________________
wmmmmmm
१०६२
न्यायागमानुसारिणीव्याख्यासमेप्तम् [नियमविधिभङ्गारे दायत्वाद्रथादिवत्, न भावः सामान्याख्यो विशेषप्रतिपक्षोऽपि'-तत्प्रतिषेधा[द]र्थापत्त्य[T]प्रसक्तोऽपि त्वयैव प्रतिषिद्धत्वात् कुत एतदेकत्वाद्यवक्तव्यता ?-भावविशेषयोरेवासिद्धौ कुतः पुनस्तद्गतैकत्वान्यत्वादिधर्मद्वारानुगम्य[]वक्तव्यत्वमिति ।
किं तर्हि वस्त्विति चेदुच्यते-रूपादय एव समुदायिनः, न समुदायो नाम कश्चित् , त 6 एव हि भवन्ति, यत्तत्तैर्भूयते स भावो भवनं भूतिः, ते हि तस्या भवनक्रियायाः कारः, योऽन्यैः परिकल्प्यते समुदायः कारणं द्रव्यमित्यादिः स न भावः कश्चिदस्ति, अरूपादित्वात् , खपुष्पवत् , को हि सः पृथिव्यादिविनाभूतः, एवं कः पृथिव्याकाशादिरण्वादिविनाभूतः, केऽणवो रूपादिभ्यो विना, अभिवचनमात्रमेवैते, आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात् खपुष्पवत्। 10 (किमिति) किं तर्हि वस्त्विति चेदुच्यते-रूपादय एव समुदायिनः-समुदायोऽसन्नपि परमार्थतो तेषां संवृतिसन्नस्तीति समुदायिनः, त एव हि भवन्ति, न समुदायो नाम कश्चिदित्यवधारयति, यत्तत्तैर्भूयते स भावो भवनं भूतिः, भावसाधनो भावशब्दः, ते हि तस्या भवनक्रियायाः कर्तारः, शब्दार्थसंव्यवहारेण
योऽन्यैः परिकल्प्यते समुदाय[:]कारणं द्रव्यमित्यादिः स न भावः-सामान्याख्यः कश्चिदस्ति, कस्मात् ? __ अरूपादित्वात् , समस्ता रूपादयो हेतुत्वेनोच्यन्ते रूपाद्यन्यतमानात्मकत्वादित्यर्थः, किमिव ? खपुष्पवत् , 15 एवं साधनेन भावस्य सामान्यस्य[T]भावं प्रदर्य वस्तुनो दर्शयति-को हि सः पृथिव्यादिविनेत्यादि पृथिव्युदकाग्निपवनाकाशात्मकालदिगादिः समुदायमात्ररूपादिपृथग्भूतः कोऽसौ भावः, तद्व्यतिरेकेण नास्तीत्यर्थः, एवं पृथिव्याकाशादि[रण्वादि]विनेत्यादि यावत् केऽणवो रूपादिभ्यो विनेति गतार्थः, अभिवचनमात्रमेवैतेविशेषप्रतिषेधेऽर्थापत्त्या तत्प्रतिपक्षं सामान्यं प्राप्नोति तथापि तस्यापि त्वयैव विशेषशून्यस्य सामान्यस्य निषिद्धत्वात् सामान्य. विशेषयोरेवासिद्धौ कस्यैकत्वान्यत्वादिभिरवक्तव्यता, धर्म्यसिद्धर्धर्माणामप्यभावादिति भावः । स्वमतेन वस्तुनिर्णयं विधत्ते20 किन्तीति । संवृतिसत्समुदायावयवभूताः समुदायिनो रूपादय एव परमार्थसद्वस्तुभूता इत्याह-रूपादय एवेति, येषां
रूपादीनां समुदायः परमार्थतोऽसन्नपि संवृतिसन्नस्तीति समुदायिनो रूपादय एव वस्त्वित्युक्तमिति भावः । एवशब्दव्यावर्त्यमाहत एव हीति, रूपादय एव भवनक्रियाकर्तारः परमार्थतः, न समुदायो नाम कश्चित् परमार्थभूतोऽस्तीति भावः । भावशब्दो भावसाधनो भवनक्रियार्थ इत्याह-यत्त' इति. रूपादिभिर्भूयतेऽतो रूपादिर्भावः, भवनक्रियाकर्ता चेति भावः। परस्प
राभिप्रायमेलनामयत्वाच्छब्दार्थव्यवहारस्य यथातत्त्वमप्रवर्त्तमानस्यानादिवासनापरिकल्पितस्य तेन प्रकल्पितः समुदायः कारणं 25 द्रव्यमित्यादिः, परमार्थरूपो भावो न भवति, रूपाद्यनात्मकत्वादित्याह-शब्दार्थेति । हेतुमाह द्रव्यादेरवस्तुत्वे-अरूपादित्वा
दिति, रूपादिपदेन रूपरसगन्धस्पर्शशब्दा विवक्षिताः, रूपादिन भवतीत्यरूपादिः, तद्भावस्तस्मात् , रूपाद्यनात्मकत्वादित्यर्थः । दृष्टान्तमाह-खपुष्पवदिति, तथा च परपरिकल्पितः समुदायादिनभावो रूपाद्यनात्मकत्वात् , खपुष्पवदिति सामान्यस्याभावः साधितः । शब्दार्थव्यवहारार्थमन्वयविज्ञानोन्नीयमानसद्धावः समुदायो द्रव्यादिर्वा नावयवपृथिव्यादिव्यतिरेकेगान्यः कश्चिदस्ति, न हि तद्विज्ञानं नः समुदायं द्रव्यादि वाऽवयवपृथिव्यादिव्यतिरेकेण दर्शयतीत्याशयेनाह-को हि स इति । एवं 30 पृथिव्यादयोऽपि मृत्पाषाणादिविनाभूता न सन्ति, मृदादयोऽप्यणुसमुदायरूपा एव न ततो भिन्नाः, अणवोऽपि रूपरसगन्धस्पर्शशब्दात्मका एव न ततो व्यतिरिक्ता इत्याह-एवं पृथिव्याकाशादिरिति, पृथिवीपदेन पृथिव्युदकाग्निपवनाः, आकाशादि
सि.क्ष. छा. डे. °पि तत्प्रतिपक्षोऽपि सत्प्रतिषे०।२सि. क्ष. डे. व्यापृथिव्यादविने। छा. °व्यापृथिव्यादेविते । ३ सि.क्ष. छा. डे. पृथिव्याकाशादिनाविने ।
mmmmmmmwwwwwwwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org