________________
wwwwwww
Mammam
१०६४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे त्वनिष्टापादनम् , रूपादिव्यतिरिक्तोऽस्ति चेत्समुदायोऽतदात्मकोऽनुपलभ्यमानोऽपि[?] खपुष्पवद्भवेदरूपत्वात्। [ततो न] [अ]रूपाद्यात्मकत्वात् रूपादिभ्य इव, न ह्यतदात्मकस्य समुदायस्योत्पत्तौ रूपादयो हेतुभावं प्रतिपद्यन्ते व्योमकुसुमस्य, तत्र घटादिसमुदायस्य रूपादयो हेतवो भवन्ति खपुष्पादयो नेति रूपादय एव घटादिसमुदायस्य हेतवो न व्योमकुसुमादीत्यत्र को विशेषहेतुः।
अथानन्तरतायां रूपादिष्वदृष्टं भारवहनादिकार्य रथादौ कथम् ? अत्र प्रयोगः स्वतो व्यतिरिक्तसहकारिसम्बन्धिनो रूपादयः, स्वासम्भविकार्यदर्शनाच्चक्षुरादिवदिति, क तर्हि तदृष्टं ? तेष्वेव, नन्वविवादसिद्धं शिबिकावाहकेभ्यश्चतुभ्यो व्यतिरिक्तात् सहाया. तेऽपि शिबिकावहनं दृष्टं कार्यम् , अतोऽनै कान्तिकं तत् , तथा प्रत्येकवस्तुवृत्तिमनतिकामन्त एव स्वां वृत्तिमवतिष्ठन्ते रूपादयः तेषामेव वस्तुत्वात्, अन्यथाऽर्थस्य परिकल्पनामात्र10 त्वम् , अनवस्थितैकस्वतंत्रत्वात् , अलातचक्रवत् ।
अथानान्तरतायामित्यादि, यावत् कथम् ? स्यान्मतं यद्यनर्थान्तरं रूपादिभ्यो रथादिसमुदायः, रूपादिष्वदृष्टं भारवहनादिकार्यं तत्रासम्भवद्रथादौ दृष्टं लोके तत्कथम् ? प्रतिनियतकारणसाध्यत्वात् कार्याणाम् , तन्तुपटादिवत् , अत्र प्रयोगः स्वतो व्यतिरिक्तसहकारिसम्बन्धिनो रूपादयः, स्वासम्भविकार्यदर्शनात् चक्षुरादिवत् , यथा कृष्णतारादिचक्षुर्व्यतिरिक्तमिन्द्रियमुपलब्धिकारणं सहकारि चक्षुषा 15 सम्बद्धमनुमीयते, चक्षुष्यसम्भवद्रूपज्ञानं कार्य दृष्ट्वा, तथा रूपाद्यसम्भविभारवहनादिकार्यदर्शनाद्रथादि
समुदायान्यत्वमनुमेयमित्यत्रोच्यते-क तर्हि तद् दृष्टं तद्भारवहनादिकार्य ? तेष्वेव-रूपादिषु दृष्टम् , अतः
घटादिसमुदायोऽनात्मकत्वादनुपलभ्यमानोऽप्यस्तीत्यत्राह-रूपादिव्यतिरिक्त इति, यद्यनात्मकत्वादनुपलभ्यमानोऽपि भवेत् स तर्हि खपुष्पमपि भवेत् , अरूपत्वात् , निःस्वरूपत्वात् , रूपाद्यनात्मकत्वाद्वेति भावः । न हि घटादिसमुदायः खपुष्पवद्भवति,
अत एव स रूपाद्यात्मको रूपादिभ्यो भवति, गगनकुसुमादिस्तु न रूपाद्यात्मकसमुदायोऽत एव न रूपादिभ्यो भवति, 20 एवं नाभ्युपगम्यते चेद्घटादिसमुदायस्यैव रूपादयो हेतवो न गगनकुसुमादेरिति विशेषो न स्यात्, अरूपाद्यात्मकत्वाविशेषादि
त्याशयेनाह-अरूपाद्यात्मकत्वा ते, अरूपाद्यात्मकत्वाद्धटादिसमुदायस्य रूपादिभ्यो भवनवत् खपुष्पादेरपि स भवेदित्यर्थः। तदेव वैपरीत्येन समर्थयति-न हीति, रूपाद्यनात्मकसमुदायस्य न रूपादयो हेतव इति भावः। समुदायस्य रूपाद्यनात्मकत्वे .रूपादिरेव तस्य हेतुरिति न स्यादित्याह-तत्र घटादिसमुदायस्येति । ननु रथादयो यदि रूपाद्यत्मकत्वाद्रूपाद्यव्यति. "रिक्तस्तर्हि रूपादिष्वदृष्टं भारवहनादिकार्य रथादौ न स्यात्, भवति तु, तस्मान्न स रूपाद्यात्मक इत्याशङ्कते-अथाना25 न्तरतायामिति । व्याचष्टे-स्यान्मतमिति, भारवहनादिकार्य रूपादावदृष्टं तत्रासम्भवद्रथादौ च दृष्टं तदनन्तरतायां
कथं भवेदिति भावः । नहि कारणनैयत्यं विना कार्यस्य सम्भवः भारवहना देरकारणाद्रूपादेस्तत्कथं स्यात्, प्रतिनियतकारणसाध्यत्वात् कार्याणाम् , यथा तन्तवः पट स्य प्रतिनियतं कारणं तदभावे स न भवेदेवेत्याशयेन हेतुमाह-प्रतिनियतेति । उक्तमेवार्थ प्रयोगेण साधयति-अत्र प्रयोग इति, खस्मिन्नसम्भविनः कार्यस्य स्वतो भिन्नसहकारिसमवहितात् स्वस्माद्भवनं दृश्यते, यथोपलब्धिलक्षणं कार्य कृष्णतारादिचक्षुष्यसम्भवत्तद्व्यतिरिक्तेन्द्रियसम्बन्धाद्भवति तथा रूपाद्यसम्भवि कार्य दृश्यमानं 30 तद्वयतिरिक्तरथादिसमुदायसहकृताद्भवतीति रथादिरूपः समुदायः रूपादिभ्योऽर्थान्तरमेवेति मानार्थः । दृष्टान्तदा न्तिकसमन्वय
माह-यथा कृष्णतारादीति । खासम्भविकार्यदर्शनरूपहेतोर्विशेषणासिद्धिमाह-क्क तर्हि तदृष्टमिति, भारवहनादिकार्य कस्मिन् दृश्यते ? यदि रूपादिषु दृष्टमित्युच्यते तर्हि तद्भारवहनादिकार्य खासम्भवि-रूपाद्यसम्भवि कथम् ? अतः स्वासम्भवित्व
[7]भत्र काश्रन पंक्तयो भ्रष्टा इति भाति, सर्वासु प्रतिष्पत्र पाठस्येतस्मतो भवनात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org