________________
wwwmmmm
ww
रूपादिसमुदायमात्रता] द्वादशारनयचक्रम्
१०६३ आभिमुख्यार्थं वचनं रूपाद्यधिगमार्थमित्यर्थः, रूपरसगन्धस्पर्शशब्दा रूपादयः, रूपवेदनाविज्ञानसंज्ञासंस्कारा वा, तद्व्यतिरिक्तमन्यत् पृथिव्यादि तदभिवचनमात्रम्, अत आह-आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात् , खपुष्पवत् ।
रूपादिसमुदायमात्रप्रतिपादनाय दृष्टान्तमाह
यथा चक्रेषाण्यक्षादिहस्त्याद्यङ्गसमूहे रथसेनासंज्ञा, समुदायो विभज्यमानोऽङ्गेषु । तान्यपि स्वांशेषु, प्रत्येकमेवं परमाणुपर्यन्तं विभज्य सुष्ठ निभाल्यमानोऽपि न रथादिरङ्गव्यतिरिक्तो दृश्यते, किन्तु तत्समुदाय एवाऽऽभासते तथा, यदि सोऽङ्गेषु रूपाद्यात्मव्यतिरिक्तेनात्मना स्यात्तत उपलब्धिधर्मा तत्प्रतिबन्धिनामभावे रूपादिवदुपलभ्येत, वस्तुत्वान्न तूप-. लभ्यते, तस्मादसन् , रूपादिव्यतिरिक्तोऽस्ति चेत्समुदायोऽनात्मको नासौ ततः खपुष्पवद्भवेत् , अरूपत्वात् अरूपाद्यात्मकत्वाद्रूपादिभ्य इव वा खपुष्पादेरपि भवेत् ।
10 _यथा चकेषाण्यक्षेत्यादि, चक्राद्यङ्गसमूहे रथसंज्ञा हस्त्याद्यङ्गसमूहे सेनासंज्ञा यथा समुदायो विभज्यमानोऽङ्गेषु तिष्ठति, तान्यप्यङ्गानि विभज्यमानानि आत्मांशेषु परतो वा परत इति यावत्परमाणु, सो विभज्य रूपादिष्वेव तिष्ठति, प्रत्येक-एकैकमङ्गं परमाणुपर्यन्तं विभज्य सुष्ठ निभाल्यमानोऽपि रथो न दृश्यते तथा सेना वनं पुरुषोऽन्यो वाऽसौ न दृश्यतेऽङ्गव्यतिरिक्तः, किन्तु तत्समुदाय आभासते-रूपादय एव प्रत्यवभासन्ते समुदितास्तथेति, यदि सोऽङ्गेष्वित्यादि, स तदात्मा नात्मकः]सात्मा वाऽनात्मा वा स्यात् , यदि रथोऽन्यो वा 15 रूपाद्यात्मव्यतिरिक्तेनात्मना ततः स उपलब्धिधर्मा सन्नग्रहणनिमित्तानामतिदूरसन्निकर्षाभिभवाद्युपलब्धि. प्रतिबन्धिनामभावे रूपादिवदुपलभ्येत वस्तुत्वान्न तूपलभ्यते, तस्माद॑सन् रथादिः समुदायः, ततोऽन्यत्वे पदेनाकाशकालदिगात्मानो ग्राह्याः । रूपादिरेव वस्तु सन् घटः पटः पृथिवी जलं तेजः पवनः काल इत्यादिसंज्ञामधिरोहति, रूपादिपरिज्ञापनायैव पृथिव्युदकादिवचनं नास्ति च पृथिव्यादिः कश्चिद्भावो रूपादिविनाभूत इत्याशयेनाह-अभिवचनमात्र मेवैत इति । क्षणिकवादिमताभिप्रायेणाह-रूपवेदनेति । एवमेवात्मापि रूपादिव्यतिरिक्तो नास्तीत्याह-आत्मा चेति. 20 विज्ञानस्कन्ध एवात्मेति भावः, रूपादिपदेन रूपवेदनादयो विवक्षिता इति सूचयति आत्मा चेति ग्रन्थः । पृथिव्यादिप्रत्यया रूपादिसमुदायविषयाः रूपादिसमुदायविशेष एव पृथिव्यादिसंज्ञामधिरोहतीत्यत्र निदर्शनमाह-यथा चक्रेति । रथो नामन कश्चिच्चक्राक्षेषाद्यवयवसमुदायापेक्षया व्यतिरिक्तो दृश्यते न वा सेनाहस्त्यश्वरथपादातसमुदायापेक्षया व्यतिरिक्ता, नापि वनं निम्बाम्रपनसाश्वत्थादिसमुदायापेक्षया व्यतिरिक्तम् , किन्तु तत्तत्समुदायानामेव रथ इति सेनेति वनमिति संज्ञा क्रियते, तथा च यथा रथादयः समुदायविशेषाः पृथक् पृथक् क्रियमाणाश्चक्राद्यवयवेष्वेवावतिष्ठन्ते नास्ति कश्चिद्रथादिः, तथा चक्रादयोऽपि 25 समुदायरूपत्वाद्विभज्यमानाः खावयवेष्वरादिष्वेवावतिष्ठन्ते, अरादयोऽपि स्वावयवेषु, तेऽपि तदवयवेषु, इत्थं यावत्परमाणु विभज्यमानं वस्तु, स्वावयवेष्वेवावतिष्ठते, न तु ततः पृथक् कश्चिदस्ति, परमाणवोऽपि रूपरसादिसमुदायमात्रमेव, न हि सुधु निरीक्ष्यमाणमपि अङ्गव्यतिरिक्तं रथादिवस्तु समुपलभ्यते, किन्त्वङ्गानां समुदाय एव रथादित्वेनाभासन्त इत्याशयेन व्याकरोतिचक्राद्यलेति। एवं तर्हि किं दृश्यत इत्यत्राह-किन्त्विति । नन्वस्ति समुदायो रूपादिस्वरूपानात्मकस्तव्यतिरिक्तः सात्मकः इति चेत्तर्हि स उपलब्धिलक्षणप्राप्तः उपलब्धिप्रतिबन्धकरहितः रूपादिवदुपलभ्येत, न चोपलभ्यते तस्मान्नास्तीत्याशयेनाह-यदि 30 सोऽलेष्वित्यादीति, तदात्मानात्मकः-रूपाद्यात्मानात्मकः सस्वरूपो निःस्वरूपो वा स्यात्, सस्वरूपत्वे उपलभ्येत, उपलब्धिधर्मत्वात् महद्धतरूपानेकद्रव्यत्वादिति भावः। ननूपलब्धिधर्मत्वेऽपि अतिदूरातिसामीप्येन्द्रियघातमनोऽनवस्थानसौक्षम्याभिभवाद्युपलब्धिप्रतिबन्धकस्य सम्भवात्कथमुपलभ्येतेत्यत्राह-अग्रहणनिमित्तानामिति । ननु रूपादिव्यतिरिक्तो रूपाद्यनात्मा
...सि. क्ष. छा. डे. चक्रेस्वात्वेषाक्षेत्यादि । २ सि.क्ष. छा. डे. साल्मासात्मक आत्मावात्सायदि। ३ सि.क्ष. छा. हे. मरूप० । सि.क्ष. छा. डे. °दसत्वयादिः।
___ द्वा. न. ९ (१३४) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org