्थात् सामान्याद् भिद्यन्ते. किन्तु क्रियाकारकादिनिखिलविशेषणपदसंघातलक्षणस्यैकस्य वाक्यस्यावक्तव्यार्थकत्वमिति भावः। समाधत्ते-ननु यद्यवचनीयमित्यादीति, यद्यवचनीयमित्येतद्वचनं किं वचनीयमवचनीयं वेति विकल्पे पूर्ववदेव गतानां दोषाणां प्रत्यागतत्वात् स्ववचनादिविरोधाः स्युरिति भावः। त एवाह-अथोच्येत त्वयेति, अहं ह्यवचनीयवादी, किञ्चिदपि वचनादि वस्तु वचनीयमिति नाभ्युपैमि, किन्त्वर्थः
प्रतिपाद्यो वचनं प्रतिपादकमित्येवं प्रतिपाद्यप्रतिपादकभेदरहितं विशिष्टसंसर्गवृत्तिवचनम् , तयोश्वार्थवचनयोरेकत्वान्यत्वोभयत्वाद्यने25 कात्मकार्थत्वस्यावचनीयत्वेन परिग्रहादनेकार्थे स्थितं वचनमेकरूपेणावधारयितुमशक्यत्वादवचनीयमुच्यते वस्तुत्वात् तदर्थवदिति
मदीयः परमो निश्चय इति भावः । यद्येवं ते परमनिश्चयस्तर्हि प्रत्यक्षतः श्रूयमाणं यद्वचनं तस्यावचनीयत्वे किं कथञ्चिदवचनीयम् ? सर्वथा वा तदिति वक्तव्यमिति पृच्छति-इत्यत्रेदानीमिति । उभयथा दोषमादर्शयति-उभयथा चेति, सर्वेण प्रकारेणेत्यर्थः, गतिद्वयस्यैव सम्भवेन स एव सर्व प्रकार इत्याशयेनार्थमाह-यदीति । केनचित्प्रकारेणावचनीयत्वे प्रत्यक्षादिविरोधानाहतत्र यदि केनचिदिति । तानेव प्रकारानाह-यथा सामान्येति । तत्र दोषमाह- एकत्वेनेति, एकत्वादिना वचनीयताया 30 एव दर्शनात् , प्रत्यक्षादिविरोधाः, श्रूयते हि प्रत्यक्षतो घटादिरियेकं वस्तु, घट इत्यायेकं पदम् , घटः पटादन्यः, घटपदं पटपदा
दन्यदित्येवमिति भावः । उच्यतेऽपि स्वयं त्वया तथेति वचनविरोध इत्याह-स्वयमुक्तरिति. सामान्यमेकं विशेषा अनेके इत्येवं स्वयमभिधानादित्यर्थः। अभ्युपगमादिदोष नाह-स्वयमिति। सर्वथाप्यवक्तव्यत्वे एवमेव प्रत्यक्षादिविरोधा इत्याह-सर्वथापीति।
५ छा. न प्रतिपाद्यप्रतिपादक० । २ सि.क्ष. छा. डे. केनचिद्विः । ३ सि. क्ष. छा डे. °इत्यत्रेदानी रित्यातां परम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org