________________
तबेतुपरीक्षणम्] द्वादशारनयचक्रम्
१०६५ स्वासम्भवित्वविशेषणासिद्धिः, सिद्धत्वमभ्युपेत्याप्यनैकान्तिकं कार्यदर्शनं तद्दर्शयति-नन्वविवादेत्यादि, आवयोरविवादेन शिबिकावाहकेभ्यश्चतुर्यो व्यतिरिक्तात् सहायाहतेऽपि शिबिकावहनं दृष्टं कार्यमतोऽनैका न्तिकं तत्, तथा प्रत्येकवस्त्वित्यादि यावदलातचक्रवदिति, भारवहनक्रियायाः समुदायिध्वेव सम्भवं समुदाये च [अ]सम्भवं दर्शयितुं समुदायप्रतिषेधार्थ न्यायमाह-तेन प्रकारेण तथा रूपादिवस्तुनः प्रत्येकं वृत्तिः, तामनतिक्रामन्त एव स्वां वृत्तिमवतिष्ठन्ते रूपादयः, स्ववृत्त्यत्यागव्यवस्थयैव भारवहनादिक्रियामारभन्ते, तेषामेव । वस्तुत्वात्, अन्यथा-वस्तुनो विपर्यये, निर्विवरं देशभेदेन स्थितानां रूपादीनामेव वस्तुत्वात् ततोऽन्यथासमुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वत्वात् , अलातचक्रवत् , यथाऽलातस्य भ्राम्यतः चक्रवदाभानं भ्रान्तपरिकल्पनामात्रं निर्विवरत्वात् तथा रूपादीनां निर्विवराणां परमाण्यादिवदाभानं भ्रान्तपरिकल्पनामात्रम् किमङ्ग ! पुनः सविवरसविवरतरसविवरतमघटपटादिनगरादिपृथिव्यादी[ना]म् , ससमुदायानाम् , न ह्येषां समुदायानामेकं स्वतत्त्वमवस्थितम् , रूपादिवत् परस्परविविक्तमस्त्यतोऽलातचक्र 10 भ्रान्तं रूपादि परतत्त्वव्यपदेशभाक्त्वात् , तस्मादसतः समुदायस्य[न] भार][ह]नादिका क्रियेति ।
आह
ननु घटादावनवस्थितैकस्वतत्त्वत्वस्य सत्त्वमिति चेन्न समुदायत्वाद् घटस्य शकटादिवदेव साध्यत्वात् , रूपरूपादिस्थितकरूपत्वेऽपि सत्त्वमिति चेन्न, रूपसामान्यसमुदायसाध्यत्वात् ।
रूपविशेषणासिङ्ख्याऽसिद्धो हेतुस्तवेति भावः। हेतोः सिद्धत्वमभ्युपेत्यापि हेतोरनैकान्तिकत्वमाह-सिद्धत्वमभ्युपेत्यापीति, 16 प्रत्येकं रूपादावदर्शनात् सिद्धत्वमिति भावः । अनैकान्तिकत्वं घटयति-नन्वविवादेत्यादीति, चत्वारः शिबिकावाहकाः वहन्ति शिबिकाम् , प्रत्येकन्तु शिबिकावाहकेषु वहनमदृष्टमपि तेभ्यो व्यतिरिक्तस्य कस्यापि सहायमनपेक्षमाणास्त एव चत्वारो वहन्ति तस्मात् खासम्भविकार्यदर्शनं तत्रास्ति नास्ति च साध्यं खतो व्यतिरिक्तसहकारिसम्बन्धित्वमित्यनैकान्तिकमिति भावः । ननु भारवहनक्रियाऽपि शिबिकावाहकसमुदाये एव भवति प्रत्येक शिबिकावाहकैस्तस्या असम्भवादित्यत्राह-तथा प्रत्येकवस्त्वित्यादीति । अस्य मूलस्य भावमाह-भारवहनेति। रूपादयः स्वकीय प्रत्येकवृत्त्यपरित्यागेनैव व्यवस्थितास्तत्तत्किया: 20 कुर्वन्ति, तथाविधस्यैव वस्तुत्वात् , यदि समुदाय एव तकिया भवेयुस्तहि रूपादयः स्ववृत्तिपरित्यागेन क्रियामारभन्त इति स्यात्तथा सत्यवस्तुत्वप्रसङ्गः, खवृत्तिपरित्यागादेव, तस्मान्नास्ति कश्चित्समुदाय इति भावः । एवञ्च निर्विवरं देशभेदेन स्थिता रूपादय एव: वस्तुभूता घटादिसंज्ञा लभन्ते, ततोऽन्यप्रकारः समुदाय कल्पित एवेत्याह-अन्यथेति । कल्पितत्वे हेतुमाह-अनवस्थितैकस्वतत्त्वत्वादिति, प्रत्येकं रूपादीनां यत्स्वतत्त्वं तत्रानवस्थितत्वादित्यर्थः । निर्विवरतया तथातथाऽवस्थानादेव घटपटादिरूपतोऽवभासनं भवति कल्पनया, यथा भ्राम्यतोऽलातस्य निर्विवरतयाऽवस्थानादेव चक्रवदवभासनं भवति तच्च परिकल्पनामात्रं तथैव 25 रूपादयः सविवरनिर्विवरतारतम्यात् परमाणुद्वयणुकादिघटपटादिपृथिव्यादिविलक्षणसमुदायरूपेणाभासन्ते, ते च समुदायाः प्रतिनियतैकवतत्त्वे न व्यवस्थिताः, रूपादिवत्, किन्तु परस्परविभिन्नवतत्त्वादलातचक्रवत् भ्रान्ता एव, रूपादिभ्यो व्यतिरिक्त-: तत्त्वव्यपदेशभाक्त्वात् , तस्मान्नास्ति कश्चित् समुदायः, यस्य भारवहनादिक्रिया भवेत् , किन्तु समुदायिशिबिकावाहकानामेवेति निरूपयति-यथाऽलातस्येति । दार्टान्तिके परमाणोरेव कल्पनामात्रत्वे किं पुनर्वक्तव्यं तन्निर्मितत्वेनाभिमतानां घटपटादीना: मित्याशयेनाह-किमङ्ग पुनरिति । एषां समुदायानां कल्पनामात्रत्वेन वस्तुतोऽसत्त्वान्न समुदायस्य भारवहनादिका क्रियेत्याह-30 तस्मादिति । समुदायस्यासत्त्वसाधकानदस्थितैकखतत्त्वत्वहेतोर्व्यभिचारमाशङ्कते-ननु घटादाविति । असत्त्वशून्ये घटादौ
सि.क्ष. छा. डे. स्वतंत्रत्वात् ।
... १.छा. 'त्यादि भावयोरविवादेत्यादि भावयोरविवादेन । २ छा. वर्तहितुं । १ सि.क्ष. छा.डे. °चक्रवदासांतारूपादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org