________________
mmmmmmmmmmmmmm
निर्विचारावक्तव्यत्वभङ्गः] द्वादशारनयचक्रम्
१०६१ इत्येवंविधमवस्तु, इतिशब्दो हेतूपसंहारार्थः, एतस्मात् कारणादवक्तव्याख्यं यदेवंविधं विकल्पितं त्वया वस्त्विति तदवस्तु, कस्मात् ? सर्वथाऽप्यरूपत्वात्-सर्वैः प्रकारैः सर्वथा, यदि सामान्यविशेषैकत्वान्यत्वादिविकल्पैर्वाच्यमवाच्यम् , अथ तैरव्यतिरेकव्यतिरेकादिविकल्पैर्वाच्यमवाच्यमत्यन्तम् , तदेव वा सामान्यविशेषशब्दप्रतिपाद्यप्रतिपादकादिविकल्पैर्वा वक्तव्यमवक्तव्यश्चेत्याधुक्तविधिना सर्वथा विचार्यमाणस्य रूपं नावतिष्ठते, तस्मात् सर्वथाऽप्यरूपं खपुष्पवदवस्तु तत् , किञ्चान्यत्-सर्वेण वा विरोधात्, । अवस्त्विति वर्त्तते, उक्तविधिनैव सर्वेण स्ववचनादिना प्रमाणेनानेन विरुध्यत एव, अतोऽप्यवस्तु खपुष्पवदेवेति साधर्म्यदृष्टान्तः, इतरः प्रत्यक्षरूपादिवदिति वैधHदृष्टान्त इत्यर्थः, यस्य रूपमस्ति तत्सर्वेण न केनचिद्विरुध्यते, यथा प्रत्यक्षं स्वसंवेद्यं सर्ववादिनं प्रति, ज्ञानसुखादिरूपादिवदिति विज्ञानमात्रशून्यवादिनं मुक्त्वाऽन्यान् प्रति, तस्मात् नावक्तव्यं वस्त्वित्युपसंहारः ।
नापि निर्विचारवक्तव्यमेकान्तवादप्रसङ्गात् तत्र चोक्तदोषत्वात् , विशेषोऽपि रथा- 10 दिवन्न भवति वस्तु, समुदायत्वात् , न भावोऽपि, त्वयैव प्रतिषिद्धत्वात् कुतस्तदेकत्वाद्यवक्तव्यता।
(नापीति) नापि निर्विचारवक्तव्यम् , एकान्तवादप्रसङ्गात् , तत्र चोक्तदोषत्वात् , न द्रव्यं न कारणं न सामान्यमिति पूर्वोद्राहितविकल्पप्रतिषेधेनानेकत्वं तेषामेव यथा त्वयैव[अ]वक्तव्यवादिना निषिद्धम् , स्यान्मतं विशेषस्तर्हि घटादिरस्तु वस्तु, तदपि रथादिवदिति न भवति वस्तु, सत्यपि विशेषत्वे समु-1B
mmmmmmmm
प्रतिज्ञार्थमाह-इतिशब्द इति। हेतुमाह-सर्वथेति। कैः प्रकारै रूप्यमित्यत्राह-यदीति । सामान्यविशेषैकत्वान्यत्वादिविकल्पैः व्यतिरिक्तत्वाव्यतिरिक्तत्वादिविकल्पैः सामान्यविशेषशब्दप्रतिपाद्यप्रतिपादकादिविकल्पैर्यद्वक्तव्यं वस्त्वभिमतं तदवाच्यमिति प्रोक्तविधिना निरूपयितुमशक्यत्वात् सर्वथाऽनिरूप्यं तत्, कस्याप्येकत्वादिरूपस्यावस्थानाभावात् , खपुष्पवत्तस्मादवस्तु तदिति भावः । हेत्वन्तरमाह-सर्वेण वा विरोधादिति, एवंविधमवस्तु, सर्वेण विरोधात् , साधर्म्यदृष्टान्तः खपुष्पवत् , वैधHदृष्टान्तः प्रत्यक्षरूपादिवत् , ज्ञानसुखादिरूपादिवद्वेति प्रयोगः, एकत्वादिप्रतिषेधस्यान्यत्वाद्यभ्युपगमाविनाभावित्वेन पुनस्तत्प्रतिषेधात् सामा- 20 न्यविशेषयोरेकत्वादिकं वाच्यत्वेनाभ्युपगम्य प्रतिषेधाच्च ववचनाभ्युपगमादिविरोधः, शब्दार्थयोः संवृतिमात्रार्थत्वेनापरमार्थत्वादवक्तव्याख्यवस्तुनोऽविदितत्वाद्धर्मधर्मिविभागव्यवस्थाभावात् पक्षसाध्याद्यसाधनत्वात् सर्वेण स्ववचनादिप्रमाणेन विरोधानास्त्यवक्तव्यं वस्तु, खपुष्पवदेवेति भावः । वैधHदृष्टान्तमाह-प्रत्यक्षरूपादिवदिति । ज्ञानसुखादीति, विज्ञानमात्रवादिमते विज्ञानस्य सत्त्वेऽपि सुखादिरूपाद्यभावाच्छून्यवादिमते सर्वस्याप्यभावात् तान् मुक्त्वाऽन्यान् प्रति दृष्टान्तोऽयमिति भावः । नन्वेकत्वान्यत्वादिविकल्पैरवचनीयं वस्त्विति न ब्रमो येन सर्वथाप्यरूप्यत्वं सर्वथा विरोधो वा भवेत्, किन्तु निर्विचारवक्तव्यं 25 वस्त्विति ब्रूम इत्याशङ्कते-नापीति । तथा सति एकान्तेन निर्विचारवक्तव्यत्वं वस्तुनः प्राप्तमित्येकान्तवादप्रसङ्ग इत्युत्तरयतिएकान्तेति । तथाविधस्य वस्तुनो भावात्मकत्वे विशेषात्मकत्वे वा त्वयैव दोषस्योक्तत्वादित्याह-तत्र चेति । भवनविशेषाभ्यां कारणकार्यत्वाभ्यामेकत्वान्यत्वाभ्यां प्रधानोपसर्जनत्वाभ्यामित्यादिविकल्पैर्विकल्प्यमानमवक्तव्यं वस्तु भवतीत्या दिना वस्तुन एकान्तस्वरूपतायाः प्रतिषेधनात्, तच्च वस्तु न द्रव्यं न कारणं न सामान्यमित्येवं त्वयैव प्राक् प्रतिषिद्धत्वादनेकत्वं प्राप्यत इति भावः । भवतु तर्हि विशेषो घटादिरित्याशङ्कय सोऽपि न सम्भवतीत्याह-स्यान्मतमिति । विशेषोऽपि न वस्तु, समुदायत्वाद्र- 30 • थादिवदित्याह-तदपीति । ननु विशेषस्य वस्तुत्वनिषेधे तत्प्रतिपक्षस्य भावस्य वस्तुत्वं स्यादित्यत्राह-न भाव ति । यद्यपि
१ सि.क्ष. छा. डे. वानविरो० । २ सि.क्ष. छा. डे. धोनानैकत्वं । ३ सि.क्ष. छा. डे. तदपि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org